॥ तस्मै पाणिनये नम: ॥
Page loading... Please wait.
3|2|167
SK 3147
3|2|167
नमिकम्पिस्म्यजसकमहिंसदीपो रः   🔊
SK 3147
सूत्रच्छेद:
नमि-कम्पि-स्मि-अजस-कम-हिंस-दीपः - पञ्चम्येकवचनम् , रः - प्रथमैकवचनम्
अनुवृत्ति:
-
अधिकार:
प्रत्यय:  [3|1|1] , परश्च  [3|1|2] , आद्युदात्तश्च  [3|1|3] , धातो:  [3|1|91] , वर्तमाने  [3|2|123] , आ क्वेस्तच्छीलतद्धर्मतत्साधुकारिषु  [3|2|134]
सम्पूर्णसूत्रम्
Unavailable at the moment
सूत्रार्थ:
This sutra is not updated yet.

The sutras are being written one by one, so this sutra will eventually get updated. Meanwhile, you can refer to the commentaries below.
One-line meaning in English
This sutra is not updated yet.
काशिकावृत्तिः
नम्यादिभ्यः धातुभ्यः तच्छीलादिषु कर्तृषु रः प्रत्ययो भवति। नम्रं काष्ठम्। कम्प्रा शाखा। स्मेरं मुखम्। अजस्रं जुहोति। हिंस्रं रक्षः। दीप्रं काष्ठम्। अजस्रम् इति जसु मोक्षणे नञ्पूर्वो रप्रत्ययान्तः क्रयासातत्ये वर्तते।
णम प्रह्वत्वे शब्दे` (धातुपाठः-981), `कपि चलने` (धातुपाठः-375), `ष्मिङ ईषद्धसने` (धातुपाठः-948), `कमु कान्तौ` (धातुपाठः-443), `{तृह-धा।पा} तृहि हिसि हिंसायाम्` (धातुपाठः-1455,1456), `दीपी दीप्तौ` (धातुपाठः-1150)। कपेश्चलनार्थत्वात् कमिदीपिभ्यञ्चानुदा4त्तेत्त्वाद्युचि प्राप्ते रो विधीयते। `क्रियासातत्यम्` इति। क्रियमाणानामविच्छेदेन प्रवृत्तिः = क्रियासातत्यम्। तत्र स्वभाव एव प्रत्ययान्तो वत्र्तते॥
नमिकम्पिस्म्यजसकमहिंसदीपो रः॥ अजसेत्यकार आगन्तुकः। क्रियासातत्ये इति। क्रियाणामविच्छेदेन प्रवृत्तिःऊउक्रियासातत्यम्। कथं तर्हि अग्निषु प्रयोगः----अजस्रानजुहूत इन्धीरन्निति, आधानाद् द्वादशरात्रमजस्रा इति? अत्राप्यजस्रजागरणादजस्राः॥
सिद्धान्तकौमुदी
नम्रः । कम्प्रः । स्मेरः । जसिर्नञ्पूर्वः क्रियासातत्ये वर्तते । अजस्रम् । सन्ततमित्यर्थः । कम्रः । हिंस्रः । दीप्रः ॥
नमिकम्पिस्म्यजसकमहिंसदीपो रः - नमिकम्पि । नमि, कम्पि, स्मि, अजस, कम, हिंस, दीप् एषां द्वन्द्वात्पञ्चम्येकवचनम् । एभ्यः सप्तभ्यो रप्रत्ययः स्यात्तच्छीलदिष्वित्यर्थः । अजसधातोर्धातुपाठेऽदर्शनादाह — जसिर्नञ्पूर्व इति ।जसु मोक्षणे॑अयं नञ्पूर्वः शक्तिस्वभावात् क्रियासातत्ये वर्तते इत्यर्थः । निपातनाद्धातुना नञः समासे "नलोपो नञः" इति नलोपः ।
Text Unavailable. If you can help fixing this issue by providing this text, please let us know using the feedback link at the bottom of this page. Thank you!
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
Text Unavailable. If you can help in fixing this issue by providing this text, please let us know using the feedback link at the bottom of this page. Thank you!