॥ तस्मै पाणिनये नम: ॥
Page loading... Please wait.
3|2|58
SK 432
3|2|58
स्पृशोऽनुदके क्विन्   🔊
SK 432
सूत्रच्छेद:
स्पृशः - पञ्चम्येकवचनम् , अनुदके - सप्तम्येकवचनम् , क्विन् - प्रथमैकवचनम्
अनुवृत्ति:
-
अधिकार:
प्रत्यय:  [3|1|1] , परश्च  [3|1|2] , आद्युदात्तश्च  [3|1|3] , धातो:  [3|1|91]
सम्पूर्णसूत्रम्
Unavailable at the moment
सूत्रार्थ:
This sutra is not updated yet.

The sutras are being written one by one, so this sutra will eventually get updated. Meanwhile, you can refer to the commentaries below.
One-line meaning in English
This sutra is not updated yet.
काशिकावृत्तिः
स्पृशे र्धातोरनुदके सुबन्त उपपदे क्विन् प्रत्ययो भवति। ननु सकर्मकत्वात् स्पृशेः कर्मैवोपपदं प्राप्नोति? न एष दोषः। कर्तरि इति पूर्वसूत्रादनुवर्तते, तत् कर्तृप्रचयार्थं विज्ञायते। सुबन्तमात्रे च उपपदे कर्तृपचयो लभ्यते घृतं स्पृशति घृतस्पृक्। मन्त्रेण स्पृशति मन्त्रस्पृक्। जलेन स्पृशति जलस्पृक्। अनुदके इति किम्? उदकस्पर्शः। नकारः क्विन्प्रत्ययस्य कुः 8|2|62 इति विशेषणार्थः।
`सुपि स्थः` 3|2|4 इत्यत्रोक्तम्-- `कर्मणि` `सुपि`इति द्वयमनुवत्र्तते, तत्र सकर्मकेषु कर्मणीत्युपतिष्ठते, अन्यत्र सुपीति। स्पृशिरयं सकर्मकः, अतः स्पृशेर्धातोरनुदके सुबन्त उपपद इत्युक्ते पूर्वापरव्याहति मन्यमान आह-- `ननु च` इत्यादि।`नैषः` इत्यादिना परिहारः। कथं पुनः कर्त्तृग्रहणे कर्त्तुश्च प्रचयार्थे विज्ञायमाने सुबन्त उपपदे प्रत्ययो लभ्यत इत्याह-- `सुबन्तमात्रे` इत्यादि। सुबन्तमात्र उपपदे सत्येकः प्रचयार्थः कत्र्ता कर्मण्युपपदे सति भवति, अपरः करणादावुपपदे; तत्र भेदे सति तत्सम्बन्धभेदेन भिद्यमानस्य कर्त्तुः प्रचयो लभ्यते। `घृतस्पृक्` इति। `क्विन्प्रत्ययस्य कुः` इत्यादि। `क्विप्रत्ययस्य कुः` इत्युच्यमाने क्विपोऽपि ग्रहणं स्यात्तो नकारोऽनुबध्यते। प्रकृतेराद्युदात्तार्थो नकारो न भवित; स्पृशेरेकाच्त्वात्,तत्स्वरेणैव सिद्धत्वात्। ककारो गुणप्रतिषेधार्थः, वकारः `वेरपृक्तस्य` 6|1|65 इति विशेषणार्थः॥
स्पृशोऽनुदके क्विन्॥ ननु चेत्यादि। ठ्सुपि स्थःऽ इत्यत्रोक्तम्----सकर्मकेषु कर्मणीत्युपतिष्ठतेऽन्यत्र सुपीति, ततश्च सुबन्त उपपदे क्विन् प्रत्यय इत्युक्तमनुपपन्नमिति भावः। तत्कर्तृप्रचयार्थमिति। ठ्कर्तरि कृत्ऽ इत्येव कर्तरि क्विनः सिद्धत्वात्कर्त्रनुवृतेर्नान्यत्प्रयोजनमस्तीति भावः। कर्तृप्रचयो लभ्यत इति। कर्मण्युपपद एकः कर्ता, करणादौ चापर इत्येवं प्रचयो भवति। घृतस्पृगिति। ठ्क्विन्प्रत्ययस्य कुःऽ इति शकारस्य षकारः सोष्मत्वेनान्तरतम्यात्, ठ्झलां जशोऽन्तेऽ। क्विनः ककारो गुणवृद्धिप्रतिषेधार्थः, इकारः ठ्वेरपृक्तस्यऽ इति विशेषणार्थः। नकारः किमर्थः, एकाज्भ्यो ह्ययं विधीयते तत्र धातुस्वरेणैव सिद्धम्? यस्तर्ह्यनेकाज्----दधृगिति, वक्ष्यत्येतद्धृषेर्द्धिर्वचनमन्तोदातत्वञ्चेति? एवं तर्हि ठ्क्विन्प्रत्ययस्य कुःऽ ठ्क्विप्रत्ययस्यऽ इत्युच्यमाने सन्देहः स्यात्----क्वेः क्विपो वा निर्देश इति। क्वेरपि निर्देशे पकारस्य ठनचि चऽ इति द्विर्वचनम्॥
सिद्धान्तकौमुदी
अनुदके सुप्युपपदे स्पृशेः क्विन्स्यात् । वृतस्पृक् । घृतस्पृग् । घृतस्पृशौ । घृतस्पृशः । क्विन् प्रत्ययो यस्मादिति बहुव्रीह्याश्रयणात् क्विप्यपि कुत्वम् । स्पृक् । षडगकाः प्राग्वत् । ञिधृषा प्रागल्भ्ये । अस्मात् ऋत्विक् (कौमुदी-373)आदिना क्विन् द्वित्वमन्तोदात्तत्वं च निपात्यते । कुत्वात्पूर्वं जश्त्वेन डः । गः । कः । धृष्णोतीति दधृक् । दधृग् । दधृषौ । दधृषः । दधृग्भ्यामित्यादि । रत्नानि मुष्णातीति रत्नमुट् । रत्नमुड् । रत्नमुषौ । रत्नमुषः ॥ षड्भ्यो लुक् (कौमुदी-261) । षट् । षड् । षड्भिः । षड्भ्यः 2 । षट्चतुर्भ्यश्च (कौमुदी-338) इति नुट् । अनामिति पर्युदासान्न ष्टुत्वनिषेधः । यरोऽनुनासिक (कौमुदी-116) इति विकल्पं बाधित्वा ।प्रत्यये भाषायां नित्यम्‌ (वार्तिकम्) ॥ इति वचनान्नित्यमनुनासिकः । षण्णाम् । षट्त्सु । षट्सु । तदन्तविधिः । परमषट् । परमषण्णाम् । गौणत्वे तु-प्रियषषः । प्रियषषाम् । रुत्वं प्रति षत्वस्यासिद्धत्वात् ससजुषो रुः (कौमुदी-162) इति रुत्वम् ॥
स्पृशोऽनुदके क्विन् - स्पृशोऽनुदके । अनुदके सुपीति । उदकशब्दबिन्ने सुबन्ते इत्यर्थः । "सुपि स्थः" इत्यतःसपी॑त्यनुवर्तते इति भावः । घृतस्पृगिति । घृतं स्पृशतीति विग्रहे क्विन् । उपपदसमासः । सुब्लुक् । घृतस्पृशशब्दात्सुबुत्पत्तिः । सोर्हल्ङ्यादिलोपः ।क्विन्प्रत्ययस्ये॑ति कुत्वस्याऽसिद्धत्वात् पूर्वंव्रश्चे॑ति षः ।तस्य जश्त्वेन डः । तस्य कुत्वेन गः । तस्य चत्र्वाविकल्प इति भावः । घृतस्पृग्भ्याम् । घृतस्पृक्षु । अथक्विन्प्रत्ययस्य कुः॑ इत्यत्र "क्विनः कुः" इत्यतावतैव क्विन्नन्तस्येति लब्धे प्रत्ययग्रहणं क्विन् प्रत्ययो यस्मादिति बहुव्रीहिलाभायेत्युक्तं युक्शब्दनिरूपणावसरे, तस्य प्रयोजनमाह — क्विप्यपिकुत्वमिति ।सति भवती॑ति शेषः । अनुदके सुप्युपपदे तावत् स्पृशेः क्विन् विहितः । अतो निरुपसर्गात् स्पृशेः क्विबेव । तस्य संप्रति क्विन्नन्तत्वाऽभावेऽपि कुत्वं भवत्येव, बहुव्रीह्राश्रयणेन कदाचित् क्विन्नन्तत्वमात्रेणापि क्विन्प्रत्ययान्तत्वयोग्यतालाभादिति भावः । षडगकाः प्राग्वदिति । षत्वजश्त्वकुत्वचत्र्वैरिति भावः । इति शान्ताः । अथ षान्ताः । दधृष्शब्दस्य व्युत्पतिंत दर्शयति — ञि धृषेति । "आदिर्ञिटुडवः" इति ञिरित् । आकारस्तु "उपदेशेऽजनुनासिक" इति इत् । ऋत्विगादिनेति । क्विन्नादित्रयं निपात्यते । क्पिनि लुप्ते धृष् इत्यस्य द्वित्वं । "उरत्" रपरत्वम् ।हलादिः शेषः॑ । कित्त्वान्न लघूपधगुणः, दधृष् इति रूपम् । ञ्नित्यादिर्नित्य॑मित्याद्युदात्तनिवृत्त्यर्थमन्तोदात्तनिपातनम् । कुत्वात्पूर्वमिति । जश्त्वं प्रति कुत्वस्याऽसिद्धत्वात्प्रथमं जस्त्वेन षस्य डकार इत्यर्थः । गः क इति ।क्विन्प्रत्ययस्ये॑ति डस्य कुत्वेन गकारः, तस्य चर्त्वेन ककार इत्यर्थः । रत्नमुडिति ।मुष स्तेये॑क्विप्, उपपदसमासः सुब्लुक्, हल्ङ्यादिलोपः, जश्त्वचर्त्वे इति भावः । षष्शब्दो नित्यं बहुवचनान्तः । तस्य बहुवचनेष्वेव रूपाणि दर्शयति — षड्भ्यो लुगिति ।अनेन जश्शसोर्लुकि जश्त्वचर्त्वे॑ इति शेषः । तदन्तविधिरिति ।षड्भ्यो लुक्, षट्चतुभ्र्यश्चे॑त्यनयोराङ्गत्वादिति भावः । प्रिया षट् यस्येति बहुव्रीहौ प्रियषष्शब्दस्य एकद्विबहुवचनानि सन्ति । प्रियषट-प्रियषड्, प्रियषषौ, प्रियषष इत्यादि रत्नमुषशब्दवत् । तत्र "षड्भ्यो लुक्" इतिषट्चतुभ्र्यश्चे॑ति च लुङ्नुटोः प्रवृत्तेरिति भावः । पठितुमिच्छतीत्यर्थेपठ व्यक्तायां वाचि॑-इति धातोः "धातोः कर्मणः" इति सन्प्रत्यये "सन्यङीः" इति द्वित्वे हलादिशेषे "सन्यतः" इत्यब्यासस्य इत्त्वं, सन इट्, षत्वं, "सनाद्यन्ताः" इति धातुत्वम् । "पिपठिष" इत्यस्मात् क्विप्,अतो लोपः॑, पिपठिष् इति षकारान्तम् । कृदन्तत्वात्प्रातिपदिकत्वं, ततः सुः । तत्र विशेषं दर्शयति-रुत्वं प्रतीति ।क्वौ लुप्तं न स्थानिवत् इति निषेधाद्धल्ङ्यादिलोपे कृते "ससजुषो रुः" इति रुत्वम् । न च सकाराऽभावः शङ्क्यः, रुत्वं प्रति षत्वस्याऽसिद्धत्वादित्यर्थः ।
स्पृशोऽनुदके क्विन् - स्पृशोऽनुदके क्विन् । ककारो गुणाऽभावार्थः । नकारस्तुक्विन्प्रत्ययस्य कुः॑इति विशेषणार्थः । वस्तुप्रयोजनं, क्विनः प्रकृतीनामेकाच्त्वाद्धातुस्वरेणाऽपि तत्सिद्धेः ।दधृ॑गित्यत्र त्वन्तोदात्तत्वनिपातनादद्यदात्तत्वं नापेक्षितमेवेति दिक् । अत्रसुपी॑त्यनुवर्तते,कर्मणी॑ति तु निवृत्तमित्याशयेनाह — -अनुदके सुप्युपपदे इति । घृतस्पृगिति । घृतं घृतेन वा स्पृशतीति विग्रहः । अनुदके किम्, उदकं स्पृशतीति उदकस्पर्शः । निषेधसामथ्र्यादिह क्विबपि न भवति, तस्मिन्ह सति क्विन्प्रत्ययो यस्मादिति बहुव्रीह्राश्रयणेन कुत्वस्याऽवर्जनीयतयाअनुदके॑इति निषेधस्य फलाऽभावात् । केचित्तुउदाकस्पृ॑डिति प्रत्युदाहरन्ति, निषेधसामथ्र्यात्कुत्बं माऽस्तु, क्विप्स्यादेवेति तेषामाशयः । इति शान्ताः । गौणत्वे त्विति ।
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
Text Unavailable. If you can help in fixing this issue by providing this text, please let us know using the feedback link at the bottom of this page. Thank you!