Page loading... Please wait.
3|2|17 - भिक्षासेनादायेषु च
॥ तस्मै पाणिनये नमः ॥
3|2|17
SK 2931
भिक्षासेनादायेषु च   🔊
सूत्रच्छेदः
भिक्षा-सेना-आदायेषु (सप्तमीबहुवचनम्) , च (अव्ययम्)
अनुवृत्तिः
-
अधिकारः
प्रत्ययः  3|1|1 परश्च  3|1|2 आद्युदात्तश्च  3|1|3 धातोः  3|1|91
सम्पूर्णसूत्रम्
Will be updated soon
सूत्रार्थः
Will be updated soon.
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
अनधिकरणार्थः आरम्भः। भिक्षा सेना आदाय इत्येतेषु उपपदेषु चरेः धतोः टप्रत्ययो भवति। भिक्षाचरः। सेनाचरः। आदायचरः।
`अनधिकरणार्थ आरम्भः` इति। अधिकरणे पूर्वेणैव सिद्धम्। भिक्षाञ्चरतीति `भिक्षाचरः` सेनाञ्चरतीति `सेनाचरः`। `आदाय` इति ल्यबन्तमेतत्। आदाय चरतीति `आदायचरः` अत्रादातव्यकर्मणोऽविवक्षितत्त्वात् पूर्वाकालमात्रे विवक्षिते प्रत्ययः। आदानं कृत्वा चरतीति यावत्। तेन सापेक्षत्वादसामर्थ्ये सति प्रत्ययो न सिध्यतीत्येतदचोद्यम्। अथापि कर्मापेक्षते? एवमपि न दोषः; वचनसामथ्र्यादसामर्थ्येऽपि प्रत्ययो भवति॥
भिक्षाशेनादायेषु च॥ भिक्षाचर इति। चरतिरत्र तत्पूर्वके अर्जने वर्तते, चरणेन भिक्षामर्जयतीत्यर्थः। सेनाचर इति। सेनां प्रविशन्नुच्यते। आदायचर इति। आदाय गच्छतीत्यर्थः, भक्षयतीति वा। कथं सहचरः, सहचरीति? पचादिषु चरडिति पठ।ल्ते, सुप्सुपेति समासः॥
सिद्धान्तकौमुदी
भिक्षां चरतीति भिक्षाचरः । सेनाचरः । आदायेति ल्यबन्तम् । आदायचरः । कथं प्रेक्ष्य स्थितां सहचरीमिति । पचादिषु चरडिति पाठात् ॥
भिक्षासेनाऽ‌ऽदायेषु च - भिक्षासेना । भिक्षा, सेना, आदाय- एषु चोपदेषु चरेष्टः स्यादित्यर्थः । भिक्षां चरतीति । चरतिरत्र चरणपूर्वके आर्जने वर्तते । चरणेन भिक्षा मार्जयतीत्यर्थ- । सेनाचर इति । सेनां प्रापयतीत्यर्थः । ल्यबन्तमिति । अत्र व्याख्यानमेव शरणम् । आदाय चरतीति । लब्धं द्रव्यं गृहीत्वा चरतीत्यर्थः । कथमिति । अधिकरणे भिक्षासेनाऽ‌ऽदायेषु उपपदेषु च विहितस्य टप्रत्ययस्य सहपूर्वाच्चरेसंभवादिति भावः । समाधत्ते — पचादिष्विति । यद्यपि "भिक्षाचर" इत्यादौ पचाद्यचि रूपसिद्धिः, तथापि नित्योपपदसमासार्थमज्विधानमित्याहुः ।
भिक्षासेनाऽ‌ऽदायेषु च - भिक्षासेना । अनधिकरणार्थ आरम्भः । भिक्षां चरतीति । चरतिरत्र चरणपूर्वके अर्जने वर्तते । चरणेन भिक्षामर्जयतीत्यर्थः । सेनाचर इति । सेनां चरति = प्रविशतीत्यर्थः । पचादिष्विति । टविधानं तुउपपदमति॑ ङिति नित्यसमासार्थम् । सहचरः । सहचतीत्यत्र तु सुप्सुपेति वैकल्पिकः समासः ।
लघुसिद्धान्तकौमुदी
भिक्षाचारः। सेनाचारः। आदायेति ल्यबन्तम्। आदायचरः॥
महाभाष्यम्
भिक्षासेनादायेषु च (784) (आक्षेपभाष्यम्) इह कस्मान्न भवति ‐ -कुरूंश्चरति पञ्ञ्चालांश्चरतीति?। (समाधानभाष्यम्) अधिकरण इति वर्तते।। ननु च कर्मणीत्यपि वर्तते। तत्र कुत एतद् अधिकरणे भविष्यति न पुनः कर्मणीति।। (2024 समाधानवार्तिकम्।। 1 ।।) - चरेर्भिक्षाग्रहणं ज्ञापकं कर्मण्यप्रसङ्गस्य- (भाष्यम्) यदयं भिक्षासेनादायेषु च इति चरेर्भिक्षाग्रहणं करोति तज्ज्ञापयत्याचार्यो न भवति कर्मणीति चरेष्टः।। 16 ।।