कानचश्चिकरणमन्तोदात्तार्थम्। कित्करणं कित्कार्यार्थम्। तत्पुनः `बन्ध बन्धने` (धातुपाठः-1508) इत्येवमादयः संयोगान्ताः प्रयोजन्ति,नान्ये। असंयागान्तेभ्यः `असंयोगाल्लिट् कित्`
1|2|5 इति सिद्धः, संयोगान्ता अपि कित्त्वं भाषायां प्रयोजयन्ति, न छन्दसि। तत्राह-- `छन्दस्युभयथा`
3|4|117 इति लिटः सार्वधातुकत्वात् `सार्वधातुकमपित्`
1|2|4 इति ङित्त्वमस्त्येव। न कित्त्वे ङित्त्वे वा च्छन्दसि कश्चिद्विशेषोऽस्ति। भाषायां तु यद्यसंयोगान्तेभ्यः कित्त्वं न स्याद्योऽयं `ऋच्छत्यृताम्`
7|4|11 इति गुणः प्रतिषेधविषय आरभ्यते स यथेह न भवति-- निपपरतुः, निपपरुरिति;तथेहापि स्यात्-- निपपुराण इति; कित्त्वे च सति न भवति। भाषायां तु कित्त्वमर्थवद्भवति। `पृ पालन पूरणयोः` (धातुपाठः-1086), निपूर्वात् कानच्। द्विर्वचनात् परत्वात् `उदोष्ठपूर्वस्य`
7|1|102 इत्युत्त्वम्, रपरत्वञ्चेति। `द्विर्वचनेऽचि`
1|1|58 इति स्थानिवद्भावात् पृशब्दो द्विरुच्यते। उरत्त्वरपरत्वहलादिशेषाः, अट्कुप्वादिना
8|4|2 णत्वम्। भाषायां कानज्भवीत्यस्मादेव ज्ञापकादवसीयते। `चिक्यानःट इति। अभ्यासादुत्तरस्य चिनोतेश्चकारस्य `विभाषा चेः`
7|3|58 इति कुत्वम्, `एरनेकाचः`
6|4|82 इत्यादिना यणादेशः। `सुषुवाणः` इति। `{सुनोतेरिति-इति मुद्रितः पाठः।} सुनोतेरिति; `अचि श्नुधातु`
6|4|77 इत्यादिनोवङादेशः, `आदेशप्रत्यययोः`
8|3|59 इति षत्वम्। `विभक्तिविपरिणामो भविष्यति` इति। यद्यपि लिडिति प्रथमान्तं प्रकृतं तथाप्यर्थाद्विभक्तिविपरिणामो भविष्यति। आदेशम्बन्धादुत्तरस्य लिटः षष्ठन्तता भविष्यति।तस्मादन्तरेणापि लिड्ग्रहणं प्रकृत्वाल्लिट एव कानजादेशो भविष्यतीति लिड्ग्रहणं न कत्र्तव्यमिति भावः। `योऽपि` इत्यादि। योऽपि `परोक्षे लिट्`
3|2|115 इत्यनेनलिड्विहितस्तस्यापि लिड्ग्रहणे सति कानजादेशो भवति। असति तु तस्मिन् `अनन्तरस्य विधिर्वा प्रतिषेधो वा` (व्या।प।19) इत्यस्यैव स्यात्, न परोक्षे लिटः। अथासति लिड्ग्रहणे प्रत्ययान्तरं कानच् कस्मान्न विज्ञायते? अशक्यमेवं विज्ञातुम्, प्रत्ययान्तरे हि `न लोकाव्ययनिष्ठाखलर्थतृनाम्`
2|3|69 इति षष्ठीप्रतिषेधो न स्यात्। ततश्चाग्न चिक्यान इत्यत्राग्निशब्दात् षष्ठी स्यात्॥।