॥ तस्मै पाणिनये नम: ॥
Page loading... Please wait.
3|1|82
SK 2555
3|1|82
स्तम्भुस्तुम्भुस्कम्भुस्कुम्भुस्कुञ्भ्यः श्नुश्च   🔊
SK 2555
सूत्रच्छेद:
स्तम्भु-स्तुम्भु-स्कम्भु-स्कुम्भु-स्कुञ्भ्यः - पञ्चमीबहुवचनम् , श्नुः - प्रथमैकवचनम् , च - अव्ययम्
अनुवृत्ति:
श्ना  [3|1|81] (लुप्तप्रथमान्तनिर्देश:) - प्रथमैकवचनम् , कर्त्तरि  [3|1|68] - सप्तम्येकवचनम् , सार्वधातुके  [3|1|67] - सप्तम्येकवचनम्
अधिकार:
प्रत्यय:  [3|1|1] , परश्च  [3|1|2] , आद्युदात्तश्च  [3|1|3] , धातो:  [3|1|22]
सम्पूर्णसूत्रम्
कर्त्तरि सार्वधातुके स्तम्भुँ-स्तुम्भुँ-स्कम्भुँ-स्कुम्भुँ-स्कुञ्भ्यः धातो: पर: श्नु: श्ना च
सूत्रार्थ:
सार्वधातुके कर्तरि प्रत्यये परे स्तम्भ्, स्तुम्भ्, स्कम्भ्, स्कुम्भ्, स्कुञ् - एतेभ्यः श्ना तथा श्नु प्रत्ययौ भवतः ।
स्तन्भ्, स्तुन्भ्, स्कन्भ्, स्कुन्भ् - एते चत्वारः धातवः "रोधने" अस्मिन् अर्थे पाठिताः सन्ति । एते धातवः "सौत्राः" सन्ति - इत्युक्ते, धातुपाठे एतेषां निर्देशः नास्ति, केवलं सूत्रैः एव एतेषां निर्देशः क्रियते । स्कुञ्-इति धातुः क्र्यादिगणस्यैव धातुः अस्ति । एतेभ्यः पञ्च धातुभ्यः श्ना-प्रत्ययः अपि भवितुम् अर्हति, श्नु-प्रत्ययः अपि भवितुम् अर्हति ।

यद्यपि सूत्रे स्तम्भ् / स्तुम्भ् /स्कम्भ् / स्कुम्भ् इत्यत्र मकारः दत्तः अस्ति, तथापि औपदेशिकावस्थायाम् अत्र नकारः एव स्वीक्रियते एतत् स्मर्तव्यम् ।

यथा - स्तन्भ् + श्ना + ति → स्तभ्नाति । स्तन्भ् + श्नु + ति → स्तभ्नोति । उभयत्र अनिदितां हलः उपधायां क्ङिति 6|4|24 इत्यनेन धातोः उपधानकारस्य लोपः भवति ।
One-line meaning in English
In presence of a सार्वधातुक प्रत्यय in the कर्तरि प्रयोग, the verbs स्तम्भ्, स्तुम्भ्, स्कम्भ्, स्कुम्भ्, स्कुञ् gets the श्ना or the श्नु विकरणप्रत्यय.
काशिकावृत्तिः
आद्याश्चत्वारो धातवः सौत्राः, स्कुञाप्रवणे, एतेभ्यः श्ना प्रत्ययो भवति, श्नुः च। स्तभ्नाति, स्तभ्नोति। स्तुभ्नाति, स्तुभ्नोति। स्कभ्नाति, स्कभ्नोति। स्कुभ्नाति, स्कुभ्नोति। स्कुनाति, स्कुनोति। उदित्त्वप्रतिज्ञानात् सौत्राणाम् अपि धातूनां सर्वार्थत्वं विज्ञायते, न एतद् विकरणविषयत्वम् एव।
चकारः श्नानुकर्षणार्थः। `स्तभ्नाति` इति। आदौ `अनिदिताम्` 6|4|24 इत्यनुनासिकलोपः। श्नुश्नाभ्यां सह निर्देशात् तद्विषयतैवैषां धातूनामिति कस्यचिद्भ्रान्ति स्यात्। अतस्तन्निराकर्त्तुमाह-- `उदित्त्वप्रतिपादनात्` इत्यादि। एषां ह्रुकार इत्संज्ञकः प्रतिज्ञायते, तस्य क्त्वाप्रत्यय इड्विकल्पः फलम्। यदि त एतद्विकरणविषयाः स्युः, उदित्करणमनर्थकं स्यात्। तस्मादुदित्करणप्रतिज्ञानात् सर्वार्थत्वमेषामवसीयते। अर्थशब्दोऽयं विषयवाची। सर्वविषयत्वमित्यर्थः॥`पुषाण, मुषाण` इति। विध्यादौ लोट्, `सेह्र्रपिच्च` 3|4|87 , क्र्यादित्वाच् श्ना, तस्यानेन शानच्। चकारोऽन्तोदात्तार्थः। `अतो हेः` 6|4|105 इति हेर्लुक्। `क्रीणीहि` इति। `ई हल्यघोः` 6|4|113 इतीत्त्वम्। ननु च श्नाप्रत्ययस्य प्रकृतत्वात् स एवेह स्थानित्वेन विज्ञास्यते, तत् किमर्थः `श्नः` इति निर्देश इत्याह-- `श्न इति स्थानिनिर्देशः` इत्यादि। शानच्शब्दोऽयमादेश इत्येष संप्रत्ययो यथा स्थादित्येवमर्थः श्न इति निर्देशः। किं पुनः कारणमसति तस्मिन्नेव संप्रत्ययो न स्यादित्यत आह-- `प्रत्ययान्तरं हि` इत्यादि। सर्वे धातवोऽन्यगणपठिता अपि विषयो यस्य तत्तथोक्तम्।`श्नः` इत्यस्मिन् ह्रसति स्थानिर्देशे श्नाप्रत्ययस्यानुवृत्तिर्न ज्ञायेत्। ततश्च सर्वेभ्यो धातुभ्यो हलन्तेभ्यः शानजपवादः प्रत्ययो भवति तस्य च शानजादेशः, तदा मिदेर्गुणो मा भूत्; इतरथा ह्रयं गुणः प्रतिषेधविषय आरभ्यमाणो यथेह भवति-- मेध्यतीति, तथेहापि स्यात्-- मिदान इति। पुनः शित्करणे तु `सार्वधातुकमपित्` 1|2|4 इति ङित्त्वमपि पुनः प्रवत्र्तते। तेन मिदेः प्रतषेधविषयेऽपि गुण आरभ्यमाण इह न भवति॥
स्तम्भुस्तुम्भुस्कम्भुस्कुम्भुस्कुञ्भ्यः श्नुश्च॥ उदित्विप्रतिज्ञानादिति। एषां ह्युकारोऽनुनासिक इत्संज्ञकः प्रतिज्ञायते, तस्य प्रयोजनम्----ठुदितो वाऽ इति क्त्वाप्रत्यये इड्विकल्पः। यदि चैतद्विकरणविषया एवैते स्युस्तन्नोपपद्यते। तस्मादुदित्वेन प्रतिज्ञानात्सर्वार्थत्वं विज्ञायते, सर्वे प्रत्ययाः प्रयोजनमेषामित्यर्थः। सर्वप्रत्ययशेषत्वभिति वा॥
सिद्धान्तकौमुदी
चात् श्ना । स्कुनोति । स्कुनुते । स्कुनाति । स्कुनीते । चुस्काव । चुस्काव । चुस्कवे । स्कोता । अस्कौषीत् । अस्कोष्ट । स्तम्भ्वादयश्चत्वारः सौत्राः । सर्वे रोधनार्था इत्येके । माधवस्तु प्रथमतृतीयौ स्तम्भार्थौ द्वितीयो निष्कोषणार्थश्चतुर्थो धारणार्थ इत्याह । सर्वे परस्मैपदिनः । नलोपः । विष्टभ्नोति । विष्टभ्नाति । अवष्टभ्नोति । अवष्टभ्नाति । अवतष्टम्भ । जॄस्तम्भु-(कौमुदी-2291) इत्यङ्वा । व्यष्टभत् । व्यष्टम्भीत् । स्तुभ्नोति । स्तुभ्नाति ॥
स्तम्भुस्तुम्भुस्कम्भुस्कुम्भुस्कुञ्भ्यः श्नुश्च - सौत्रा इति । नोपधा इत्यपि ज्ञेयम् । नलोप इति ।अनिदिता॑मित्यनेनेति भावः । विष्टभ्नोतीति ।स्तन्भे॑रिति षत्वम् । अवष्टभ्नोतीति ।अवच्चालम्बनाविर्दूययो॑रिति षत्वम् । अवतष्टम्भेति ।स्थादिषवभ्यासेने॑ति षत्वम् । व्यष्टभदिति ।प्राक्सितादिति षत्वम् ।
Text Unavailable. If you can help fixing this issue by providing this text, please let us know using the feedback link at the bottom of this page. Thank you!
लघुसिद्धान्तकौमुदी
चात् श्ना। स्कुनोति, स्कुनाति। स्कुनुते, स्कुनीते। चुस्काव, चुस्कुवे। स्कोता। अस्कौषीत्, अस्कोष्ट॥ स्तन्भ्वादयश्चत्वारः सौत्राः। सर्वे रोधनार्थाः परस्मैपदिनः॥
महाभाष्यम्
Text Unavailable. If you can help in fixing this issue by providing this text, please let us know using the feedback link at the bottom of this page. Thank you!