॥ तस्मै पाणिनये नम: ॥
Page loading... Please wait.
3|2|177
SK 3157
3|2|177
भ्राजभासधुर्विद्युतोर्जिपॄजुग्रावस्तुवः क्विप्‌   🔊
SK 3157
सूत्रच्छेद:
भ्राज-भास-धुर्-विद्युत-ऊर्जि-पॄ-जु-ग्राव-स्तुवः - पञ्चम्येकवचनम् , क्विप् - प्रथमैकवचनम्
अनुवृत्ति:
-
अधिकार:
प्रत्यय:  [3|1|1] , परश्च  [3|1|2] , आद्युदात्तश्च  [3|1|3] , धातो:  [3|1|91] , वर्तमाने  [3|2|123] , आ क्वेस्तच्छीलतद्धर्मतत्साधुकारिषु  [3|2|134]
सम्पूर्णसूत्रम्
Unavailable at the moment
सूत्रार्थ:
This sutra is not updated yet.

The sutras are being written one by one, so this sutra will eventually get updated. Meanwhile, you can refer to the commentaries below.
One-line meaning in English
This sutra is not updated yet.
काशिकावृत्तिः
भ्राजादिभ्यः धातुभ्यस् तच्छीलादिषु कर्तृषु क्विप् प्रत्ययो भवति। विभ्राट्, विभ्राजौ, विभ्राजः। भाः, भासौ, भसः। धूः, धुरौ, धुरः। विद्युत्, विद्युतौ, विद्युतः। ऊर्क्, ऊर्जौ, ऊर्जः। पूः, पुरौ, पुरः। जवतेर् दीर्घश्च निपात्यते। जूः जुवौ, जुवः। ग्रावस्तुत्, ग्रावस्तुतौ, ग्रावस्तुतः। किमर्थम् इदम् उच्यते, यावता अन्येभ्यो ऽपि दृश्यन्ते 3|2|75, क्विप् च 3|2|76 इति क्विप् सिद्ध एव? ताच्छीलिकैर् बाध्यते। वा ऽसरूपविधिर् न अस्ति इत्युक्तम्। अथ तु प्रायिकम् एतत्। ततस् तस्य एव अयं प्रप्ञ्चः।
`{भ्राजृ- धा।पा} भ्राज दीप्तौ` (धातुपाठः-181), `भासृ दीप्तौ` (624), `उर्वी तुर्वी थुर्वी धुर्वी हिंसार्थाः`(धातुपाठः-569,570,571,573), `द्युत दीप्तौ` (धातुपाठः-741), `उर्ज बलप्राणनयोः` (धातुपाठः-1549), `पृ? पालनपूरणयोः` (धातुपाठः-1086), `जु`इति सौत्रो धातुः, `ष्टुञ् स्तुतौ` (धातुपाठः-1043) ग्रावपूर्वः। `विभ्राट्` इति। व्रश्चादिसूत्रेण 8|2|36 षत्वम्। पूर्ववज्जश्त्वं चत्र्वञ्च। `धूः` इति। `राल्लोपः` 6|4|21 इति वकारलोपः, `र्वोरुपधाया दीर्घ इकः` 8|2|76 इति दीर्घः। `पूः`इति। `उदोष्ठपूर्वस्य` 7|1|102 इत्युत्त्वम्, रपरत्वञ्च, पूर्ववद्दीर्घत्वम्। `जवतेर्दीर्घश्च` इति। कथम्? केचिदाहुः-- सूत्रे `जू` इति दीर्घः पठितव्य इति। अपरे त्वाहुः- उत्तरसूत्रे दृश्यत इत्युभयोरपि योगयोः शेषः, तच्च विध्यन्तरोपसंग्रहार्थम्, अतोजवतेर्दीर्घो विधीयत इति। ग्रावाणं स्तौतीति ग्रावस्तुत्।`ह्यस्वस्य पिति कृति तुक्` 6|1|69 ।`किमर्थमिदम्` इत्यादि द्योद्यम्। `ताच्छीलिकैर्बाध्यते` इति परीहारः। स्यादेतत्-- वाऽसरूपविधिना क्वचिदपि भविष्यतीत्याह-- `वाऽसरूपविधिश्च` इति। एतत्तु `निन्दहिंस` 3|2|146 इत्यादौ सूत्र उक्तम्। ननु च `सूददीपदीक्षश्च` 3|2|153 इति सूत्रे प्रायिकत्वं ज्ञापकस्य प्रतिपादितम्, वाऽसरूपविधिश्चात्र नास्तीत्याह-- `तस्यैव` इति। `अन्येभ्योऽपि दृश्यते` 3|2|75 , `क्विप् च` 3|2|76 इत्यादिना भवति॥
भ्राजभासधुर्विद्यौ तोर्जिपृजुग्रावस्तुवः क्विप्॥ ठ्भ्राजृ दीप्तौऽ,ठ्भासृ दीप्तौऽ,ठ्तुर्वी थुर्वी धुर्वी हिंसायाम्ऽ,ठ्द्यौत दीप्तौऽ,ठुर्ज बलप्राणनयोःऽ,ठ्पृ पालनपूरणयोःऽ,ठ्जुऽ इति सौत्रो धातुः,ठ्ष्टुअञ् स्तुतौऽ ग्रावपूर्वः। जवतेर्दीर्घत्वं चेति। केचिदाहुः---सूत्रे ठ्जूऽ इति दीर्घः पठितव्य इति। विध्य न्तरोपसंग्रहार्थ द्दशिग्रहणमुतरसूत्रादपक्रष्टव्यमित्यन्ये। ग्रावस्तुदिति। ग्रावशब्दः सप्तमीनिर्देशाभावेऽप्युपपदसंज्ञ इष्यते। अन्ये तु सूत्रनिर्देशाद्धातुनैव समासे पश्चात्क्विपं कुर्वन्ति॥
सिद्धान्तकौमुदी
विभ्राट् । भाः । भासौ । धूः । धुरौ । विद्युत् । ऊकर्‌ । पूः । पुरौ । दृशिग्रहणस्यापकर्षाज्जवतेर्दीर्घः । जूः । जुवौ । जुवः । ग्रावशब्दस्य धातुना समासः सूत्रे निपात्यते । ततः क्विप् । ग्रावस्तुत् ॥
भ्राजभासधुर्विद्युतोर्जिपॄजुग्रावस्तुवः क्विप् - भ्राजभास । भ्राज, भास , धुर्वि, द्युत, ऊर्जि, पृ , जु, ग्रावस्तु, एभ्योऽष्टभ्यः क्विप्स्यात्तच्छीलादिषु कर्तृष्वित्यर्थः । विभ्राडिति ।व्रश्चे॑ति षः । भा इति । भासेः क्विपि सकारान्तस्य रुत्वविसर्गौ । धूरिति । धुर्वीधातोः क्विप् । "राल्लोपः" इति वकारस्य लोपः ।धु॑रिति रेफान्तम् । सुलोपः । "र्वोरुपधायाः" इति दीर्घः । पूरिति । पृधातोः क्विप् ।उदोष्ठए॑त्युत्त्वम्, रपरत्वम् ।पु॑रिति रेफान्तम्, सुलोपेर्वो॑रिति दीर्घः । जुधातोः क्विपि दीर्घं साधयितुमाह — दृशिग्रहणस्याप्यपकर्षादिति । उत्तरसूत्रादिति भाव- । अत्र व्याख्यानमेव शरणम् । ननु "ग्रावस्तु" इति कथं समस्तनिर्देशः, सुबन्तस्य ग्रावशब्दस्य धातुना समासाऽसंभवादित्यत आह — ग्रावशब्दस्येति । ग्रावस्तुदिति । पित्त्वात्तुक् ।
भ्राजभासधुर्विद्युतोर्जिपॄजुग्रावस्तुवः क्विप् - भ्राज । आ क्वे॑ रित्युक्तत्वात्तच्छीलादिष्वयं क्विप् । भ्राजृ दीप्तौ, भासृ दीप्तौ, धुर्वी हिंसायां, द्युत दीप्तौ, ऊर्ज बलप्राणनयोः, पृ पालनपूरणयोः, जु गतौ सौत्रः । ग्रावपूर्वः — ष्टुञ् स्तुतौ । विभ्राडिति ।व्रश्चे॑ति षत्वम् । जश्त्वचर्त्वे । धूरिति ।राल्लोपः॑ इति वलोपः ।र्वोरुपधायाः॑ इति दीर्घः । ऊर्गिति ।चोः कुः॑ ।रात्सस्ये॑ति नियमान्न संयोगान्तलोपः । पूरिति ।उदोष्ठपूर्वस्ये॑त्युत्वम् ।र्वो॑रिति दीर्घः । * क्विब्वचिप्रच्छ्यायतस्तुकटप्रुजुश्रीणां दीर्घोऽसंप्रसारणं च । वाक् प्राडिति । इह दीर्घः, संप्रसारणाऽभावश्च । संप्रसारणप्राप्तिस्तुवचिस्वपि॑ग्रहिज्यावयी॑त्यादिना । श्रयति हरिं श्रीरिति । प्राचा तु श्रयन्त्येतामिति कर्मणि क्विबुदाह्मतः । तत्रकर्तरि कृ॑दिति सूत्रविरोधः स्पष्ट एव । बाहुलकं तु अगतिकगतिः । * द्युतिगमिजुहोतीनां द्वे च । द्वे चेति । कृतेऽपि द्वित्वे अभ्याससंज्ञेह दुर्लभा, प्रत्यासत्त्या षाष्ठद्वित्व एव प्रवृत्तेः, अतएव आष्ठमिके सा नेत्याशङ्कायामाह — दृशिग्रहणादिति । दिद्युदिति ।द्युतिस्वाप्यो॑रित्यभ्यासस्य संप्रसारणम् । जगदिति.॒गमः क्वौ॑ इति मलोपे तुक् । अत्र द्वे चे॑ति चकारेण दीर्घः समुच्चीयमानो द्युतिगम्योर्न भवति, दीर्घश्रुत्याअचश्चे॑ति परिभाषोपस्थानात् । अजन्तस्य जुहोतेरेव संभवतीत्याशयेनाह — — जुहोतेर्दीर्घश्चेति । जुहोतीति जुहूः ।* जुहोतेर्दीर्घश्च । ह्यस्वश्चेति । चकारेण द्वित्वं समुच्चीयते । * ध्यायतेः संप्रसारणं च । धीरिति । ध्यायतीति धीः ।हलः॑ इति दीर्घः । ननु ध्यायति पुरुषो न तु धीः, एवं जुहोत्यनया पुरुष इति सर्वसंमतत्वात् कथं तर्हि भवदुक्तार्थः सङ्गच्छत इति चेत् । अत्राह हरदत्तः- करणस्य कर्तृत्वविवक्षायां क्विब् भवति ।
लघुसिद्धान्तकौमुदी
विभ्राट्। भाः॥
महाभाष्यम्
Text Unavailable. If you can help in fixing this issue by providing this text, please let us know using the feedback link at the bottom of this page. Thank you!