Page loading... Please wait.
3|2|82 - मनः
॥ तस्मै पाणिनये नमः ॥
3|2|82
SK 2992
मनः   🔊
सूत्रच्छेदः
मनः (पञ्चम्येकवचनम्)
अनुवृत्तिः
-
अधिकारः
प्रत्ययः  3|1|1 परश्च  3|1|2 आद्युदात्तश्च  3|1|3 धातोः  3|1|91
सम्पूर्णसूत्रम्
Will be updated soon
सूत्रार्थः
Will be updated soon.
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
सुपि इति वर्तते। मन्यतेः सुबन्ते उपपदे णिनिः प्रत्ययो भवति। दर्शनीयमानी। शोभनमानी। बहुलग्रहणानुवृत्तेः मन्यतेः ग्रहणं न मनुतेः। उत्तरसूत्रे हि खश्प्रत्यये विकरणकृतो विशेषः स्यात्।
`मन्यतेग्र्रहणम्` इति। `मन ज्ञाने` (धातुपाठः-1176) इत्येतस्य दैवादिकस्य। `न मनुतेः` इति। `मनु अवबोधने` (धातुपाठः-1471) इत्येतस्य तानादिकस्य ग्रहणं न भवति। नन #उ च यदेव मन्यतेर्णिनिप्रत्यये कृते दर्शनीयमानीति रूपं भवति, तदेव मनुतेरपि,तत् कोऽत्र विशेषो यतो मन्यतेग्र्रहणमिष्यते,न मनुतेरित्यत आह-- `उत्तरसूत्रे हि` इत्यादि। यद्यपीह विशेषो नास्ति, उत्तरसूत्रे तु विकरणकृतो विशेषोऽस्ति, तत्र हि मन्यतेः खशि कृते दिवादित्वाच्छ्यन् भवति, मनुतेस्तु तनादित्वादुप्रत्ययः॥
मनः॥ मन्यतेर्ग्रहणमिति। ठ्मन ज्ञानेऽ इत्यस्य दैवादिकस्य। न मनुतेरिति। ठ्मनु अवबोधनेऽ इत्यस्य तानादिकस्य। तिपि गुणेन भवितव्यम्। यदि नेष्यते, संज्ञापूर्वको विधिरनित्यः। किं पुनः कारणं प्रयत्नेन मनोतेर्ग्रहणं निवार्यते, यावता इह द्वयोरपि णिनिः तदेव रूपम्, न चार्थभेद इत्याह----उतरसूत्र इति॥
सिद्धान्तकौमुदी
सुपि मन्यतेर्णिनिः स्यात् । दर्शनीयमानी ॥
मनः - मनः । दैवादिकस्यैव मनेग्र्रहणं न तु तानादिकस्य, बहुलग्रहणाऽनुवृत्तेः । तदाह — मन्यतेरिति । मनुतेग्र्रहणे तु बाधकमुत्तरसूत्रे वक्ष्यते ।
मनः - मनः । बहुलग्रहणानुवृत्तेरिह मन ज्ञान दैवादिकस्यैव ग्रहणं न तु मनु अवबोधन इति तानादिकस्य । तेन उत्तरसूत्रे खशि श्यनेव भवति न तूप्रत्ययः । तदाह — मन्यतेरिति ।
लघुसिद्धान्तकौमुदी
सुपि मन्यतेर्णिनिः स्यात्। दर्शनीयमानी॥
महाभाष्यम्
Text Unavailable. Please use feedback link below to provide the text if you have.