Page loading... Please wait.
3|2|73 - विजुपे छन्दसि
॥ तस्मै पाणिनये नमः ॥
3|2|73
SK 3417
विजुपे छन्दसि   🔊
सूत्रच्छेदः
विच् (प्रथमैकवचनम्) , उपे (सप्तम्येकवचनम्) , छन्दसि (सप्तम्येकवचनम्)
अनुवृत्तिः
-
अधिकारः
प्रत्ययः  3|1|1 परश्च  3|1|2 आद्युदात्तश्च  3|1|3 धातोः  3|1|91
सम्पूर्णसूत्रम्
Will be updated soon
सूत्रार्थः
Will be updated soon.
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
उपे उपपदे यजेः छन्दसि विषये विच् प्रत्ययो भवति। उपयड्भिरूर्ध्वं वहन्ति। उपयट्त्वम्। छन्दोग्रहणं ब्राह्मणार्थम्। विचः चित्करणं सामान्यग्रहणाविघातार्थम् वेरपृक्तस्य 6|1|67 इति। किम् अर्थम् इदम् उच्यते, यावत अन्येभ्यो ऽपि दृश्यन्ते 3|2|75 इति यजेरपि विच् सिद्ध एव? यजेर् नियमार्थम् एतत्, उपयजेः छन्दस्य इव, न भाषायाम् इति।
`उपयड्भीः`इति। `व्रश्चादिना` 8|2|36 षत्वम्, पूर्ववज्जश्त्वम्-- डकारः। `उभयट्त्वम्` इति। त्वप्रत्यये परतः `खरि च` 8|4|54 इति चर्त्वं टकारः। ननु च `मन्त्रे` 3|2|71 इत्यनुवर्त्तिष्यते, मन्त्रश्च च्छन्द एव, तत् किमर्थं छन्दसिग्रहणं क्रियत इत्याह-- `छन्दोग्रहणं ब्राआहृणार्थम्` इति। असति च्छन्दोग्रहणे मन्त्रग्रहणानुवृत्तेरपि ब्राआहृणे न स्यात्, न हि मन्त्रग्रहणेन ब्राआहृणं गृह्रते;तस्य ग्रन्थान्तरत्वात्। मन्त्रव्याख्याने ग्रन्थविशेषे ब्राआहृणशब्दो वत्र्तते, न तु मन्त्रे ; तसमाद्ब्राआहृणेऽपि यथा स्यादित्येवमर्थं छन्दसीत्युक्तम्। `विचश्चित्करणम्` इत्यादि। असति चित्करण एष एकानुबन्धः स्यात्। ततश्च `वेरपृक्तस्य` 6|1|65 इत्यत्रैकानुबन्धकपरिभाषया (व्या।प।52) अस्यैव ग्रहणं स्यात्, न क्विबादीनाम्। चित्करणे तु सत्येकानुबन्धो न कश्चिदस्तीति सर्वे गृह्रन्ते॥
विजुपे च्छन्दसि॥ अथ च्छन्दोग्रहणं किमर्थम्, यावता मन्त्र इत्यनुवृतेरेवभाषायां न भविष्यति, तत्राह---च्छन्दोग्रहणं ब्राह्मणार्थमिति। मन्त्रव्यतिरिक्तो वेदभागःउब्राह्मणम्, यथोक्तम्---तच्चोदकेषु मन्त्राख्या, शेषे ब्राह्मणशब्द इति। किमर्थ पुनरिदमिति। उतरसूत्र एव विज्ग्रहणं च्छन्दोग्रहणं च क्रियतामिति प्रश्नः। नियमार्थमिति। ननु द्दशिग्रहणादेव भाषायां न भविष्यति, सत्यम्; तस्यैव प्रपञ्चार्थमिदम्॥
सिद्धान्तकौमुदी
उपे उपपदे यजेर्विच् । उपयट् ॥
Text Unavailable. Please use feedback link below to provide the text if you have.
Text Unavailable. Please use feedback link below to provide the text if you have.
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
Text Unavailable. Please use feedback link below to provide the text if you have.