॥ तस्मै पाणिनये नम: ॥
Page loading... Please wait.
3|2|152
SK 3132
3|2|152
न यः   🔊
SK 3132
सूत्रच्छेद:
न - अव्ययम् , यः - पञ्चम्येकवचनम्
अनुवृत्ति:
-
अधिकार:
प्रत्यय:  [3|1|1] , परश्च  [3|1|2] , आद्युदात्तश्च  [3|1|3] , धातो:  [3|1|91] , वर्तमाने  [3|2|123] , आ क्वेस्तच्छीलतद्धर्मतत्साधुकारिषु  [3|2|134]
सम्पूर्णसूत्रम्
Unavailable at the moment
सूत्रार्थ:
This sutra is not updated yet.

The sutras are being written one by one, so this sutra will eventually get updated. Meanwhile, you can refer to the commentaries below.
One-line meaning in English
This sutra is not updated yet.
काशिकावृत्तिः
यकारान्तात् धतोः युच् प्रत्ययो न भवति। पूर्वेण प्राप्तः प्रतिषिध्यते। क्नूयिता। क्ष्मायिता।
`पूर्वेण` इति। `अनुदात्तेतश्च हलादेः` 3|2|149 इत्यादिना सिद्धत्वात्। अथ `अय वय रय णय गतौ`(धातुपाठः-474,475,482,480) इत्यस्माद्धातोर्युचो विधानार्थञ्चैतत्कस्मान्न विज्ञायते? अशक्यमेवं विज्ञातुम्;यस्मान्नयतेः `अनुदात्तेतश्च` 3|2|149 इत्यादिनैव सिद्धत्वात्। तस्मात् प्रतिषेधार्थमिदम्। `क्नयिता, क्ष्मायिता` इति। `क्नूयी शब्द {उन्दने च-धातुपाठः-} उन्दे च` (धातुपाठः-485), `क्ष्मायी विधूनने` (धातुपाठः-486)॥
नयः॥ ठय वय नय तय गतौऽ इति नयतेरनुदातेत्वादेव युचः सिद्धत्वान्नतस्येदं ग्रहणम्, किं तर्हि? प्रतिषेध एवेति मत्वाऽऽ----यकारान्तादिति। पूर्वेणेति। ठनुदातेतश्चऽ इत्यादिना। क्नूयिता, क्ष्मायितेति। ठ्क्नूयी शब्देऽ,ठ्क्ष्मायी विधूननेऽ॥
सिद्धान्तकौमुदी
यकारान्ताद्युच् न स्यात् । क्नूयिता । क्ष्मायिता ॥
न यः - न यः । "य" इति पञ्चम्यनतं धातुविशेषणं । तदन्तविधिः । तदाह — यकारान्तादिति । क्नूयिता । क्ष्मायितेति ।क्नुयी शब्दे उन्दन चटक्ष्मायी विधूनने॑ । अनुदात्तेतश्च हलादे॑रिति युच् निषिध्यते । तृनेव भवति ।
न यः - न यः । अय वय पय भय चय तय णय गताविति पठितस्य नयतेर्नाऽयं निर्देशः, अनुदात्तेत्त्वादेव युचः सिद्धत्वात्, किंतु नेति पृथक् पदमिति मत्वाऽ‌ऽह — यकारान्तादिति । क्नूयिता क्ष्मायितेति । क्नूयी शब्दे उन्दे च, क्ष्मायी विधूनने ।
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
Text Unavailable. If you can help in fixing this issue by providing this text, please let us know using the feedback link at the bottom of this page. Thank you!