Page loading... Please wait.
3|1|84 - छन्दसि शायजपि
॥ तस्मै पाणिनये नमः ॥
3|1|84
SK 3432
छन्दसि शायजपि   🔊
सूत्रच्छेदः
छन्दसि (सप्तम्येकवचनम्) , शायच् (प्रथमैकवचनम्) , अपि (अव्ययम्)
अनुवृत्तिः
हौ  3|1|83 (सप्तम्येकवचनम्) , शानच्  3|1|83 (प्रथमैकवचनम्) , श्नः  3|1|83 (षष्ठ्येकवचनम्)
अधिकारः
प्रत्ययः  3|1|1 परश्च  3|1|2 आद्युदात्तश्च  3|1|3 धातोः  3|1|22
सम्पूर्णसूत्रम्
छन्दसि श्नः हौ शानच् शायज् अपि
सूत्रार्थः
वेदानां विषये - श्ना-प्रत्ययस्य हि-प्रत्यये परे शानच् तथा शायच् उभौ अपि आदेशौ भवतः ।
हलः श्नः शानज्झौ 3|1|83 इत्यनेन हलन्तात् परस्य श्ना-प्रत्ययस्य हि-प्रत्यये परे शानच्-आदेशः भवति । वेदानाम् विषये शानच्-इत्यस्य स्थाने "शायच्" आदेशः अपि अनेन सूत्रेण विधीयते । (अस्मिन् सूत्रे "हलः" इति न अनुवर्तते, अतः अयम् आदेशः सर्वेभ्यः धातुभ्यः भवितुम् अर्हति ।)

यथा - "गृभाय जिह्वया मधु" (ऋग्वेदः 8.17.5) - अत्र "गृभाय" एतत् रूपम् ग्रह्-धातोः लोट् -लकारस्य मध्यमपुरुषैकवचनस्य अस्ति । अस्य प्रक्रिया इयम् -

ग्रह् + लोट् [लोट् च 3|3|162 इत्यनेन लोट्-लकारः]
→ ग्रह् + सिप् [तिप्तस्झि.. 3|4|78 इत्यनेन मध्यमपुरुषैकवचनस्य विवक्षायाम् "सिप्" प्रत्ययः]
→ ग्रह् + श्ना + सिप् [सार्वधातुके प्रत्यये परे क्र्यादिभ्यः श्ना 3|1|73 इति विकरणप्रत्ययः "श्ना"]
→ ग्रह् + श्ना + हि [सेर्ह्यपिच्च 3|4|87 इत्यनेन सि-प्रत्ययस्य हि-आदेशः]
→ ग्रह् + शायच् + हि [छन्दसि शायजपि 3|1|84 इति श्ना-प्रत्ययस्य वेदानां विषये शायच्-आदेशः]
→ ग्रह् + आय + हि [इत्संज्ञालोपः]
→ गृ अह् + आय + हि [ग्रहिज्यावयिव्यधिवष्टिविचतिवृश्चतिपृच्छतिभृज्जतीनां ङिति च 6|1|16 इति रेफस्य सम्प्रसारणम् ऋकारः]
→ गृह् + आय + हि सम्प्रसारणाच्च 6|1|108 इति ऋकार-अकारयोः पूर्वरूप-एकादेशः ऋकारः ।]
→ गृह् + आय [अतो हेः 6|4|105 इति अदन्तात् परस्य हि-प्रत्ययस्य लोपः]
→ गृभ् + आय [ हृग्रहोर्भश्छन्दसि इति हस्य भः अनेन वार्त्तिकेन हकारस्य भकारः]
→ गृभाय ।

वेदेषु शानच्-आदेशे कृते अपि रूपाणि दृश्यते । यथा - बधान देव सवितः (शतपथब्राह्मणम् 1.2.4.16) । अत्र "बधान" इति रूपम् लौकिकसंस्कृतवत् एव शानच्-आदेशे कृते सिद्ध्यति ।

अत्र एकम् वार्तिकम् अपि ज्ञातव्यम् - हृग्रहोर्भश्छन्दसि इति हस्य भः । इत्युक्ते, वेदेषु हि-प्रत्यये परे अपि शायच्-आदेशः भवितुम् अर्हति, अन्येषु प्रत्ययेषु परेषु अपि शायच्-आदेशः भवितुम् अर्हति । यथा - "मही क्षेमं रोदसी अस्कभायत्" (अथर्ववेदः 4.1.3) - अत्र स्कम्भ् धातोः लङ्लकारस्य प्रथमपुरुषैकवचनस्य रूपे अपि "शायच्" आदेशः कृतः दृश्यते ।
One-line meaning in English
The श्ना प्रत्यय following a हल् letter is seen converted either to शायच् or शानच् when followed by the "हि" प्रत्यय.
काशिकावृत्तिः
छन्दसि विषये श्नः शायचादेशो भवति, शानजपि। गृभाय जिह्वया मधु। शानचः खल्वपि बधान देव सवितः।
`अत्रापि चित्-- शित्करणयोः पूर्वोक्तमेव प्रयोजनम्। `{नास्ति काशिकायाम्।} गृहाण्` इति। `ग्रहण उपादाने` (धातुपाठः-1533) लोट्, सिप्; हिः, ततः श्ना,तस्य शानच्, हेर्लुक् 6|4|105 , ग्रह्रादीना 6|1|16 सम्प्रसारणम्। `गृभाय` इति, क्वचित् पाठः। तत्र `ह्मग्रहोर्भश्छन्दसि` (वा। 8.2.32) इति भत्वम्। `बधान`इति। `बन्ध बन्धने` (धातुपाठः-1508) `अनिदिताम्` 6|4|24 इति नलोपः। शेषं पूर्ववत्॥
च्छन्दसि शायजपि॥ गृभायेति। ग्रहिज्यादिसूत्रेण संप्रसारणम्, ठ्हृग्रहोर्भश्च्छन्दसिऽ इति हकारस्य भकारः। बधानेति। ठ्बन्ध बन्धनेऽ,ठनिदिताम्ऽ इति नलोपः॥
सिद्धान्तकौमुदी
अपिशब्दाच्छानच् ॥ ।हृग्रहोर्भश्छन्दसि इति हस्य भः (वार्तिकम्) । गृभाय जिह्वया मधु (गृ॒भा॒य जि॒ह्वया॒ मधु॑) । बधान देव सवितः (ब॒धान॑ देव सवितः) । अनिदितां--- (कौमुदी-415) इति बध्नातेर्नलोपः । गृभ्णामि ते (गृ॒भ्णामि॑ ते) । मध्वा जभार (मध्वा॑ ज॒भार॑) ॥
Text Unavailable. Please use feedback link below to provide the text if you have.
Text Unavailable. Please use feedback link below to provide the text if you have.
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
छन्दसि शायजपि (701) (428 श्नाविकरणस्य शायजादेशविधिसूत्रम्।। 3.1.4 आ. 16 ) (1872 अहौशायज्विधिवार्तिकम्।। 1 ।।) - शायच् छन्दसि सर्वत्र- (भाष्यम्) शायच् छन्दसि सर्वत्रेति वक्तव्यम्।। क्व सर्वत्र?। हौ चाहौ च किं प्रयोजनम्?। महीरस्कभायद्, यो अस्कभायद् उद्गृभायत उन्मथायतेत्येवमर्थम्।। छन्दसि शायजपि।। 84 ।।