Page loading... Please wait.
3|2|145 - प्रे लपसृद्रुमथवदवसः
॥ तस्मै पाणिनये नमः ॥
3|2|145
SK 3125
प्रे लपसृद्रुमथवदवसः   🔊
सूत्रच्छेदः
प्रे (सप्तम्येकवचनम्) , लप-सृ-द्रु-मथ-वद-वसः (पञ्चम्येकवचनम्)
अनुवृत्तिः
-
अधिकारः
प्रत्ययः  3|1|1 परश्च  3|1|2 आद्युदात्तश्च  3|1|3 धातोः  3|1|91 वर्तमाने  3|2|123 आ क्वेस्तच्छीलतद्धर्मतत्साधुकारिषु  3|2|134
सम्पूर्णसूत्रम्
Will be updated soon
सूत्रार्थः
Will be updated soon.
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
प्रे उपपदे लपादिभ्यः घिनुण् भवति। प्रलपी। प्रसारी। प्रद्रावी। प्रमाथी। प्रवादी। प्रवासी। वसः इति वस निवासे इत्यस्य ग्रहणं नाच्छादनार्थस्य, लुग्विकरणत्वात्।
`प्रलापी, प्रसारी` इति। `लप व्यक्तायां वाचि`(धातुपाठः-402), `सृ गतौ` (935)। `प्रद्रावी, प्रमाथी`इति। `दु द्रु गतौ` (धातुपाठः-944 945), `{मथे विलोडने-धातुपाठः-} मध विलोडने` (धातुपाठः-848)। `नाच्छादनार्थस्य` इति। न `वस आच्छादने` (धातुपाठः-1023)इत्येतस्य॥
प्रे लपसृद्रुमथवदवसः॥ ठ्रप लप व्यक्तायां वाचिऽ,ठ्सृ गतौ,ऽठ्द्रु गतौऽ, ठ्मथे विलोडनेऽ॥
सिद्धान्तकौमुदी
प्रलापी । प्रसारी । प्रद्रावी । प्रमाथी । प्रवादी । प्रवासी ॥
प्रे लपसृद्रुमथवदवसः - प्रे लप । लप, सृ, द्रु, मथ, वद, वस्, एषां षण्णां द्वनद्वात्पञ्चमी । प्रे उपपदे एभ्यो घिनुण् स्यात्ताच्छील्यादिष्वित्यर्थः ।
प्रे लपसृद्रुमथवदवसः - प्रे लप । रप लप व्यक्तायां वाचि । प्रमाथीति । मथे विलोडने ।
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
Text Unavailable. Please use feedback link below to provide the text if you have.