॥ तस्मै पाणिनये नम: ॥
Page loading... Please wait.
3|1|88
SK 2771
3|1|88
तपस्तपःकर्मकस्यैव   🔊
SK 2771
सूत्रच्छेद:
तपः - षष्ठ्येकवचनम् , तपःकर्मकस्य - षष्ठ्येकवचनम् , एव - अव्ययम्
अनुवृत्ति:
-
अधिकार:
प्रत्यय:  [3|1|1] , परश्च  [3|1|2] , आद्युदात्तश्च  [3|1|3] , धातो:  [3|1|22]
सम्पूर्णसूत्रम्
Unavailable at the moment
सूत्रार्थ:
This sutra is not updated yet.

The sutras are being written one by one, so this sutra will eventually get updated. Meanwhile, you can refer to the commentaries below.
One-line meaning in English
This sutra is not updated yet.
काशिकावृत्तिः
तप सन्तापे, अस्य कर्ता कर्मवद्भावति, स च तपःकर्मकस्य एव न अन्यकर्मकस्य। क्रियाभेदाद् विध्यर्थम् एतत्। उपवासादीनि तपांसि तापसं तपन्ति। दुःखयन्ति इत्यर्थः। स तापसस्त्वगस्थिभूतः स्वर्गाय तपस्तप्यते। अर्जयति इत्यर्थः। पूर्वेण अप्राप्तः कर्मवद्भावो विधीयते। तप्यते तपस्तापसः। अतप्त तपस्तापसः। तपःकर्मकस्य एव इति किम्? उत्तपति सुवर्णं सुवर्णकारः।
`तपः कर्मकस्यैव` इति। एवकारो विस्पष्टार्थः; व्यवच्छेदफलत्वात्, सर्ववाक्यानामित्येवं तदर्थस्य लब्धत्वात्। यदि ह्रतपःकर्मकस्यापि स्यात्, तपःकर्मग्रहणमनर्थकं स्यात्। `नान्यकर्मकस्य` इत्यवधारणेन यद्व्यवच्छिन्नं तद्दर्शयति। `क्रियाभेदात्` इति। क्रियाविसदृशत्वादित्यर्थः। पूर्वं हि क्रियासादृश्ये कर्मवद्भावो विहित इति वैसदृश्येन प्राप्नोति, अतो विध्यर्थमेतत्। अत एव कर्मस्थया क्रियया तुल्यत्वं न सम्भवतीति `कर्मणा तुल्यक्रियः` 3|1|87 इत्येतन्नानुवत्र्तते। `उपवासादीनि` इत्यादिना तमेव क्रियाभेदं दर्शयति। उपवासादिशब्देन तपः शब्दस्यार्थमाचष्टे। `दुःखयन्तीत्यर्थः` इत्यनेन तापसस्य कर्मावस्थायां तपेर्दुःखनमर्थ इति दर्शयति। `स्वर्गाय तपस्तप्यते` इति। तपःशब्दोऽत्र ज्ञानविषेय स्वर्गाद्यवाप्तिहेतौ वत्र्तते। `अर्जयीत्यर्थः`इत्यनेन तापसस्य कत्र्रवस्थायां तपिरर्जने वत्र्तत इति दर्शयति। निवत्र्तयतीत्यर्थ इति, न दुःखयतीति; तपसोऽचेतनत्वाद्दुःखासम्भवात्॥`उत्तपति सुवर्णम्` इत्यादौ सुवर्णकर्मकत्वात् तपेः कर्मवद्भावो न भवति॥
तपस्तपः कर्मकस्यैव॥ ठ्क्रियाभेदाद्विध्यर्थमिदम्ऽ इति वक्ष्यति। कथं तर्ह्येवकारस्यान्वय इत्याशङ्क्य वाक्यभेदेन व्याचष्टे---तप सन्तापे, अस्य कर्ता कर्मवद्भवति, स च तपः कर्मकस्यैवेति। एवकारस्य व्यवच्छेद्यं दर्शयति----नान्यकर्मकस्येति। एतच्च श्रुतस्यैवकारस्यान्वयो वक्तव्य इति मत्वोक्तम्, न पुनरस्य किञ्चित्प्रतोजनमस्ति। क्रियाभेदादिति। अत्यन्तभेदादित्यर्थः। नियमपक्षेऽपि क्रियाणां च भेदोऽपेक्षितः; तुल्यत्वस्य भेदाधिष्ठानत्वात्। क्रियाभेदमेव दर्शयति---उपवासादीनीति। दुः खयन्तीत्यर्थ इति। ठ्सुखदुःख तत्क्रियायाम्ऽ इति चुरादिपाठाण्णिच्। अनेन तापसस्य कर्मत्वे तपेर्दुः खनमर्थ इति दर्शितम्। अर्जयतीत्यर्थ इति। अनेनापि तापसस्य कर्तृत्वे तपेरर्जनमर्थ इति दर्शितम्। क्वचितु आर्जयतीति पाठः, तत्राङ्पूर्वस्य प्रयोगः। नन्वेमपि शरीरसन्तापलक्षणा क्रियाऽवस्थाद्वयोऽपि तुल्या, न हि शरीरसन्तापादन्यदर्जनं तापसस्य व्यापारः? तदसत्; वस्तुस्थित्या सतोऽपि शरीरसन्तापस्याशब्दार्थत्वात्, कथमन्यथा तपसः कर्मत्वम्! तस्मादर्जनमु निष्पादनम्, अलब्धस्य लाभः; दुःखं तु शरीरसन्ताप एवेति स्पष्ट एव क्रियाभेदः। विध्यर्थमेतदिति यदुक्तं तदेवोपसंहरति---पूर्वेणाप्राप्तः कर्मवद्भावो विधीयत इति। अतप्त तपस्तापस इति। ठ्तपोऽनुतापे चऽइति चिणः प्रतिषेधात्सिच्, ठ्झलो झलिऽ इति लोपः॥
सिद्धान्तकौमुदी
कर्ता कर्मवत्स्यात् । विध्यर्थमिदम् । एवकारस्तु व्यर्थ एवेति वृत्त्यनुसारिणः । तप्यते तपस्तापसः । अर्जयतीत्यर्थः । तपोऽनुतापे च (कौमुदी-2760) इति चिण्निषेधात्सिच् । अतप्त । तपः कर्मः कस्येति किम् । उत्तपत सुवर्णं सुवर्णकारः । न दुहस्नुनमां यक्चिणौ (कौमुदी-2767) । प्रस्नुते । प्रास्नाविष्ट । प्रास्नोष्ट । नमते दण्डः । अनंस्त । अन्तर्भावितण्यर्थोऽत्र नमिः ॥ यक्चिणोः प्रतिषेधे-- ।हेतुमण्णिश्रिब्रूञामुपसंख्यानम् (वार्तिकम्) ॥ कारयते । अचीकरत । उच्छ्रयते दण्डः । उदशिश्रियत । चिण्वदिट् तु स्यादेव । कारिष्यते । उच्छ्रायिष्यते । ब्रूते कथा । अवोचत ॥ भारद्वाजीयाः पठन्ति ॥ ।णिश्रन्थिग्रन्थिब्रूञात्मनेपदाकर्मकाणामुपसंख्यानम् (वार्तिकम्) ॥ पुच्छमुदस्यति । उत्पुच्छयते गौः । अन्तर्भावितण्यर्थतायाम् । उत्पुच्छयते गाम् । पुनः कर्तृत्वविवक्षायाम् । उत्पुच्छयते गौः । उदपुपुच्छत । यक्चिणोः प्रतिषेधाच्छप्चङौ । श्रन्थिग्रन्थ्योराधृषीयत्वाण्णिजभावपक्षे ग्रहणम् । ग्रन्थति ग्रन्थम् । श्रन्थति मेखलां देवदत्तः । ग्रन्थते ग्रन्थः । अग्रन्थिष्ट । श्रन्थते । अश्रन्थिष्ट । क्रैयादिकयोस्तु । श्रन्थीते ग्रन्थीते स्वयमेव । विकुर्वते सैन्धवाः । वल्गन्तीत्यर्थः । वेः शब्दकर्मणः (कौमुदी-2707) , अकर्मकाच्च (कौमुदी-2708) इति तङ् । अन्तर्भावितण्यर्थस्य पुनः प्रेषणत्यागे । विकुर्वते सैन्धवाः । व्यकारिष्ट । व्याकारिषाताम् । व्याकारिषत । व्यकृत । व्यकृषाताम् । व्यकृषत ॥
तपस्तपःकर्मकस्यैव - तपस्तपः कर्मकस्यैव । आद्यं तप इति षष्ठन्तम् । तपः कर्मकस्यैव तपधतोरिति लभ्यते ।कत्र्तरिश॑बित्यतःकर्तरीत्यनुवृत्तं प्रथमया विपरिणम्यते ।कर्मवत्कर्मणे॑त्यतः कर्मवदित्यनुवर्तते इति मत्वा सूत्रशेषं पूरयति — कर्ताकर्मवदिति । विध्यर्थमिदमिति । एतच्चानुपदमेव उदाहरणव्याख्यावसरे स्पष्टीभविष्यति । ननु विद्यर्थत्वे एवकारो व्यर्थ इत्यत आह — एवकारस्त्विति । तप्यते तपस्तापस इति । अत्र तपिरर्जनार्थक इत्याह — अर्जयतीत्यर्थ इति । प्राजापत्यचान्द्रायणादिकृच्छ्राद्यात्मकं तपः संपादयतीत्यर्थः । मुख्यकर्तरि लः । मुख्यकर्तरि लः । संपादनस्य तापसात्मककर्तृस्थत्वात्तपोरूपकर्मस्थत्वाऽभावात्कर्मवत्कर्मणे॑त्यप्राप्तं कर्मवत्त्वमनेन सूत्रेण विधीयते । तेन यगात्मनेपदादि । यदा तु तदपि दुःखजननात्मके संतापे वर्तते तदातापसं तपस्तपती॑त्येव भवति । दुःखयतीत्यर्थः । अत्र मुख्यकर्तृ तपः । तापसस्तु कर्म । अत्रापि दुःखजननव्यापारस्य तपोरूपकर्तृस्थतया तापसरूपकर्मस्थत्वाऽभावात्कर्मवत्कर्मणे॑त्यनेन कर्मवत्त्वं न भवति । तपः कर्मकत्वाऽभावादनेनापि न कर्मवत्त्वम् । अतो यगादि कर्मकार्यम् । अथ लुङि अतप्तेत्यत्र कर्मवत्त्वाच्चिणमाशङ्क्य आह — तोपऽनुतापे चेति चिण्निषेधात्सिजिति । तस्यझलो झली॑ति लोपे परिनिष्ठितमाह — अतप्तेति । उत्तपति सुवर्णं सुवर्णकार इति । अत्र तपः कर्मकत्वाऽभावान्न कर्मवत्त्वमपि भावः । भाष्ये तु एवकारादिदं सूत्रं नियमार्थमित्युक्तमिति शब्देन्दुशेखरे प्रपञ्चितमेतत् । वृत्त्यनुसारिण इत्यनेन भाष्यविरोधः सूचित इत्यलम् ।दुहिपच्योर्बहुल॑मिति कर्मवत्त्वविधिस्थदुहिप्रसङ्गात्न दुहस्नुनमामिति सूत्रमुपन्स्तं प्राक् । इदानां सिंहावलोकनन्यायेन स्नु धातुः क्षीरप्ररुआवणसूत्रमुपन्यस्यति- न दुहस्नुनमां यक्चिणाविति । तत्र स्नुधातोरुदाहरति — प्रस्नुते इति । स्नुधातुः क्षीरप्ररुआवणविषये उत्कण्ठीकरणे वर्तते । वत्सो गां प्रस्नौतीति मुख्यकर्तरि लकारे वत्सो गां क्षीरप्ररुआवणविषये उत्कष्ठयतीत्यर्थः । अन्तर्भावितण्यर्थोऽत्र स्नुधातुः । अत्र गौः कर्म । उत्कण्ठव्यापारस्तु कर्तृभूतवत्सनिष्ठः । उत्कण्ठा तु गोरूपकर्मनिष्ठा । गोः कर्मणः कर्तृत्वविवक्षायां तु — प्रकृते गौः । स्वयमेव क्षीरप्ररुआवणविषये उत्कण्ठावतीत्यर्थः । तत्र उत्कण्ठा पूर्वं कर्मप्राप्तेऽनेन निषेधः । प्रास्नाविष्टेति । अत्र कर्मवत्त्वात्प्राप्तश्चिण् न । किंतु चिण्वदिटौ पक्षे स्तः । चिण्वदिडभावे तु "स्नुक्रमो" रिति निमाद्वलादिलक्षण इण्न । तदाह — प्रास्नोष्टेति । णम उदाहरति — नमते दण्ड इति । नमति दण्डं कश्चित् । नमयतीत्यर्थः । कर्मणः कर्तृत्वविक्षायां तुनमते दण्डः॑ । अत्र कर्मवत्त्वेऽपि न यक् । अनंस्तेति । अत्र कर्मवत्त्वेऽपि न चिण् । ननु णमधातोः प्रह्वीभावार्थकस्याऽकर्मकत्वात्कर्यवत्त्वाऽप्रसक्तेर्यक्चिणोर्न प्रसक्तिरित्यत आह — अन्तर्भावितण्यर्थोऽत्र नमिरिति । धातूनामनेकार्थकत्वादिति भावः । यक्चिणोरिति ।न दुहस्नुनमा॑मिति यक्चिणोः प्रतिषेधसूत्रे दुहस्नुनमां, हेतुमण्णिश्रिब्राऊञामिति च वाच्यमित्यर्थः । कारयते इति । "स्वयं देवदत्त" इति शेषः । करोति देवदत्तः, तं प्रेरयति यज्ञदत्त इति ण्यन्तान्मुख्यकर्तरि लकारः । अत्र ण्यन्तकर्मणो देवदत्तस्य यज्ञदत्तप्रेरणमनपेक्ष्य कर्तृत्वविवक्षायां कर्मकर्तरि लकारः । कर्मवत्त्वेऽपि तङेव, न यगिति भावः । अचीकरतेति । अत्र कर्मवत्त्वेऽपि न चिण्,णिश्रीति चङेव । उच्छ्रयते दण्ड इति ।स्वयमेवे॑ति शेषः ।दण्डमुच्छ्यति कश्चि॑दिति मुख्यकर्तरि लकारः । तत्र कर्मणो दण्डस्य कर्तृव्यापारमनपेक्ष्य कर्तृत्वविवक्षायां कर्मकर्तरि लकारः । कर्मवत्त्वेऽपि न यक्, तङेव । उदशिश्रियतेति । कर्मवत्त्वेऽपि चिणभावात्णिश्री॑ति चङ् । ननु "कारिष्यते" इत्यत्र कथं चिण्वदिटौ, ण्यन्तस्याऽजन्तस्य उपदेशाऽभावादित्यत आह — चिण्वदिट् तु स्यादेवेति ।स्यसिच्सीयुट्तासिषुट इत्यत्र हि उपदेशे अजन्तस्येति नाऽर्थः, किंतु उपदेशे योऽच् तदन्तस्येत्यर्थः । तथा च णिजन्तस्योपदेशाऽभावेऽपि णेरुपदेशसत्त्वान्न दोष इति भावः । उच्छ्रायिष्यते इति । श्रिञ उपदेशे योऽच् तदन्तत्वाच्चिण्वदिटौ । ब्राऊते कथेति ।स्वयमेवे॑ति शेषः । कथां ब्रावीति कश्चिदित मुख्यकर्तृलकारे कथा कर्म, तस्य पुरुषप्रयत्नाऽविवक्षायां क्मकर्तरि लकारः । कर्मवत्त्वात्तङ् । न कथां ब्रावीति कश्चिदिति मुख्यकर्तृलकारे कथा कर्म, तस्य पुरुषप्रयत्नाऽविवक्षायां कर्मकर्तरि लकारः । कर्मवत्त्वात्तङ् । न यक् । अवोचतेति । कर्मवत्त्वेऽपि न चिण् किंतु "ब्राऊवो वचिः"अस्यतिवक्तिख्यातिभ्योऽङ्ट "वच उ" मिति भावः । उच्चारणएन शब्देषु प्राकटरूपविशेषदर्शनात् कर्मस्थक्रियत्वं बोध्यम् । णिश्रन्थीति । ण्यन्तस्ये श्रन्थेः ग्रन्थेः ब्राऊञ आत्मनेपदविधावकर्मकस्य च यक्चिणोः प्रतिषेधो भारद्वाजीयाऽभिमत इत्यर्थः । अत्र णीति सामान्यस्य ग्रहणं न तु हेतुमण्णिच एव । ततश्च णिङन्तस्यापि न यक्चिणाविति मत्वाऽ‌ऽह — पुच्छमुदस्यति उत्पुच्छयते गौरिति ।पुच्छादुदसने इति णिङ् । नन्वत्र उदसने पुच्छं कर्म, गौर्मुख्यकत्र्री, नतु कर्मकत्र्री ।ततश्च नाऽत्र यक्चिणोः प्रसक्तिरित्यत आह — अन्तर्भावितण्यर्थतायामिति ।उदस्यती॑त्यस्य उदासयतीत्यन्तर्भावितण्यर्थताश्रयणे उत्पुच्छयते गां देवदत्त इत्यत्र गौः कर्म, तस्यगोरूपकर्मणः प्रेयितृपुरुषप्रयत्नानपेक्षया कर्तृत्वविवक्षायां कर्मकर्तरि लकारे उत्पुच्छयते गौरिति भवतीत्यर्थः । स्वयमेव पुच्छमुदस्यतिगौरिति बोधः ।उदपुपुच्छतेति । अत्र न चिण् । श्पचङाविति ।उत्पुच्छयते गौ॑रित्यत्र यकः प्रतिषेधाच्छप् । उदपुपुच्छतेत्यत्र चिणः प्रतिषेधाच्चङित्यर्थः । ननुश्रन्थ मोक्षणे, ग्र्नथ ग्रथने॑ इति श्रन्थिग्रन्थ्योश्चौरादिकतया । णिग्रहणेनैव सिद्धेः पुनग्र्रहणं वयर्थमित्यत आह — श्रन्थिग्रन्थ्योरिति । ग्रन्थति ग्रन्थमिति । रचयतीत्यर्थः । श्रन्थति मेखलां देवदत्त इति । विरुआंसयतीत्यर्थः । "देवदत्त" इत्युभयत्रान्वेति । अत्र कर्मणो ग्रन्थस्य, मेखलायाश्च कर्तृत्वविवक्षायं ग्रन्थते ग्रन्थः, श्रन्थते मेखलेति च भवति । स्वयमेव ग्रन्थरचनाश्रयः, रुआंसनाश्रयश्चेत्यर्थः । तत्र कर्मवत्त्वेऽपि न यगिति भावः । अग्रन्थिष्ट, अश्रन्थिष्टेत्यत्र च न चिण् । क्रैयादिकयोस्त्विति । कर्मवत्त्वेऽपि तयोर्यकि निषिद्धे श्नाविकरण इति भावः । आत्मनेपदविधावकर्मको यस्तमुदाहरति — विकुर्वते सैन्धवा इति । सैन्धवाः = अआआः । अत्र विपूर्वः कृञ् वल्गने वर्तते, उपसर्गवशात् । तदाह — वल्गन्तीति । शब्दं कुर्वन्तीत्यर्थः । धात्वर्थेनोपसङ्ग्रहादकर्मकोऽयम् ।मुख्यकर्तरि लकारः । वेरिति । "वेः शब्दकर्मणः" इत्यन्तरं पठितेनअकर्मकाच्चे॑ति सूत्रेण परगामिन्यपि फेल तङित्यर्थः । नन्वस्याऽकर्मकतया अआआनां कर्मकर्तृत्वाऽभावान्न यकः प्रसक्तिरित्यत आह — अन्र्तभावितेति.विपूर्वकः कृञ् शब्दं कुर्वाणस्य प्रेरणे यदा वर्तते तदा विकुर्वते सैन्धवानिति भवति । अआआन् शब्दायतीत्यर्थः । तत्र सैन्धवानां कर्मणां पुरुषप्रेरणाऽविवक्षया कर्तृत्वविवक्षायां विकुर्वते सैन्धवा इति भवति । वल्गन्तीत्यर्थः । अत्र सैन्धवानां कर्मकर्तृणां कर्मवत्त्वेऽपि न यगित्यर्थः । व्यकारिष्टति । चिणि निषिद्धे ण्यन्तत्वाऽभावाच्चङभावे सिचश्चिण्वदिटि वृद्दिरिति भावः । चिण्वदिडभावपक्षे आह — व्यकृतेति ।ह्यस्वादङ्गा॑दिति सिचो लोपः ।
तपस्तपःकर्मकस्यैव - अतप्तेति । तपस्तापस इत्यनुषज्यते । न दुहस्नु । ननु दोग्धिपर्थायत्वेन रुआऔतेरपि द्विकर्मकत्वाद्गोरूपकर्मणः कर्तृत्वविवक्षायामपि पयोरूपकर्मणो विद्यमानत्वात्सकर्मकाणां प्रतिषेधेन यक्चिणोः प्राप्तिरेव नास्तीति चेत् । अत्राहुः — वत्सादियोगेन क्षीरप्ररुआवणानुकूला उत्कण्ठा स्नुधातोरर्थः । सा च गोनिष्ठा । स्नु प्ररुआवणे इत्यत्रापि करणे ल्युट् । प्ररुआऊयतेऽनेनेति प्ररुआवणं । सा चोत्कण्ठा ।स्वयं प्दुग्धेऽस्य गुणैरुपस्नुता वसूपमानस्य वसूनि मेदिनीटति प्रयोगे उपस्नुता = उत्कण्ठितेत्यर्थः । वत्सो गां प्रस्नौति = उत्कण्ठयति । अन्तर्बावितण्यर्थोऽत्र स्नौतिः । गोः कर्तृत्वविक्षायां प्रस्नुते गौरिति । प्रारस्नाविष्टेति । चिण्वदिट् । न च चिणि निषिद्धे चिण्वदिडपि न स्यादिति शङ्क्यं,चिण्व॑दित्यनेन हि चणीव कार्यमतिदिश्यते । न च चिण्नेत्युक्त्या सोऽतिदेशो निषेद्धुं शक्यते येन चिण्वदिटो निषेधः स्यात् । प्रारुआओष्टेति ।स्नुकमोरनात्मनेपदनिमित्ते॑ इति नियमाद्वलादिलक्षण इण्न । नमते दण्ड इति । इह नमिताऽनमितयोर्विशेषदर्शनादुद्देशानुरोधाच्च कर्मस्थक्रियत्वमस्ति । कर्मस्थांशस्य उद्देश्यता न तु तदनुकूल व्यापारस्येति कर्मवद्भावस्य प्राप्तिरस्तीति भावः । अचीकरतेति । चिणि प्रतिषिद्धेणिश्री॑ति चङ् । * णिश्रन्थिग्रन्थिब्राऊञात्मनेपदाऽकर्मकाणामुपसङ्ख्यानम् । णिश्रन्थीति । णेः सामान्यग्रहणस्य फलमाह — पुच्छमुदस्यतीत्यादि ।पुच्छभाण्डे॑ति णिङ् । आत् मनेपदविधौ योऽकर्मकस्तमुदाहरति — विकुर्वते सैन्धवा इति । कुषिरञ्जोः ।न दुहस्नुनमा॑मित्यतो नेति वर्तते । तदाह — न यगिति । किन्तु श्यन्निति । तस्मिन्नेव विषय इति भावः ।न गिरा गिरेति ब्राऊयादेरं कृत्वोद्गेय॑मित्यत्र गिरापदं प्रतिषिद्येरापदं विधीयमानं गिरापदस्थान एव यथा भवत्येवमिहापि यकः प्रतिषेदं कृत्वा विधीयमानः श्यन् तदीयस्थान एव भवत्यतो व्याचष्टे — - यगविषये तु नास्येति । श्यना सन्नियोगशिष्टं परस्मैपदंश्यनभावे न भवतीत्यात्मनेपदमेवोदाहरति — कोषिषीष्टेति । कोषिष्यते । चुकुषे । कोषिष्यते । अकोषि । अकोषिष्यत । ररञ्जोरङक्ष्यते । अरञ्जि । अरङ्क्ष्यत । इत्यादद्यपि ज्ञेयम् । श्यन्पक्षे कुष्यन्तीत्यत्र नित्यं नुम्, । यक्पक्षे तुआच्छीनद्यो॑रिति विकल्पः । स्वरे विशेषोऽप्यस्त्येव.इह प्रकरमेभिद्यते काष्ठं स्वयमेवे॑ति वृत्त्यादौ प्रयुज्यते तत्र स्वयंशब्दः करणार्थको ज्ञेयः । आत्मना करणेनेति । कत्र्रर्थत्वे तु कर्मणि लः स्यात् । स्पष्टं चेदं कैयटादौ ।इति तत्त्वबोधिन्याम् कर्मकर्तृप्रक्रिया ।अथ पूर्वकृदन्ते कृत्यप्रकरणम् । समस्तजगतामीशौ जगदानन्दकारकौ । जगतीजनकौ वन्दे पार्वतीपरमेआरौ॥१॥॒कृदिति॑ङिति तिङ्भिन्नप्रत्ययस्य कृत्संज्ञाकरणात् कृतां तिङ्ज्ञानाधीनज्ञानत्वात्तिङ्निरूपणानन्तरमेव कृतां निरूपणमुचितमिति तिङो निरूप्य कृतो निरूपयितुमाह —
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
Text Unavailable. If you can help in fixing this issue by providing this text, please let us know using the feedback link at the bottom of this page. Thank you!