॥ तस्मै पाणिनये नम: ॥
Page loading... Please wait.
3|2|92
SK 3002
3|2|92
कर्मण्यग्न्याख्यायाम्   🔊
SK 3002
सूत्रच्छेद:
कर्मणि - सप्तम्येकवचनम् , अग्न्याख्यायाम् - सप्तम्येकवचनम्
अनुवृत्ति:
-
अधिकार:
प्रत्यय:  [3|1|1] , परश्च  [3|1|2] , आद्युदात्तश्च  [3|1|3] , धातो:  [3|1|91] , भूते  [3|2|84]
सम्पूर्णसूत्रम्
Unavailable at the moment
सूत्रार्थ:
This sutra is not updated yet.

The sutras are being written one by one, so this sutra will eventually get updated. Meanwhile, you can refer to the commentaries below.
One-line meaning in English
This sutra is not updated yet.
काशिकावृत्तिः
चेः कर्मणि इति वर्तते। कर्मणि उपपदे चिनोतेः कर्मण्येव कारके क्विप् प्रत्ययो भवति अग्न्याख्यायां, धातूपपदप्रत्ययसमुदायेन चेदग्न्याख्या गम्यते। श्येन इव चीयते श्येनचित्। कङ्कचित्। आख्याग्रहणं रूढिसम्प्रत्ययार्थम्। अग्न्यर्थो हि इष्टकाचय उच्यते श्येनचितिति।
`कर्मणि हनः` 3|2|86 इत्यत उपपदविशेषमे कर्मग्रहणेऽनुवत्र्तमाने यत् पुनरिह कर्मग्रहणं तस्य प्रत्ययार्थत्वं विज्ञायत इत्याह-- `कर्मण्येव कारके` इति। `धातूपपद` इत्यादिना समुदायोपाधित्क्मेतदग्न्याख्याग्रहणस्य दर्शयति।`आख्याग्रहणं रूढिसम्प्रत्ययार्थम्` इत्यादि। अग्निशब्दोऽयमग्निसामान्यवाची, अत्रासत्याख्याग्रहणे विशेषो न विज्ञायते-- कस्येह ग्रहणमिति, रूढिसम्प्रत्ययार्थमाख्याग्रहणं क्रियते। किं पुनः कारणं तदर्थमाख्याग्रहणं क्रियत इत्याह-- `अग्न्यर्थो हि` इत्यादि। अग्न्यर्थो य इष्टकानां रचनाविशेषः स श्येनचिदित्युच्यते, तत्रैवायं प्रत्यय इष्यते। स कथं तत्रैव लभ्यते? यस्य ग्रहणं क्रियते, तस्मश्च सति प्रसिद्धो गृह्रमाणोऽग्न्यर्थो य इष्टकानां रचनाविशेषः स एव प्रत्ययार्थो वाच्यतया विज्ञायते, नान्यः॥
कर्मण्यग्न्याख्यायाम्॥ ठ्कर्मणि हनःऽ इत्यतोऽनुवृतं कर्मग्रहणमुपपदम्, इदं तु कर्मप्रत्ययार्थमित्याह---कमण्येव कारक इति। एवकारः पौनर्वचनिकः। उपपदं तावत्कर्मप्रत्ययार्थोऽपि कर्मैवेति। आख्याग्रहणं रूढिसम्प्रत्ययार्थमिति। अग्निशब्दो लोके ज्वलने रूढः, वेदे त्वग्न्यर्थ इष्टकाचयेऽपि प्रचुरः प्रयोगः----य एवं विद्विअनग्निं चिनुते, अग्निं चेष्यमाण इति, स मुख्यो जघन्यो वा भवतु; इह त्वसत्याख्याग्रहणे लोकप्रसिद्धिवशेन ज्वलन एव गृह्यएत, मा ग्राहि, इष्टकाचय एव गृह्यतामित्याख्याग्रहणमित्यर्थः॥
सिद्धान्तकौमुदी
कर्मण्युपपदे कर्मण्येव कारके चिनोतेः क्विप्स्यात् अग्न्याधारस्थलविशेषस्याख्यायाम् । श्येन इव चितः श्येनचित् ॥
कर्मण्यग्न्याख्यायाम् - कर्मण्यग्न्याख्यायाम् । कर्मणीत्यनुवृत्तमुपपदसमर्पकम् । अत्रत्यं तु कर्मणीत्येतत्प्रत्ययार्थसमर्पकम् । तथा चाऽत्र कर्तरीति न सम्बध्यते । तदाह — कर्मण्युपपदे इत्यादि । चिनोतेरिति । भूतार्थादित्यपि बोध्यम् । श्येन इवेति । श्येनशब्दः श्येनसदृशे लाक्षणिक इति भावः । श्येनाकृतिक इति यावत् ।
Text Unavailable. If you can help fixing this issue by providing this text, please let us know using the feedback link at the bottom of this page. Thank you!
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
Text Unavailable. If you can help in fixing this issue by providing this text, please let us know using the feedback link at the bottom of this page. Thank you!