॥ तस्मै पाणिनये नम: ॥
Page loading... Please wait.
3|2|2
SK 2914
3|2|2
ह्वावामश्च   🔊
SK 2914
सूत्रच्छेद:
ह्वावामः - पञ्चम्येकवचनम् , च - अव्ययम्
अनुवृत्ति:
-
अधिकार:
प्रत्यय:  [3|1|1] , परश्च  [3|1|2] , आद्युदात्तश्च  [3|1|3] , धातो:  [3|1|91]
सम्पूर्णसूत्रम्
Unavailable at the moment
सूत्रार्थ:
This sutra is not updated yet.

The sutras are being written one by one, so this sutra will eventually get updated. Meanwhile, you can refer to the commentaries below.
One-line meaning in English
This sutra is not updated yet.
काशिकावृत्तिः
ह्वेञ् स्पर्धायां शब्दे च, वेञ् तन्तुसन्ताने, माङ् माने इत्येतेभ्यश्च कर्मण्युपपदे अण् प्रत्ययो भवति। कप्रत्ययस्य अपवादः। स्वर्गह्वायः। तन्तुवायः। धान्यमायः।
`ह्वेञ् स्पद्र्धायाम्`। `वेञ् तन्तुसन्ताने` इति। अथ `वा गतिगन्धनयोः` (धातुपाठः-1050) इत्यस्य ग्रहणं कस्मान्न भवति? अकर्मकत्वात्। कर्मणि चेहानुवत्र्तते। `माङ माने` इति। ङकारानुबन्धवतो मा इत्यस्योपलक्षणार्थमेतत्। `मेङ प्रणिदाने` (धातुपाठः-961) इत्यस्यापि ग्रहणमिष्यते; `गामादाग्रहणेष्वविशेषः` (व्या।प।124) इति वचनात्। ननु यदि गामादाग्रहणेष्वविशेषस्तदा `मीञ् हिंसायाम्` (धातुपाठः-1476), `डुमिञ् प्रक्षेपणे`(धातुपाठः-1250) इति तयोरप्येज्विषय आत्त्वे कृते मेत्येतद्रूपं सम्पद्यते? भवत्येवाभ्यामणेवेति पूर्वसूत्रेण प्राप्तस्य। `स्वर्गह्वायः` इति। `आतो युक् चिण्कृतोः` 7|3|33 इति युक्॥
ह्वावमश्च॥
सिद्धान्तकौमुदी
अण् स्यात् । कापवादः । स्वर्गह्वायः । तन्तुवायः । धान्यमायः ॥
ह्वावामश्च - ह्वावामश्च ।ह्वेञ् स्पर्धायाम् "वेञ् तन्तुसन्ताने" अनयोः कृतात्वयोर्निर्देशः, "माङ् माने" एषां द्वन्द्वात्पञ्चम्येकवचनम् । एभ्य इति । कर्मण्युपपदे एभ्योऽण् स्यादित्यर्थः । ननुकर्मण्य॑णित्येव सिद्धे किमर्थमिदमित्यत आह — कापवाद इति । "आतोऽनुपसर्गे कः" इत्यस्याऽणपवादस्य वक्ष्यमाणस्य बाधनार्थमित्यर्थः । माङ्मेङोरिह ग्रहणं, नतु "मा माने" इत्यस्य, अकर्मकत्वात् । स्वर्गह्वाय इति । यद्यपि पराभिभवेच्छायां स्पद्र्धायां परिभिभवस्य कर्मणो धात्वर्थत्वेनोपसङ्ग्रहादकर्मक इत्युक्तम्, तथापि इहाऽभिभवेच्छा धात्वर्थः । स्वर्गमभिभवितुं वाञ्छतीत्यर्थः । अन्तरङ्गत्वादात्वे कृते आतो युक् । एवमग्रेऽपि ।
ह्वावामश्च - ह्वावामश्च । कापवाद इति ।आतोऽनुपसर्गे॑ इति प्राप्तिर्बोध्या । स्वर्गह्वाय इत्यादि । ह्वेञ्वेञोःआदेचः॑ इत्यात्वेआतो यु॑गिति युक् । माङ् माने, मेङ् प्रणिदाने अनयोरिह ग्रहणं, न तु मा माने इत्यस्य, अकर्मकत्वात् । कविधानस्य फलमाह — -आतो लोप इति ।
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
Text Unavailable. If you can help in fixing this issue by providing this text, please let us know using the feedback link at the bottom of this page. Thank you!