Page loading... Please wait.
3|2|11 - आङि ताच्छील्ये
॥ तस्मै पाणिनये नमः ॥
3|2|11
SK 2925
आङि ताच्छील्ये   🔊
सूत्रच्छेदः
आङि (सप्तम्येकवचनम्) , ताच्छील्ये (सप्तम्येकवचनम्)
अनुवृत्तिः
-
अधिकारः
प्रत्ययः  3|1|1 परश्च  3|1|2 आद्युदात्तश्च  3|1|3 धातोः  3|1|91
सम्पूर्णसूत्रम्
Will be updated soon
सूत्रार्थः
Will be updated soon.
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
आङ्पूर्वाद् हरतेः कर्मण्युपपदे अच् प्रत्ययो भवति ताच्छील्ये गम्यमाने। ताच्छील्यं तत्स्वभावता। पुष्पाहरः। फलाहरः। पुष्पाद्याहरने स्वाभाविकी फलानपेक्षा प्रवृत्तिरस्य इत्यर्थः। ताच्छीओये इति किम्? भारम् आहरति इति भाराहारः।
अनुद्यमनमिति निवृत्तम्। तेनाविशेषाल्लभ्यते-- उद्यमने चायं विधिरिति। ननु चानुद्यमने पूर्वेणैव सिद्धम्, परत्वाद्धि तृन् प्राप्नोति, वासरूपविधानादजपि भवति? नैतदस्ति; वक्ष्यति ह्रेतत्-- ताच्छीलिकेषु वासरूपेण तृजादयो न भवन्तीति। `ताच्छील्यं तत्स्वभावता` इति। तत् पुनर्मानसो धर्मः। फलनिरपेक्षया प्रवृत्तिरनुमीयते। `पुष्पाहरः`इत्यादिना ताच्छील्यमुदाहरति॥
आङ् ताच्छील्ये॥ पुष्पाद्याहिरणे इत्यादिना ताच्छील्यमुदाहरणे दर्शयति। स्वाभाविकीति। स्वभावे भवा स्वाभाविकी, अध्यात्मादिः। स्वशब्दो द्वारादिषु पठ।ल्ते, तदादिविधिश्च तत्रेष्यते। भाष्यकारप्रयोगातु द्वारादिकार्याभावः, स्वार्थिकस्वाभाविकश्ब्दौ भाष्ये प्रयुक्तौ। अस्य विवरणम्---फलानपेक्षेति। कथं पुनः फलमनपेक्ष्य तत्र प्रवर्तते, न हि स्वभावः पर्यनुयोगमर्हति॥
सिद्धान्तकौमुदी
पुष्पाण्याहरति तच्छीलः पुष्पाहरः । ताच्छील्ये किम् । भारहारः ॥
आङि ताच्छील्ये - आङि ताच्छील्ये । आङ्पूर्वाद्धरतेः कर्मण्युपपदे अच् स्यात्ताच्छील्ये गम्ये । ताच्छील्यं - तत्स्वभावता । पुष्पाहर इति । पुष्पाहरणे फलानपेक्षमेव स्वाभाविकी प्रवृत्तिरस्येत्यर्थः ।
Text Unavailable. Please use feedback link below to provide the text if you have.
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
Text Unavailable. Please use feedback link below to provide the text if you have.