Page loading... Please wait.
3|2|52 - लक्षणे जायापत्योष्टक्
॥ तस्मै पाणिनये नमः ॥
3|2|52
SK 2969
लक्षणे जायापत्योष्टक्   🔊
सूत्रच्छेदः
लक्षणे (सप्तम्येकवचनम्) , जाया-पत्योः (सप्तमीद्विवचनम्) , टक् (प्रथमैकवचनम्)
अनुवृत्तिः
-
अधिकारः
प्रत्ययः  3|1|1 परश्च  3|1|2 आद्युदात्तश्च  3|1|3 धातोः  3|1|91
सम्पूर्णसूत्रम्
Will be updated soon
सूत्रार्थः
Will be updated soon.
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
हन्तेः जायापत्योः कर्मणोः उअपपदयोः लक्षणवति कर्तरि टक् प्रत्ययो भवति। जायाघ्नो ब्राह्मणः पतिघ्नी वृषली। अथ वा लक्षणे द्योत्ये टक् प्रत्ययः।
लक्ष्यते चिह्न्यतेऽनेनेति लक्षणम्। तदस्यास्तीति तस्मिन् लक्षणवति। एतेन मत्वर्थीयाकारप्रत्ययान्तो लक्षणशब्दः सूत्र उपात्त इति दर्शयति, स च कर्त्तुः प्रत्ययस्य विशेषणमिति दर्शयन्नाह-- `लक्षमवति कत्र्तरि` इति। अथ लक्षणशब्दस्योपपदत्वं कस्मान्न भवति? केचिदाहुः- `हन्तेः सकर्मकत्वात् कर्मणीतीहोपतिष्ठते;तत्र यदीह लक्षणस्योपपदत्वं स्यात्, तत् कर्मणा विशिष्येत। न च लक्षणं हन्तेः कर्मोपपद्यते, स हि हिंसायां वत्र्तते, हिंसा च प्राणिविषया। जायापत्योः प्राणिधर्मत्वात् कर्मत्वमुपपद्यते`इति, एतच्चानुपपन्नम् ; मत्वर्थीयाकारप्रत्ययान्तस्य लक्षणशब्दस्य प्राणिन्यपि वृत्तेः। व्याख्यानादेव लक्षणस्यानुपपदत्वं विज्ञायते। अनभिधानाद्वा। जायापत्योः कत्र्रोरभिधानं दृष्टम्। `जायाघ्नः`इति। कित्त्वात् `गमहन` 6|4|98 इत्यादिनोपधालोपः, पूर्ववत् कुत्वम्। `पतिघ्नी`इति। टित्त्वान्ङीप्॥
लक्षणे जायापत्योष्टक्॥ लक्षणवतीति। एतेनार्श आद्यच्प्रत्ययान्तो लक्षणशब्द इति दर्शयति। एतच्च सूत्रारम्भादेवावसीयते, केवले हि लक्षणे उतरेणैव सिद्धः प्रत्ययः। जायाध्नो ब्राह्मण इति। यस्य तिलकालादि जायामरणलिङ्गमस्ति स तां हन्तीति गौणो गदः। एतेन पतिघ्नी व्याख्याता। ठ्गमहनऽ इत्युपधालोपः, टित्वान्ङीप्॥
सिद्धान्तकौमुदी
हन्तेष्टक् स्याल्लक्षणवति कर्तरि । जायाघ्नो ना । पतिघ्नी स्त्री ॥
लक्षणे जायापत्योष्टक् - लक्षणे । लक्षणवतीति । सूत्रे लक्षणशब्दोऽर्शाअद्यजन्त इति भावः । जायाघ्नो नति । जायाहननसूचकलक्षणवान् पुरुष इत्यर्थः ।गमहने॑त्युपधालोपः । पतिघ्नी स्त्रीति । पतिहननसूचनलक्षणवतीत्यर्थः । टित्त्वान्ङीप् ।
लक्षणे जायापत्योष्टक् - लक्षणवतीति । सूत्रे लक्षणशब्दोऽर्शाअद्यजन्त इति भावः । जायाघ्न इति । जायामरणसूचकं पाणिरेखाविशेषादिकं यस्यास्ति स तां हन्तीति गौणो व्यवहारः । एवं पतिघ्नीत्यत्रापि बोध्यम् ।
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
लक्षणे जायापत्योष्टक् (819) (487 टक्प्रत्ययविधिसूत्रम्।। 3 । 2 । 1 आ.19 सूत्रम्) (आक्षेपभाष्यम्) कथमिदं विज्ञायते ‐ -लक्षणे कर्तरि, आहोस्वित् लक्षणवति कर्तरीति। किं चातः?। यदि विज्ञायते ‐ ‐ लक्षणे कर्तरी ति। सिद्धं जायाघ्नस्तिलकालकः, पतिघ्नी पाणिरेखेति। इदं तु न सिध्यति ‐ -जायाघ्नो ब्राह्मणः, पतिघ्नी वृषलीति।। अथ विज्ञायते ‐ -लक्षणवति कर्तरीति। सिद्धं जायाघ्नो ब्राह्मणः पतिघ्नी वृषलीति। जायाघ्नस्तिलकालकः, पतिघ्नी पाणिरेखेति न सिध्यति।। (प्रथमकल्पस्वीकरणभाष्यम्) अस्तु तर्हि लक्षणे कर्तरीति।। (दूषणभाष्यम्) कथं जायाघ्नो ब्राह्मणः पतिघ्नी वृषलीति?। (दूषणोद्धारभाष्यम्) अकारो मत्वर्थीयः। जायाघ्नोऽस्मिन्नस्ति सोऽयं जायाघ्न इति।। (आक्षेपभाष्यम्) पतिघ्नी वृषलीति न सिध्यति।। (द्वितीयकल्पस्वीकरणभाष्यम्) अस्तु तर्हि लक्षणवति कर्तरीति।। (दूषणस्मारणभाष्यम्) कथंजायाघ्नस्तिलकालकः पतिघ्नी पाणिरेखेति?। (समाधानभाष्यम्) अमनुष्यकर्तृके च इत्येवं भविष्यति।। लक्षणे।। 52 ।।