॥ तस्मै पाणिनये नम: ॥
Page loading... Please wait.
3|2|86
SK 2997
3|2|86
कर्मणि हनः   🔊
SK 2997
सूत्रच्छेद:
कर्मणि - सप्तम्येकवचनम् , हनः - पञ्चम्येकवचनम्
अनुवृत्ति:
-
अधिकार:
प्रत्यय:  [3|1|1] , परश्च  [3|1|2] , आद्युदात्तश्च  [3|1|3] , धातो:  [3|1|91] , भूते  [3|2|84]
सम्पूर्णसूत्रम्
Unavailable at the moment
सूत्रार्थ:
This sutra is not updated yet.

The sutras are being written one by one, so this sutra will eventually get updated. Meanwhile, you can refer to the commentaries below.
One-line meaning in English
This sutra is not updated yet.
काशिकावृत्तिः
करणि उपपदे हन्तेर् धातोः णिनिः प्रत्ययो भवति भूते कले। पितृव्यघाती। मातुलघाती। कुग्सितग्रहणं कर्तव्यम्। इति मा भूत्, चौरं हतवान्।
`पितृव्यघाती` इति। `हनस्तोऽचिण्णलोः` 7|3|32 इति तत्वम्। `हो हन्तेर्ञ्णिन्नेषु` 7|3|54 इति घत्वम्, `सौ च` 6|4|13 इति दीर्घत्वम्। `कुत्सितग्रहणं कत्र्तव्यम्िति प्रत्ययर्थस्य विशेषणम्। गृह्रतेऽनेनेति ग्रहणम्। तत् पुनव्र्याख्यानम्। एतदुक्तं भवति-- येन कुत्सितः कत्र्ता प्रत्ययार्थो गृह्रते तद्व्याख्यानं कत्र्तव्यमिति। तत्रेदं व्याख्यानम्-- वक्ष्यमाणबहुलग्रहणमपकृष्येह सम्बन्धः क्रियते, तेन पितृव्यवधादिकां प्रतिषिद्धां क्रियां कुर्वाणो यः कत्र्ता कुत्स्यते, तत्रव, नान्यत्र॥
कर्मणि हनः॥ कुत्सितग्रहणमिति। पितृव्यवधादिना यः कर्ता कुत्स्यते तत्रायं प्रत्यय इति वक्तव्यमित्यर्थः॥
सिद्धान्तकौमुदी
पितृव्यघाती । कर्मणीत्येतत् सहे च (कौमुदी-3006) इति यावदधिक्रियते ॥
कर्मणि हनः - कर्मणि हनः । कर्मण्युपपदे भूतार्थाद्धनेर्णिनिः स्यात् । पितृव्यघातीति । पितृव्यं हतवानित्यर्थः । "हनस्तः" इति तः,हो हन्ते॑रिति हस्य घः ।
कर्मणि हनः - कर्मणि हनः । पितृव्यघातीति । अत्र काशिकाकुत्सितग्रहणं कर्तव्यम् । इह माभूत्, चोरं हतवा॑निति । यद्यपीदं भाष्ये नास्ति तथापि शब्दशक्तिस्वाभाव्यदिदं लभ्यत इत्याहुः ।
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
Text Unavailable. If you can help in fixing this issue by providing this text, please let us know using the feedback link at the bottom of this page. Thank you!