॥ तस्मै पाणिनये नम: ॥
Page loading... Please wait.
3|2|46
SK 2963
3|2|46
संज्ञायां भृतॄवृजिधारिसहितपिदमः   🔊
SK 2963
सूत्रच्छेद:
संज्ञायाम् - सप्तम्येकवचनम् , भृ-तॄ-वृजि-धारि-सहि-तपि-दमः - पञ्चम्येकवचनम्
अनुवृत्ति:
-
अधिकार:
प्रत्यय:  [3|1|1] , परश्च  [3|1|2] , आद्युदात्तश्च  [3|1|3] , धातो:  [3|1|91]
सम्पूर्णसूत्रम्
Unavailable at the moment
सूत्रार्थ:
This sutra is not updated yet.

The sutras are being written one by one, so this sutra will eventually get updated. Meanwhile, you can refer to the commentaries below.
One-line meaning in English
This sutra is not updated yet.
काशिकावृत्तिः
कर्मणि इति सुपि इति च प्रकृतं सज्ञावशाद् यथासम्भवं सम्बध्यते। भृ तृ̄ वृ जि धारि सहि तपि दम इत्येतेभ्यो धातुभ्यः संज्ञायां विषये खच् प्रत्ययो भवति। विश्वम्भरा वसुन्धरा। रथन्तरं साम। पतिंवरा कन्या। शत्रुञ्जयो हस्ती। युगन्धरः पर्वतः। शत्रुंसहः। शत्रुंतपः। अरिंदमः। सज्ञायाम् इति किम्? कुटुम्बं बिभर्ति इति कुटुम्बभारः।
`संज्ञावशात्` इति। संज्ञाशब्दा हि द्विविधा भवन्ति-- केचिदवयवार्थानुगताः,यथा-- सप्तवर्ण इति; केचित्तु विपरीताः, यथा तैलपायिकेति। तदिह यत्रावयवार्थानुगमोऽस्ति विआम्भरः, शत्रुन्तप इत्यादिषु , तत्र कर्मणीति सम्बध्यते-- विआं बिभत्र्तीति विआम्भरः। यत्र त्ववयवार्थानुगमो नास्ति, यथा-- रथन्तरं सामेति, तत्र व्यत्पत्त्यर्थं सुपीति सम्बध्यते-- रथेन तरतीति, रथे तरतीति वा। `पतिंवरा` इति। `वृञ् वरणे` (धातुपाठः-1254), `वृङ सम्भक्त्रौ`(धातुपाठः-1509)। पतिं वृणीते, पतिं वृणुत इति विग्रहः। शत्रुं जयतीति `शत्रुञ्जयः`। `धारि` इति। धृञो ण्यन्तस्य ग्रहणम्। युगं धारयतीति `युगन्धरः`। पूर्वपदध्रस्वत्वम्। शत्रुं सहत इति `शत्रुंसहः`। शत्रुं तपतीति `शत्रुंतपः`। अरिं दाम्यतीति `अरिन्दमः`। यद्यपि दमिरकर्मकः, तथाप्यन्तर्भावितण्यर्थत्वात् सकर्मको भविष्यति। अरिं दमयतीत्यर्थः॥
संज्ञायां भृतृवृजिधारिसहितपिदमः॥ संज्ञावशादित्यादि। ठ्शत्रुन्तपःऽ इत्यादौ यत्र कर्मार्थानुगमस्तत्र कर्मणीति सम्बध्यते। यत्र तु न रथन्तरमित्यादौ तत्र सुपीति। अरिन्दम इति। अन्तर्भावितण्यर्थो दमिः सकर्मको भवति॥
सिद्धान्तकौमुदी
विश्वं बिभर्तीति विश्वम्भरः । विश्वंभरा । रथंतरं साम । इह रथेन तरतीति व्युत्पत्तिमात्रं न त्ववयवार्थानुगमः । पतिंवरा कन्या । शत्रुंजयो हस्ती । युगंधरः पर्वतः । शत्रुंसहः । शत्रुंतपः । अरिंदमः । दमिः शमनायां तेन सकर्मक इत्युक्तम् । मतान्तरे तु अन्तर्भावितण्यर्थोऽत्र दमिः ॥
संज्ञायां भृतॄवृजिधारिसहितपिदमः - संज्ञायाम् ।ख॑जिति शेषः । भृ, तृ , वृ ,जि, धारि, सहि, तपि, दमि- एषामष्टानं समाहारद्वन्द्वात्पञ्चमी । विआम्भर इति । विष्णोरियं संज्ञा । विआम्भरेति । पृथिव्याः संज्ञा इयम् । रथन्तरमिति । तृधातोः खच् । रथेन तरितृत्वस्य सामविशेषे असंभवादाह — इहेति । वृधातोरुदाहरति — पतिंवरेति । शत्रुञ्जय इति । जिधातोः खच् ।धारी॑ति ण्यन्तग्रहण, तस्योदाहरति — युगन्धर इति । युगं धारयतीति विग्रहः । "खचि ह्यस्वः" इत्युपधाह्यस्वः । णिलोपः । शत्रुंसह इति । शत्रून् सहते विग्रहः । ह्यस्वादि पूर्ववत् । एवमग्रेऽपि । शत्रुन्तप इति । शत्रून् तपतीति विग्रहः । अरिन्दम इति । अरिषु निग्रहविषये शाम्यतीत्यर्थः । दमिः शमनायामिति । "दमु उपशमे" इति धातुपाठे उपशमशब्दे शमेण्र्यन्ताद्धञ् । तथा च दाम्यतीत्यस्य उपशमयतीत्यर्थाश्रयणात्सकर्मकत्वमिति माधवादिमते सकर्मकोऽयमित्यर्थः । मतान्तरे त्विति । "दमु उपशमे" इत्युपशमार्थस्य दमेरकर्मकत्वमिति हरदत्तादिभिरुक्तमित्यर्थः ।
संज्ञायां भृतॄवृजिधारिसहितपिदमः - संज्ञायां भृतृ ।विआम्भरः कैटभजित् ।रसा विआम्भरा स्थिरा॑ इत्यमरः । व्युत्पत्तिमात्रमिति । तत्फलं तु स्वरावग्रहौ ।रथन्तरमाजभारा वसिष्ठः॑ इत्यत्र हि रथमित्यवगृह्णन्ति । कृदुत्तरपदप्रकृतिस्वरेणान्तोदात्तत्वं चाधीयते । अखण्डत्वे त्ववग्रहो न स्यात्,नब्विषयस्ये॑त्याद्युदात्तश्च स्यात् । इत्युक्तमिति । माधवाद्यनुरोधेनेत्यर्थः । मतान्तरे त्विति । हरदत्तादिमत इत्यर्थः । चित्तव्यापारोपरमः शमः, इन्द्रियव्यापारोपरमस्तु दम॑ इत्यादि वेदान्तग्रन्थाश्चेहानुकूलाः । संज्ञायां किम् । कुटुम्बं बिभर्तीति कुटुम्बभारः ।
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
Text Unavailable. If you can help in fixing this issue by providing this text, please let us know using the feedback link at the bottom of this page. Thank you!