॥ तस्मै पाणिनये नम: ॥
Page loading... Please wait.
3|1|8
SK 2657
3|1|8
सुप आत्मनः क्यच्   🔊
SK 2657
सूत्रच्छेद:
सुप - प्रथमैकवचनम् , आत्मनः - षष्ठ्येकवचनम् , क्यच् - प्रथमैकवचनम्
अनुवृत्ति:
-
अधिकार:
प्रत्यय:  [3|1|1] , परश्च  [3|1|2] , आद्युदात्तश्च  [3|1|3]
सम्पूर्णसूत्रम्
Unavailable at the moment
सूत्रार्थ:
This sutra is not updated yet.

The sutras are being written one by one, so this sutra will eventually get updated. Meanwhile, you can refer to the commentaries below.
One-line meaning in English
This sutra is not updated yet.
काशिकावृत्तिः
कर्मणः इच्छायां वा इत्यनुवर्तते। इषिकर्मणः एषितुः एव आत्मसम्बन्धिनः सुबन्तादिच्छायाम् अर्थे वा क्यच् प्रत्ययो भवति। आत्मनः पुत्रम् इच्छति पुत्रीयति। सुब्ग्रहणं किम्? वाक्यान् मा भूत्। महान्तं पुत्रम् इच्छति। आत्मनः इति किम्? राज्ञः पुत्रम् इच्छति। ककारः नः क्ये 1|4|15 इति सामान्यग्रहणार्थः। चकारस् तदविघातार्थः। क्यचि मान्ताव्ययप्रतिषेधो वक्तव्यः। इदम् इच्छति। उच्चैरिच्छति। नीचिअरिच्छति। छन्दसि परेच्छायाम् इति वक्तव्यम्। मा त्वा वृका अघायवो विदन्।
आत्मशब्दः परस्य व्यावृतिंत कुर्वाणो यस्तत्प्रतियोगिनमर्थमाचष्टे स इह परिगृह्रते, न तु योऽन्तव्र्यापारवति पुरुषे भोक्तरि वत्र्तते; स इह गृह्रमाणोऽकिञ्चित्करः स्यात्। तेनेच्छा विशिष्येत, सुबन्तं वा; तत्रेच्छा तावदात्मनः, अन्यस्य न सम्भव्तयेवेति तद्विशेषणता तस्यायुक्ता। सुबन्थमप्येषित्रान्येन वा सम्बध्यमानमात्मसम्बद्धमेव भवति; उभयोरपि तयोरात्मसम्बन्धित्वात्। तस्मात् सुबन्तविशेषणत्वमपि तस्यायुक्तमिति परप्रतियोगिवचन एव गृह्रते। एवं हि कपरनिवृत्तिः शक्यते कर्त्तुम्, नान्यथा। अत्रापीच्छायाः सन्निधानात् तयैव व्याप्यमानस्य कर्मत्वं विज्ञायते, इत्याह-- `इषिकर्मणः` इति। आत्मग्रहणेन यदीच्छा विशिष्येत तदेहापि स्यात्-- राज्ञः पुत्रमिच्छतीति। राज्ञोऽपि पुत्र इष्यमाणे सत्यात्मन एवैषितुरिच्छा भवति। तस्मासुबन्तमेवात्मगर्हणेन विशेषयितुं युक्तमिति मत्वाऽ‌ऽह-- `एषितुरात्मसम्बन्धिनः` इति। आत्मसम्बन्धित्वं तु सुबन्तस्यार्थद्वारकं वेदितव्यम्। अथैषितुरेवैतत् कुतो लभ्यते? इच्छया सन्निधीयमानयेहैषितुः सन्निधापितत्वात्। एतदपि कुतः? तेन विना तदभावात्। `पुत्रीयति` इति। `क्यचि च` 7|4|33 इतीत्त्वम्।सब्ग्रहणमिह प्रातिपदिकनिवृत्त्यर्थं वा स्यात्? धातुनिवृत्त्यर्थं वा? तत्र प्रातिपदिकनिवृत्त्यर्थं तावन्नोपपद्यते, न हि सुबन्तात् प्रत्ययोत्पत्तौ प्रातिपदिकाद्वा कश्चिद्विशेषोऽस्ति। धातुनिवृत्त्यर्थमपि न युज्यते, ततो विहितस्य सनो बाधकत्वादित्यभिप्रायेणाह-- `सुब्ग्रहणं किम्` इति, `वाक्यान्मा भुत्` इति। सुब्ग्रहणप्रयोजनमाह-- असति सुब्राग्रहणे वाक्यादपि स्यात्, अतस्तन्निवृत्त्यर्थं कृतं सुब्ग्रहणम्। अथ किमिदानीं न भवितव्यमेव महापुत्रीयतीति? भवितव्यं यदा समासे कृत एतद्वाक्यं भवति-- महापुत्रमिच्छतीति, यदात्वेतद्वाक्यं भवति-- महान्तं पुत्रमिच्छतीति, तदा न भवितव्यम्। पदसमुदायोपलक्षणञ्च वाक्यग्रहणं वेदितव्यम्। तस्मान्महान्तं पुत्रमित्यतः समुदायात् प्राप्तिराशङ्क्यते, न चैतद्वाक्यम्; अपरिसमाप्त्यर्थत्वात्। किञ्च स्यात् यद्यतः स्यात्? प्रत्ययार्थे गुणीभूतयोर्महत्पुत्रशब्दयोरसत्येकार्थीभावलक्षणेऽसामार्थ्ये समासो न स्यात्। ततश्चोत्तरपदे विधीयमानं `आन्महतः समानाधिकरणजातीययोः` 6|3|45 इत्यात्त्वं न स्यात्। अथ वा-- प्रत्ययार्थे गुणीभूतस्य पुत्रशब्दस्य पूज्यमानताविशेषणं न स्यादिति `सन्महत्` 2|1|60 इत्यादिना समासो न स्यात्, तदभावादात्त्वमपि न स्यात्। अथ क्रियमाणे सुब्ग्रहणे कस्मादेवात्र न भवति, सुबन्तं ह्रेतत्? नैतत्; प्रत्ययग्रहणपरिभाषया यतः सुबूत्पन्नः सुब्ग्रहणे सति तदादेरेव ग्रहणं भवति। न चेह वाक्यात् सुबुत्पन्नः, किं तर्हि? अवयवात्। तेन वाक्यादुत्पत्तिर्न भवति। अवयवात् तर्हि पुत्रशब्दात् कस्मान्न भवति? अगमकत्वात्। वृत्तिसमानार्थेन हि वाक्येन प्रत्ययान्तेन भवितव्यम्। यश्चेह महान्तं पुत्रमिच्छतीति वाक्यनार्थः प्रतीयते नासौ प्रत्ययान्तेन। {तथा हि महान्तं पुत्रमिच्छतीति वाक्येनार्थः कञ्चित्-- वाराणसीमुद्रणम्} तथा हि महान्तं पुत्रीयतीत्युक्ते महान्तं कञ्चित् पुत्रमिवाचरतीत्येषोऽर्थो वाक्यार्थद्भिन्नजातीय ए गम्यते। `राज्ञः पुत्र मिच्छति` इति। ननु च सापेक्षत्वादसामर्थ्ये सति न भविष्यति, किमात्मग्रहणेन,कथमसामथ्र्यम्? सापेक्षमसमर्थं भवति` (चां।प।27) इति वचनात्? नैतत्। यदा तह्र्रर्थात् प्रकरणाद्वाऽनपेक्षं निज्र्ञातं भवति तदा प्राप्नोति। इह च प्राप्नोति-- पापमिच्छति, अघमिच्छतीति। अत्र हि तृतीयस्य परपदस्य प्रयोगमन्तरेणापि परस्येति गम्यते, न हि कश्चिदात्मनः पापमिच्छति। `ककार#ः` इत्यादि। असति ककारेऽस्य ग्रहणं न स्यात्; `नः क्ये` 1|4|15 इत्यत्र ककारानुबन्धवतो ग्रहणात्। चकारस्तदविघातार्थः। असति चकारे तु सति क्यच्क्यङक्यषो द्वनुबन्धका भवन्तीति सामान्यग्रहणस्य विघातो न भवति। अन्तोदात्तार्थस्तु चकारो न भवति; `घातोः` 6|1|156 इति तस्य सिद्धत्वात्। `वक्तव्यः` इति। व्याख्येय इत्यर्थः। व्याख्यानन्तु-- वेत्यनुवत्र्तमानस्य व्यवस्थितविभाषात्वमाश्रित्य कत्र्तव्यम्। तेन मान्ताव्ययेभ्यएः क्यज्न भवति।`छन्दसि` इत्यादि। छन्दसि परेच्छायामपि क्यज्भवतीत्येतदर्थरूपं व्याख्येयमित्यर्थः। व्याख्यानं पुनर्यद्यं क्यचि कृते `अआआद्यस्यात्` 7|4|37 इतीत्त्वबाधनार्थमघशब्दस्येत्त्वं शास्ति तज्ज्ञापयति-- छन्दसि परेच्छायामपि क्यज्भवति। न हि कश्चिदात्मनोऽघमिच्छति। `अघायवः` इति। ज्ञापकसुत्रेणात्त्वम्, `क्याच्छन्दसि` 3|2|170 इत्युप्रत्ययः, `जसि च` 7|3|109 इति गुणः, अवादेशः॥
सुप आत्मनः क्यच्॥ अत्रापीच्छायामित्यनुवृतेस्तदपेक्षमेव सुबन्तस्य कर्मत्वं विज्ञायते इत्याह---इषिकर्मण इति। आत्मशब्दोऽयं परव्यावृत्तिवचनः स्वशब्दपर्यायो गृह्यते, न चेतनद्रव्यवचनः। स हि गृह्यमाण इच्छया वा सम्बध्येत, सुबन्तेन वा। तत्रेच्छया सम्बन्धे कर्तरि षष्ठी, आत्मनः इच्छायामात्ककर्तृकायामिच्छायामात्मा चेदिच्छतीत्यर्थः स्यात्, ततश्चात्मग्रहणमनर्थकं स्यात्, सर्वैवेहेच्छाऽऽत्मकर्तृका, तस्यास्तद्धर्मत्वात्। सुबन्तसम्बन्धे तु देवदतस्य पुत्रमिच्छति यज्ञदत इत्यत्रापि प्राप्नोति, परस्यापि हीष्यमाण आत्मन एवेष्टो भवति; तस्याप्यात्मत्वात्। अनर्थकं चात्मग्रहणं स्याद्; व्यावर्त्याभावात्। वृक्षस्य जलमिच्छति, खट्वायाः पादमिच्छतीत्यादौ यत्राचेतनार्थ किञ्चिदिष्यते तद्व्यावर्त्यमिति चेत्, न; तत्रापि चेतनस्यैव परमशेषित्वात्। सर्वमेव हि भोग्यं चेतनानामेव शेषभूतं खट्वायाः पादमिच्छतीत्यत्रापि यस्य तत् ख्टवादिकमुपभोग्यं तदर्थमेव तदिष्यते, खट्वादिकं तु तस्यैव द्वारमात्रम्; अतः परव्यावृत्तिवचन एवात्मशब्दः। तत्रापि यदीच्छया सम्बन्धः स्यात्, पूर्ववत् कर्तरि षष्ठ।लमात्मग्रहणमनर्थकं स्यात्, सर्वस्या एवेच्छाया एषितृकर्तृकत्वा दिति सुबन्तेन सम्बध्यते, सुबन्तात्कर्मण इच्छायामभिधेयायां क्यज् भवलि, तच्चेत्सुबन्तमात्मनः स्वस्य सम्बन्धि भवति। कस्य स्वस्येत्यपेक्षायामिच्छया एषितुः सन्निधापितत्वात् तस्येवैषितुरात्मनः सम्बन्धि इति विज्ञायते, तदाह----एषितुरेवात्मसमम्बन्धिनः सुबन्तादिति। न चैवमात्मनः पुत्रं परस्य दासमिच्छतीत्यत्रापि सुबन्तस्यात्मसम्बन्धित्वात्प्रसङ्गः, नात्र यथाकथंचिदात्मसम्बन्धित्वं विवक्षितम्, किं तर्हि? इष्यमाणमेव रूपमात्मसम्बन्धित्वेन यदेष्यते तदा प्रत्ययः। पुत्रीयतीति। ठ्क्यचि चऽ इतीत्वम्। सुप इति किमिति। कर्मण इति वचनातिङ्न्तादप्रसङ्गः, न हि तिङ्न्तं कर्म। धातोश्चाप्रसङ्गः विशेषविहितेन सना बाधितत्वात्। ङ्याप्प्रातिपदिकादुत्पतावपि न कश्चिद्दोषः; ठ्नः क्येऽ इति पदसंज्ञाविधानात्। तच्च क्रियमाणे सुब्ग्रहणे नियमार्थम्---नान्तमेव क्ये पदमिति। तदेव ङ्याप्प्रातिपदिकादुत्पतौ विध्यर्थ भविष्यति। नन्वसति सुब्ग्रहणे ङ्याप्प्रातिपदिकात्सुबन्ताच्चोत्पत्त्व्यमविशेषात्, ततश्च ठ्नः क्येऽ इत्येतद्यद्येवं विध्यर्थम्, उभयथापि दोषः; नियमार्थे हि वाच्यतीत्यादौ प्रातिपदिकात्सुबन्ताच्चोत्पतौ यद्यपि दोषाभावः, नकारान्तेषु प्रातिपदिकादुत्पत्तिपक्षे नलोपो न स्यात्। अथ तेषु प्रातिपदिका दुप्तौ विध्यर्थम्, एवं सति वाच्यतीत्यादौ सुबन्तादुत्पत्तिपक्षे जश्त्वादिपदकार्यं स्यात्, अतः सुबन्तादेव यथा स्यात्प्रातिपदिकान्मा भूदिति नियमार्थं सुब्ग्रहणं कर्तव्यमेव। एवं तर्हि कर्मग्रहणाद् ङ्यप्प्रातिपदिकादप्रसङ्गः सुबन्तमेव हि कर्माभिधायि; पञच्कपक्षेऽपि द्योतकविभक्तेरपेक्षितत्वात्। तदेवं सुबन्तमपहाय न क्वचित्प्रसङ्ग इति मत्वा प्रश्नः। वाक्यादिति। पदसमूहादित्यर्थः। महन्तं पुत्रमिच्छतीति। किं च स्याद्यद्यत्र स्यात्? प्रत्ययार्थे गुणभूतयोर्महत्पुत्रशब्दयोरसति परस्परसम्बन्धे समासो न स्यात्, तथा च तन्निबन्धनमात्वं न स्यात्। किमिदानीं न भवति---महापुत्रीयतीति? भवति, यदैतद्वाक्यं भवति----महान्पुत्रो महापुत्रः महापुत्रमिच्छीति। अथ क्रियमाणेऽपि सुब्ग्रहणे कस्मादेवात्र न भवति? प्रत्ययग्रहणपरिभाषया समुदायस्यासुबन्तत्वात्। किं पुनरयं कर्मणोः समुदायः? आहोस्वित्समुदायः कर्म? किं चातः? यदि कर्मणोः समुदायः, न कर्मग्रहणेन गृह्यते इति समुदायादप्रसङ्ग? अथ समुदायः कर्म, अवयवाद् द्वितीया न प्राप्नोत्यकर्मत्वात्? एवं तर्हि कर्मणोरेवायं समुदायः, सुब्ग्रहणं तु यदत्र कर्म तस्मान्मा भूदिति। अथ क्रियमाणेऽपि सुब्ग्रहणे कस्मादेव तस्मान्न स्यात्, सुबन्तमेव हि तत्? असामर्थ्यात्। कथमसामर्थ्यम्? सापेक्षमसमर्थ भवतीति। अक्रिययाणे पुनः सुब्ग्रहणे नायं पदविधिर्भवति। यत्र हि पदस्यैवासाधारणं किञ्चिद्रूपमाश्रितं स पदविधिः, कर्मग्रहणं तु न पदस्यैवासाधारणम्, ठ्धातोः कर्मणःऽ इत्यपदेपि द्दष्टत्वात्। अन्ये त्वाहुः----समुदायस्यापि कर्मत्वमवयवयोश्च महत्वविशिष्टस्य पुत्रस्यैष्यमाणत्वादिति तेषां समुदायादवयवाच्च मा भूदिति सुब्ग्रहणम्। राज्ञः पुत्रमिच्छतीति। नन्वसामर्थ्यादेवात्र न भविष्यति, कथमसामर्थ्यम्? सापेक्षमसमर्थं भवतीति? यत्र तर्ह्यन्तरेणापि तृतीयस्य पदस्य प्रयोगं परस्येति गम्यते तत्र मा भूत् यथा---अघमिच्छति, व्यसनमिच्छतीति, न हि कश्चिदात्मनोऽघमिच्छति। ककार इत्यादि। स्यादेतत्----ठ्नः क्येऽ इत्यत्रापि मा कारि ककार इति? यद्येवम्, सामसु साधुः अत्रापि प्राप्नोति। चकात्स्तदविघातार्थ इति। स्वरस्तु प्रत्ययस्वरेण सिद्धो धातुस्वरेण वा, अकारस्तु द्दषदमिच्छति द्दष्यद्यति, द्दषद्यतेर्ण्वुल्, ठतो लोपःऽ,ठ्यस्य हलःऽ,ठ्क्यस्य विभाषाऽ----द्दषदकः, अत्रातो लोपस्य स्थानिवद्भावात् ठत उपधायाःऽ इति वृद्धिर्मा भूत्। मृदमिच्छति मृद्यति, मृद्यतेः ठचो यत्ऽ, अतो लोपादि पूर्ववत्---मृद्यम्, ठ्यतोऽनावःऽ इत्याद्यौदातत्वं यथा स्यादिति। पुत्रीयतीत्यादौ च शपा सहैकादेश उदातो भवति। क्यचि मान्ताव्ययप्रतिषेध इति। मान्तग्रहणं प्रातिपदिकस्य विशेषणम्, न सुबन्तस्य । तेन पुत्रमिच्छतीत्यादौ क्यज् भवति, काविच्छति कानिच्छतीत्यादौ च न भवति। उच्चौर्नीचैरिति। अधिकरणप्रधानयोरप्यनयोराधेये यदा वृत्तिस्तदा कर्मत्वम्, गोसमानाक्षरनान्तादित्येके। गोशब्दात्समानाक्षरान्नान्ताच्च क्यज् भवतीत्येके मन्यन्ते। अकारादयो दश समानाक्षराः; तत्र लृवर्णान्तस्य, ऋकारान्तस्य च प्रातिपदिकस्याभावादेकारान्पूर्वेषां सप्तानामचां ग्रहणम्। अस्मिन्पक्षे वाच्यतीत्यादि न सिद्ध्यति, तस्मान्नायं स्थितः पक्ष इत्याहुः। अत एवास्य वृतावनुपन्यासः। परेच्छायामिति। शेषष्ठयाः समासो न कर्तृषष्ठयाः, सुबन्तद्वारकश्च परस्येच्छया सम्बन्धः, परस्य सुबन्तार्था या इच्छा तस्यामित्यर्थः। अघायव इति। ठ्क्याच्छन्दसिऽ इत्युप्रत्ययः, ठश्वाघस्यात्ऽ इत्यात्वम्। एतदेव क्यचि परत आत्वविधानं ज्ञापकम् च्छन्दसि परेच्छायामपि क्यज् भवतीति, न हि कश्चिदात्मनोऽघमिच्छति। न चाचारक्यजर्थम्, च्छन्दस्यघशब्दाचारे क्यचोऽदर्शनात्। अथास्मात्क्यजन्ताल्लकृत्यक्तखलर्था भवन्तः क्व भवन्ति? यथायोगं भावे कर्तरि च, न तु कर्मणि। प्रकृत्यर्थविशिष्टाया नियतविषयअया इच्छायाः क्यजन्तेनाभिधानम्, न सा वस्त्वन्तरं विषीयकरोति, अतो जीवत्यादिवदकर्मकः क्यजन्तः। आचारक्यजन्ते तूपमानकर्मणः पुत्रादेरन्तर्भावेऽपि उपमेयस्यच्छात्रादेरनन्तर्भावातस्मिन्कर्मणि लादयो भवन्त्येव---पुत्रीय्यतेच्छात्रः पुत्रायितव्य इत्यादि, यथा----श्येनायते काक इति उपमानकर्तुरन्तर्भावेऽपि उपमेयकर्तरिलो भवति, तद्वत्। इह च माणवकं मुण्डं करोति मुण्डते माणवकः, मुण्डयितव्यो माणवक इति ण्यन्तो धातुर्मौण्ड।ल्गुणविशिष्टद्रव्यमात्रमन्तर्भावयितुं शक्तः, न तु माणवकादिकं विशेषमिति तस्य धातावनन्तर्भावातत्र लादयो भवन्ति। यद्येवम्, अनेन हेतुना क्यजन्तादपि प्राप्नोति। माणवकं मुण्डमिच्छति मुण्डीयति माणवकम्, मुण्डीय्यते माणवक इति, नात्र क्यचा भवितव्यमसामर्थ्यात्? कथमसामर्थ्यम्? सापेक्षमसमर्थ भवतीति। णिजपि तर्हि न प्राप्नोति? स्यादेतत्----नोभौ करोतियुक्तौ मौण्ड।ल्ं माणवकश्च, न हि माणवकत्वं क्रियते, ततश्च मुण्डं करोतीत्यत्रैवार्थे मुण्ड।ल्तोति णिजुत्पद्यते। मुण्डं करोति माणवकमित्यत्र वाक्येऽपि मुण्डस्यैव कर्मत्वम्, तत्सामानाधिकरण्यातु माणवकाद् द्वितीयोत्पतिः। तदेवं माणवकादयो मौण्ड।ल्स्याधारविशएषप्रतिपादनार्थमुपादीयमानाः करोतियुक्ता न भवन्ति। यदा पुनरुभौ करोतियुक्तौ भवतः, न भवति तदा वृत्तिः, तद्यथा---बलीवर्द्दं करोति तं च मुण्डं करोति मुण्डयति बलीवद्दमिति णिज्भवति। यद्येवम्, अनेनैव हेतुना क्यजपि न प्राप्नोति। यदि चाधारत्वेनापि माणवकोऽपेक्ष्यते, पुनरपि सापेक्षता। किञ्च, यदि न माणवकः करोतियुक्तः, कथं तत् लकार उत्पद्यते---मुण्ड।ल्ते माणवक इति? कश्चायं न्यायो न माणवकः करोतियुक्त इति? न ह्यसौ मौण्ड।ल्मात्रेण सन्तुष्यति,माणवकस्थमसौ मौण्ड।ल्भिनिर्वत्तयति, ततश्च स्वरूपेणाक्रियमाणोऽपि माणवको मुण्डपरूपेण क्रियते, इष्यते च। तदेवं सति यदि णिज् भवति क्यजपि स्याद् अथ क्यज्न भवति णिजपि न स्यादिति समानं वचः। एवं तर्हि मुण्डादयो गुणवचनाश्च सापेक्षाः, उच्यते च णिच्, स वचनात्सापेक्षेभ्योऽपि भविष्यति, क्यच् पुनरनपेक्षेभ्यः पुत्रादिभ्यः सावकाश इति माणवकं मुण्डमिच्छतीत्यादौ सापेक्षेभ्यो न भविष्यतीति? यद्यप्ययमपि णिज् गुणमात्रकरणविवक्षायां सावकाशः---मुण्डयत्ययं नापितः प्रवीणो मौण्ड।ल्करणैति, तथापि तत्करोतीति सिद्धे णिचि पुनर्विधानमिदं सापेक्षेभ्योऽपि यथा स्यादित्येवमर्थमेव। यद्वा--द्विविधा मुण्डाद्यः---धातवः, प्रातिपदिकानि च। तत्र सूत्रे धातव उपातास्तेभ्यः स्वभावत एव विशिष्टक्रियावचनेभ्यो णिज्भविष्यति, प्रातिपदिकानां तु विग्रह एव---माणवकं मुण्डं करोतीति। अथ वा नेदं युगपदुभयं भवति----वाक्यं च प्रत्ययश्च, ततश्च मुण्डयतीति द्रव्यमात्रं प्रतीयते, तत्र विशेषार्थिना विशेषोऽनुप्रयोक्तव्यः। अथ वा---मुण्डस्यैव शुद्धेन करोतिनाऽन्वयः, मौण्ड।ल्विशिष्टेन तु माणवकस्य, यथा---गां दोग्धि पय इति शुद्धस्य दुहेः पूर्वं गवभिसम्बन्धः, पश्चातु गोदुहिना पयसः। क्यच्प्रत्ययस्त्वनभिधानान्न भवति। माणवकं मुण्डयतीत्युक्ते माणवकं मुण्डमिवाचरतीत्यर्थान्तरमेव प्रतीयते। तदेवमिच्छाक्यजन्ताद्भावे कर्तरि च लादय इति स्थितम्॥
सिद्धान्तकौमुदी
॥ अथ तिङन्तनामधातुप्रकरणम्‌ ॥

इषिकर्मण एषितृसंबन्धिनः सुबन्तादिच्छायामर्थे क्यच् प्रत्ययो वा स्यात् । धात्ववयवत्वात्सुब्लुक् ॥
सुप आत्मनः क्यच् - अथ नमधातुप्रक्रिया निरूप्यन्ते । सुप आत्मनः । प्रत्ययग्रहणपरिभाषया सुबन्तादिति लभ्यते । सन्निधानादिच्छां प्रत्येव कर्मत्वं विवक्षितम् । आत्मन्शब्दः स्वपर्यायः । तादथ्र्यस्य शेषत्वविवक्षायां षष्ठी । स्वर्थात्कर्मण इति लभ्यते । स्वश्च इच्छायां सन्निधापितत्वादेषितैव विवक्षितः । तथा च स्वस्मै यदिष्यते कर्मकारकं तद्वृत्तेः सुबन्तादिच्छायां क्यज्वा स्यादिति फलति । तदिदमभिप्रेत्य आह — इषिकर्मण एषितृसम्बन्धिन इत्यादिना । एषित्रर्थादिषिकर्मण इत्यर्थः । एषित्रा स्वार्थं यदिष्यते कर्मकारकं ।द्वाचकात्सुबन्तादिति यावत् । धात्ववयवत्वादिति । सुबन्तात्क्यचि कृते तदन्तस्य "सनाद्यन्ता" इति धातुत्वादिति भावः ।
सुप आत्मनः क्यच् - सुप आत्मनः क्यच् ।धातोः कर्मणः॑ इति पूर्वसूत्रात्कर्मण इच्छायां वेत्यनुवर्तते । ततश्च सन्निधानादिच्छाकर्मण एव भवतीत्याह — इषिकर्मण इति ।परस्य पुत्रमिच्छती॑त्यत्रातिप्रसङ्गवारणाय सूत्रे आत्मशब्द उपात्तः । स तु स्वशब्दपर्याय । स्वश्च क इत्याकाङ्क्षायामिच्छायाः सन्निधापितत्वादेषितैव गृह्रते । तदाह — एषितृसंबन्धिन इति । सुबन्तस्योक्तविशेषणद्वयमर्थद्वारकं बोध्यम् ।
लघुसिद्धान्तकौमुदी
इषिकर्मण एषितुः संबन्धिनः सुबन्तादिच्छायामर्थे क्यच् प्रत्ययो वा स्यात्॥
महाभाष्यम्
सुप आत्मनः क्यच् (625) (386 क्यज्विधिसूत्रम्।। 3.1.2 आ. 1 सूत्रम्) (चकारानुबन्धप्रयोजनाधिकरणम्) (आक्षेपभाष्यम्) किमर्थश्चकारः।। (समाधानभाष्यम्) स्वरार्थः। चितोऽन्तउदात्तो भवतीत्यन्तोदात्तत्वं यथा स्यात्।। (समाधानबाधकभाष्यम्) नैतदस्ति प्रयोजनम्। एकाजयं तत्र नार्थः स्वरार्थेन चकारेणानुबन्धेन। प्रत्ययस्वरेणैव सिद्धम्।। (समाधानान्तरभाष्यम्) विशेषणार्थस्तर्हि। क्व विशेषणार्थेनार्थः?। अस्य च्वौ क्यचि च इति। क्य इति ह्युच्यमाने अपि काकः श्येनायते अत्रापि प्रसज्येत।। (समाधानान्तरबाधकभाष्यम्) नैतदस्ति। तदनुबन्धकग्रहणे अतदनुबन्धकस्य ग्रहणं न इत्येवमेतस्य न भविष्यति। (समाधानान्तरभाष्यम्) सामान्यग्रहणाविघातार्थस्तर्हि। क्व च सामान्यग्रहणाविघातार्थेनार्थः?। नः क्य इति।। (आत्मग्रहणप्रयोजनकथनाधिकरणम्) (आक्षेपभाष्यम्) अथात्मग्रहणं किमर्थम्। (समाधानभाष्यम्) आत्मेच्छायां यथा स्यात् परेच्छायां मा भूत् राज्ञः पुत्रमिच्छतीति।। (समाधानबाधकभाष्यम्) क्रियमाणेऽपि वै आत्मग्रहणे परेच्छायां प्राप्नोति। किं कारणम्। आत्मन इतीयं कर्तरि षष्ठी। इच्छेत्यकारो भावे। स यद्येवात्मन इच्छति। अथापि परस्य। आत्मन एवेच्छासौ भवति। (समाधानसाधकभाष्यम्) नैष दोषः। नात्मग्रहणेनेच्छाभिसंबध्यते।। किं तर्हि?। सुबन्तमभिसंबध्यते ‐ - आत्मनो यत्सुबन्तम् इति।। (अल्पग्रहणप्रयोजननिराकरणभाष्यम्) यद्यात्मग्रहणं क्रियते, छन्दसि परेच्छायां न प्राप्नोति ‐ - मा त्वा वृका अघायवो विदन्। तस्मान्नार्थ आत्मग्रहणेन।। (आक्षेपभाष्यम्) कस्मान्न भवति राज्ञः पुत्रमिच्छतीति। (समाधानभाष्यम्) असार्मथ्यात्। कथमसार्मथ्यम्। सापेक्षमसमर्थं भवतीति।। (आक्षेपभाष्यम्) छन्दस्यपि तर्हि न प्राप्नोति ‐ - मात्वा वृका अघायवो विदन्।। (समाधानभाष्यम्) अस्त्यत्र विशेषः। अन्तरेणाप्यत्र तृतीयस्य पदस्य प्रयोगं परेच्छा गम्यते।। कथं पुनरन्तरेणाप्यत्र तृतीयस्य पदस्य प्रयोगं परेच्छा गम्यते?। (आत्मग्रहणाप्रयोजनसाधकभाष्यम्) ते चैव हि वृका एवमात्मका हिंस्राः। कश्चात्मनोऽघमेषितुमर्हति। अतोन्तरेणापि तृतीयस्य पदस्य प्रयोगं परेच्छा गम्यते।। यथैव तर्हि च्छन्दस्यघशब्दात् परेच्छायां क्यज् भवति। एवं भाषायामपि प्राप्नोति अघमिच्छतीति। तस्मादात्मग्रहणं कर्तव्यम्।। छन्दसि कथम्? आचार्यप्रवृत्तिर्ज्ञापयति ‐ - भवत्यघशब्दात् छन्दसि परेच्छायां क्यजिति। यदयमाह अश्वाघस्यात् इति, क्यचि प्रकृते ईत्वबाधनार्थमाकारं शास्ति।। (सुब्ग्रहणप्रयोजनाधिकरणम्) (आक्षेपभाष्यम्) अथ सुब्ग्रहणं किमर्थम्?। (प्रयोजनभाष्यम्) सुबन्तादुत्पत्तिर्यथा स्यात् प्रातिपदिकान्मा भूदिति।। (प्रयोजननिराकरणभाष्यम्) नैतदस्ति प्रयोजनम्। विशेषः सुबन्तादुत्पत्तौ सत्यां प्रातिपदीकाद्वा।। (प्रयोजनसाधकभाष्यम्) अयमस्ति विशेषः। सुबन्तादुत्पत्तौ सत्यां पदसंज्ञा सिद्धा भवति।। प्रातिपदिकात्पुनरुत्पत्तौ सत्यां पदसंज्ञा न प्राप्नोति।। (प्रयोजनबाधकभाष्यम्) ननु च प्रातिपदिकादप्युत्पत्तौ सत्यां पदसंज्ञा सिद्धा। कथम्। आरभ्यते नः क्ये इति। तच्चावश्यं वक्तव्यं सुबन्तादुत्पत्तौ सत्यां नियमार्थम्। तदेव प्रातिपदिकादुत्पत्तौ सत्यां विध्यर्थे भविष्यति।। (प्रयोजनभाष्यम्) इदं तर्हि प्रयोजनम् ‐ - सुबन्तादुत्पत्तिर्यथा स्याद्, धातोर्मा भूदिति।। (प्रयोजनबाधकभाष्यम्) एतदपि नास्ति प्रयोजनम्। धातोः सन्विधीयते, स बाधको भविष्यति।। (प्रयोजनसाधकभाष्यम्) अनवकाशा हि विधयो बाधका भवन्ति न सावकाशाः। सावकाशश्च सन्।। कोऽवकाशः?। परेच्छा।। (प्रयोजनबाधकभाष्यम्) न परेच्छायां सना भवितव्यम्।। किं कारणम्?। समानकर्तृकादित्युच्यते। यावच्चेहात्मग्रहणम्, तावच्च तत्र समानकर्तृकग्रहणम्।। (प्रयोजनभाष्यम्) इदं तर्हि प्रयोजनम्। सुबन्तादुत्पत्तिर्यथा स्याद्। वाक्यान्मा भूदिति ‐ - महान्तं पुत्रमिच्छति।। (इष्टापत्यभिप्रायेण प्रश्नभाष्यम्) न वा भवति ‐ - महापुत्रीयतीति।। (इष्टापत्तिनिरासाभिप्रायेण समाधानभाष्यम्) भवति, यदैतद्वाक्यं भवति ‐ - -महान्, पुत्रो महापुत्रः, महापुत्रमिच्छति महापुत्रीयतीति।। यदा त्वेतद्वाक्यं भवति ‐ - महान्तं पुत्रमिच्छतीति, तदा न भवितव्यम्।। तदा च प्राप्नोति। तदा मा भूदिति।। (आक्षेपभाष्यम्) अथ क्रियमाणेऽपि सुब्ग्रहणे कस्यादेवात्र न भवति। सुबन्तं ह्येतद् भवति वाक्यम्।। (समाधानभाष्यम्) नैतत् सुबन्तम्। कथम्?। प्रत्ययग्रहणे यस्मात्स तदादेर्ग्रहणं भवतिःथ्द्य;ति।। (आक्षेपभाष्यम्) अथ यदत्र सुबन्तं तस्मादुत्पत्तिः कस्मान्न भवति?। (1766 समाधानवार्तिकम्।। 1 ।।) - समानाधिकरणानां सर्वत्रावृत्तिरयोगादेकेन- (भाष्यम्) समानाधिकरणानां सर्वत्र वृत्तिर्न भवति।। क्व सर्वत्र?। समासविधौ प्रत्ययविधौ च। समासविधौ तावत् ‐ - ऋद्धस्य राज्ञः पुरुषः, महत् कष्टं श्रित इति। प्रत्ययविधौ ‐ - ऋद्धस्योपगोरपत्यम्, महान्तं पुत्रमिच्छतीति।। किं पुनः कारणं समानाधिकरणानां सर्वत्र वृत्तिर्न भवतीति?। अयोगादेकेन। न ह्यत्र एकेन पदेन योगो भवति। इह तावत् ऋद्धस्य राज्ञः पुरुष इति, षष्ठ्यन्तस्य सुबन्तेन सार्मथ्ये सति समासो विधीयते। यच्चात्र षष्ठ्यन्तं न तस्य सुबन्तेन सार्मथ्यम्। यस्य च सार्मथ्यं न तत् षष्ठ्यन्तं वाक्यं तत्। ऋद्धस्योपगोरपत्यमिति षष्ठीसमर्थादपत्येन योगे प्रत्ययो विधीयते यच्चात्र षष्ठ्यन्तं, न तस्यापत्येन योगः, यस्य चापत्येन योगो, न तत् षष्ठीसमर्थं वाक्यं तत्।। (आक्षेपभाष्यम्) समानाधिकरणानामिच्युच्यते। अथ कथं व्यधिकरणानाम् ‐ - राज्ञः पुत्रमिच्छतीति।। (समाधानभाष्यम्) एवं तर्हि इदं पठितव्यम् सविशेषणानां सर्वत्रावृत्तिरयोगादेकेन ‐ - -इति।। (1734 वाक्यकर्मत्वे दूषणवार्तिकम्।। 2 ।।) - द्वितीयानुपपत्तिस्तु- (भाष्यम्) द्वितीया तु नोपपद्यते महान्तं पुत्रमिच्छतीति। किं कारणम्?। न पुत्र इषिकर्म। यदि पुत्रो नेषिकर्म, न चावश्यं द्वितीयैव, किं तर्हि सर्वा अत्र द्वितीयादयो विभक्तयो न स्युः। महता पुत्रेण कृतं, महते पुत्राय देहि, महतः पुत्रात् आनय, महतः पुत्रस्य स्वं, महति पुत्रे निधेहीति। तस्मान्नैतच्छक्यं वक्तुं न पुत्र इषिकर्मेति। पुत्र एवेषिकर्म। तत्सामानाधिकरण्यान्महतोऽपि द्वितीयादयो भविष्यन्ति।। (आक्षेपभाष्यम्) वृत्तिस्तर्हि कस्मान्न भवति?। (समाधानभाष्यम्) सविशेषणानां वृत्तिर्न, वृत्तस्य वा विशेषणं न प्रयुज्यते इति वक्तव्यम्।। (आक्षेपभाष्यम्) यदि तर्हि सविशेषणानां वृत्तिर्न, वृत्तस्य वा विशेषणं न प्रयुज्यते इति उच्यते, मुण्डयति माणवकम् अत्र वृत्तिर्न प्राप्नोति।। (प्रतिप्रसवेन समाधानभाष्यम्) एवं तर्हि अमुण्डादीनामिति वक्तव्यम्।। (तृतियस्याक्षेपभाष्यम्) तत्तर्हि वक्तव्यम् ‐ - सविशेषणानां वृत्तिर्न, वृत्तस्य वा विशेषणं न प्रयुज्यते, अमुण्डादीनामिति।। (सिद्धान्तिभाष्यम्) न वक्तव्यम्। (पूर्वपक्षिभाष्यम्) वृत्तिस्तर्हि कस्मान्न भवति ‐ - महान्तं पुत्रमिच्छतीति।। (सिद्धान्तिभाष्यम्) अगमकत्वात्। इह समानार्थेन वाक्येन भवितव्यं प्रत्ययान्तेन च। यश्चेहार्थो वाक्येन गम्यते महान्तं पुत्रमिच्छतीति। नासौ जातुचित्प्रत्ययान्तेन गम्यते ‐ - महान्तं पुत्रीयतीति। एतस्माद्वेतोर्ब्रूमः अगमकत्वादिति। न ब्रूमः ‐ - अपशब्दः स्यादिति। यत्र च गमकं भवति, तत्र वृत्तिः, तद्यथा ‐ - मुण्डयति माणवकमिति।। (क्यजन्तकारकनिर्णयाधिकरणम्) (आक्षेपभाष्यम्) अथास्य क्यजन्तस्य कानि साधनानि भवन्ति।। (समाधानभाष्यम्) भावः कर्ता च।। (प्रत्याक्षेपभाष्यम्) अथ कर्म। (प्रत्याक्षेपसमाधानभाष्यम्) नास्ति कर्म।। (आक्षेपभाष्यम्) ननु चायमिषिः सकर्मकः, यस्यायमर्थे क्यज्विधीयते।। (आक्षेपपरिहारभाष्यम्) अभिहितं तत्कर्मान्तर्भूतं धात्वर्थः संपन्नः, न चेदानीमन्यत्कर्मास्ति येन सकर्मकः स्यात्।। (आक्षेपभाष्यम्।) कथं तर्ह्ययं, सकर्मको भवति ‐ - -अपुत्रं पुत्रमिवाचरति पुत्रीयति माणवकमिति।। (आक्षेपपरिहारभाष्यम्) अस्त्यत्र विशेषः ‐ - द्वे ह्यत्र कर्मणी ‐ - उपमानकर्मोपमेयकर्म च, उपमानकर्मान्तर्भूतम्, उपमेयेन कर्मणा सकर्मको भवति। तद्यथा ‐ - अपि काकः श्येनायते इति। अत्र द्वौ कर्तारौ। उपमानकर्ता उपमेयकर्ता च। उपमानकर्तान्तर्भूतः, उपमेयकर्त्रा सकर्तृको भवति।। (आक्षेपभाष्यम्) अयं तर्हि कथं सकर्मको भवति ‐ - -मुण्डयति माणवकमिति?।। (आक्षेपपरिहारभाष्यम्) अत्रापि द्वे कर्मणी सामान्यं, कर्म, विशेषकर्म च। सामान्यं कर्मान्तर्भूतम्, विशेषकर्मणा सकर्मको भवति।। (आक्षेपभाष्यम्) ननु च वृत्त्यैवात्र न भवितव्यम्। किं कारणम्?। असार्मथ्यात्। कथमसार्मथ्यम्?। सापेक्षमसमर्थं भवतीति।। (समाधानभाष्यम्) नैष दोषः। नात्रोभौ करोतियुक्तौ मुण्डो माणवकश्च। नहि माणवकत्वं क्रियते।। यदा चोभौ करोतियुक्तौ भवतः, न भवति तदा वृत्तिः। तद्यथा। बलीवर्दे करोति मुण्डं चैनं करोतीति।। (आक्षेपभाष्यम्) कामं तर्ह्यनेनैव हेतुना क्यजपि कर्तव्यः ‐ - माणवकं मुण्डमिच्छतीति। नोभविषियुक्ताविति।। (आक्षेपपरिहारभाष्यम्) न कर्तव्यः। उभावत्रेषियुक्तौ मुण्डो माणवकश्च। कथम्?। न ह्यसौ मौण्ड्यमात्रेण संतोषं करोति माणवकस्थमसौ मौण्ड्यमिच्छति। (आक्षेपभाष्यम्) इहापि तर्हि न प्राप्नोति मुण्डयति माणवकमिति। अत्रापि ह्युभौ करोतियुक्तौ मुण्डो माणवकश्च। न ह्यसौ मौण्ड्यमात्रेण संतोषं करोति। किं तर्हि?। माणवकस्थमसौ मौण्ड्यं निर्वर्तयति।। (समाधानभाष्यम्) एवं तर्हि मुण्डादयो गुणवचनाः। गुणवचनाश्च सापेक्षाः। तत्र वचनात्सापेक्षाणां वृत्तिर्भविष्यति।। (समाधानभाष्यम्) अथ वा धातव एव मुण्डादयः। न चैव ह्यर्था आदिभ्यन्ते क्रियावचनता च गम्यते।। (समाधानभाष्यम्) अथ वा नेदमुभयं युगपद्भवति वाक्यं च प्रत्ययश्च। यदा वाक्यम्, न तदा प्रत्ययः। तदा प्रत्ययः, सामान्येन तदा वृत्तिर्भवति। तत्रावश्यं विशेषार्थिना विशेषोऽनुप्रयोक्तव्यः। मुण्डयति कम्, माणवकमिति।। मुण्डविशिष्टेन वा करोतिना तमाप्तुमिच्छति।। (समाधानभाष्यम्) अथ वोक्तमेतत् ‐ - -नात्र व्यापारोऽनुगन्तव्यः गमकत्वादिह वृत्तिर्भविष्यति मुण्डयति माणवकमिति।। सदपीच्छाक्यचः कर्म तदाचारक्यचा हृतम्। वाक्यवाच्यमतोऽव्यक्तेर्यथाभ्यासः क्रमादिष्विति।। (आक्षेपभाष्यम्) अथेह क्यचा भवितव्यम् ‐ - इष्टः पुत्रः इष्यते पुत्रः?।। (समाधाने मतान्तरभाष्यम्) केचित्तावदाहुः ‐ - न भवितव्यमिति। किं कारणम्?। स्वशब्देनोक्तत्वात्।। (मतान्तरेण समाधानभाष्यम्) अपर आहुः ‐ - -भवितव्यमिति।। किं कारणम्?। धात्वर्थेयं क्यज्विधीयते। स च धात्वर्थः केनचिदेव शब्देन निर्देष्टव्य इति। (सिद्धान्तिसमाधानभाष्यम्) इहभवन्तस्तावदाहुः ‐ - न भवितव्यमिति। किं कारणम्?। समानार्थेन वाक्येन भवितव्यं प्रत्ययान्तेन च। यश्चेहार्थो वाक्येन गम्यते ‐ - ‐ इष्टः पुत्रः इष्यते पुत्र इति। नासौ जातुचित्प्रत्ययान्तेन गम्यते।। (1735 आपत्तिनिवारणवार्तिकम्।। 3 ।।) - क्यचिमान्ताव्ययप्रतिषेधः- (भाष्यम्) क्यचि मान्ताव्ययानां प्रतिषेधो वक्तव्यः इह मा भूत् ‐ - इदमिच्छति। किमिच्छति। उच्चैरिच्छति। नीचैरिच्छतीति।। (परिगणनेनापत्तिवारणवार्तिकम्) - गोसमानाक्षरनान्तात्- इत्येके वक्तव्यमित्याहुः। (गो) गामिच्छति गव्यति। समानाक्षर ‐ - घटीयति दधीयति मधूयति कर्त्रीयति। नान्तात् ‐ - ‐ राजीयति तक्षीयति।। सुप आत्मनः।। 8 ।।