॥ तस्मै पाणिनये नम: ॥
Page loading... Please wait.
3|2|181
SK 3161
3|2|181
धः कर्मणि ष्ट्रन्   🔊
SK 3161
सूत्रच्छेद:
धः - षष्ठ्येकवचनम् , कर्मणि - सप्तम्येकवचनम् , ष्ट्रन् - प्रथमैकवचनम्
अनुवृत्ति:
-
अधिकार:
प्रत्यय:  [3|1|1] , परश्च  [3|1|2] , आद्युदात्तश्च  [3|1|3] , धातो:  [3|1|91] , वर्तमाने  [3|2|123]
सम्पूर्णसूत्रम्
Unavailable at the moment
सूत्रार्थ:
This sutra is not updated yet.

The sutras are being written one by one, so this sutra will eventually get updated. Meanwhile, you can refer to the commentaries below.
One-line meaning in English
This sutra is not updated yet.
काशिकावृत्तिः
धयतेर् दधातेश्च कर्मणि कारके ष्ट्रन् प्रत्ययः भवति। षकारो डीषर्थः। धयन्ति तां दधति वा भैषज्यार्थम् इति धात्री। स्तनदायिनी आमलकी च उच्यते।
`धयतेः` इति। `धेट् पाने` (धातुपाठः-902)। `दधातेः` इति। `डुधाञ् धारणपोषणयोः` (धातुपाठः-1092)। `कर्मणि कारके` इति। एतेन कर्मणः प्रत्ययार्थतां दर्शयन्नुपपदत्वमपाकरोति। यदि हि कर्मण उपपदत्वं स्यात् `कर्मण्यण्` 3|2|1 इत्यस्मिन्नेव प्रकरणे विदध्यात्। एवं हि द्विः कर्मग्रहणं न कत्र्तव्यं भवति। ननु च यद्यपि द्विः कर्मग्रहणं न कत्र्तव्यं भवति। ननु च यद्यपि द्विः कर्मघणं न कत्र्तव्यं भवति, तदाप्युत्तरसूत्रेण ष्ट्रन्ग्रहमं कत्र्तव्यं जायते? जायतां नाम, लघीयो हि कर्मग्रहणात् ष्ट्रन्ग्रहणम्। नन्विह वत्र्तमान इत्यनुवृत्तेर्वत्र्तमानप्रत्ययो भवति, तत्र तु क्रियमाणे नैतल्लभ्यते? नैतदस्ति;इहापि क्रियमाणे नैव वत्र्तमाने प्रत्ययो भवति। न हि धात्रीत्युक्ते काप्यविशेषा प्रतीयते, किं तर्हि? क्रियाकारकसम्बन्धमात्रविशिष्टा स्त्री प्रतीयते-- आमलकी च दधति तां भैषज्यार्थमिति कृत्वा। तस्मात् `कर्मणि` इति प्रत्ययार्थं एव, नोपपदम्॥
धः कर्मणि ष्ट्रन्॥ कर्मणि कारक इति। उपपदं तु कर्म न स्मभवति, यदि स्यात् ठ्कर्मण्यण्ऽ इत्यस्मिन्नेव प्रकरणे ष्ट्रनं विदध्यात्। ननु चोतरसूत्रे पुनः ष्ट्रन्ग्रहणं कर्तव्यं स्यात्, अस्तु लघीयो हि कर्मग्रहणात्ष्ट्रन्ग्रहणम्। न चेह वर्तमानकाले ष्ट्रन्प्रत्ययः, धात्रीत्युक्ते क्रियाकारकसम्बन्धमात्रं गम्यते। अतः ठ्कर्मणिऽ इति प्रत्ययार्थ एव, नोपपदम्॥
सिद्धान्तकौमुदी
धेटो घाञश्च कर्मण्यर्थे ष्ट्रन् स्यात् । धात्री जनन्यामलकीवसुमत्युपमातृषु ॥
धः कर्मणि ष्ट्रन् - धः कर्मणि ष्ट्रन् । धेटः कृतात्वस्य धाञश्च ध इति पञ्चम्यन्तम् । तदाह — धेट इत्यादि । षकारात्तकारस्य ष्टुत्वसंपन्नटकारेण निर्देशः, षस्य इत्संज्ञायां लोपे सति ष्टुत्वसंपन्नस्य टस्य निवृत्तिः । तदाह — धात्रीत्यादि ।
धः कर्मणि ष्ट्रन् - धः कर्मणि । कर्मणीति नोपपदम्,ह्वावामश्चे॑त्यनन्तरमेवधः ष्ट्र॑न्निति वक्तव्ये पृथक्कर्मग्रहणाद्व्याख्यानाद्वेत्याशयेनाह — कर्मण्यर्थे इति । अत एव धीयते पीयत इति धात्री = स्तनदायिनीत्यादि व्याचक्षते ।
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
Text Unavailable. If you can help in fixing this issue by providing this text, please let us know using the feedback link at the bottom of this page. Thank you!