Page loading... Please wait.
3|2|7 - समि ख्यः
॥ तस्मै पाणिनये नमः ॥
3|2|7
SK 2921
समि ख्यः   🔊
सूत्रच्छेदः
समि (सप्तम्येकवचनम्) , ख्यः (पञ्चम्येकवचनम्)
अनुवृत्तिः
-
अधिकारः
प्रत्ययः  3|1|1 परश्च  3|1|2 आद्युदात्तश्च  3|1|3 धातोः  3|1|91
सम्पूर्णसूत्रम्
Will be updated soon
सूत्रार्थः
Will be updated soon.
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
सोपसर्गार्थः आरम्भः। संपूर्वात् ख्या इत्येतस्माद् धातोः कर्मण्युपपदे कप्रत्ययो भवति। अणो ऽपवादः। गां संचष्टे गोसङ्ख्यः।
`गां सञ्चष्टे` इति। वाक्यविशेषेण `चक्षिङः ख्याञ्` 2|4|54 इति ख्याञादेशस्य ग्रहणम्, न `ख्या प्रकथने` (धातुपाठः-1060) इत्येतस्येति दर्शयति। एतच्च संपूर्वस्य ख्यातेः प्रयोगासम्भवाल्लभ्यते॥
Text Unavailable. Please use feedback link below to provide the text if you have.
सिद्धान्तकौमुदी
गोसंख्यः ॥
समि ख्यः - समि ख्यः ।समी॑ति पञ्चम्यर्थे सप्तमी । गोसङ्ख्य इति । गाः संचष्ट इति विग्रहः । संपूर्वाच्चक्षिङः ख्याञि रूपम् । "ख्या प्रकथने" इत्यस्य तु संपूर्वस्य प्रयोगाऽभावात्, सार्वधातुकमात्रविषयत्वाच्च नेह सम्बध्यते ।
समि ख्यः - गोसङ्ख्य इति । गाः संचष्टे इति विग्रहः ।चक्षिङः ख्याञ् । ख्या प्रकथन इत्यस्य तु संपूर्वस्य प्रोयगो नास्तीति न्यासकारः । सार्वधातुकमात्रविषयोऽसौ धातुरिति च मनोरमादौ स्थितम् ।
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
Text Unavailable. Please use feedback link below to provide the text if you have.