Page loading... Please wait.
3|1|74 - श्रुवः शृ च
॥ तस्मै पाणिनये नमः ॥
3|1|74
SK 2386
श्रुवः शृ च   🔊
सूत्रच्छेदः
श्रुवः (षष्ठ्येकवचनम्) , शृ (लुप्तप्रथमान्तनिर्देशः)(अव्ययम्)
अनुवृत्तिः
सार्वधातुके  3|1|67 (सप्तम्येकवचनम्) , कर्त्तरि  3|1|68 (सप्तम्येकवचनम्) , श्नुः  3|1|73 (प्रथमैकवचनम्)
अधिकारः
प्रत्ययः  3|1|1 परश्च  3|1|2 आद्युदात्तश्च  3|1|3 धातोः  3|1|22
सम्पूर्णसूत्रम्
कर्त्तरि सार्वधातुके श्रुवः धातोः परः श्नुः प्रत्ययः, शृः च
सूत्रार्थः
सार्वधातुके कर्तरि प्रत्यये परे श्रु-धातोः परः श्नु-प्रत्ययः , तथा श्रु-धातोः शृ-आदेशः विधीयते ।
श्रु श्रवणे अयम् भ्वादिगणस्य धातुः । अस्मात् धातोः कर्तरि शप् 3|4|68 इत्यनेन कर्तरि सार्वधातुके प्रत्यये परे औत्सर्गिकरूपेण शप्-प्रत्यये प्राप्ते वर्तमानसूत्रेण तस्य अपवादरूपेण श्नु-प्रत्ययः विधीयते । तथा च, श्रु-धातोः "शृ" अयम् आदेशः अपि भवति । (स्मर्तव्यम् - श्रु = श् + र् + उ । शृ = श् + ऋ ) ।

उदाहरणम् - श्रु-धातोः लट्-लकारस्य प्रथमपुरुषैकवचनस्य प्रक्रियायाम् -
श्रु + लट् [वर्तमाने लट् 3|2|123 इति लट्-लकारः]
→ श्रु + तिप् [तिप्तस्झि.. 3|4|78 इत्यनेन प्रथमपुरुषैकवचनस्य विवक्षायाम् "तिप्" प्रत्ययः]
→ शृ + श्नु + ति [सार्वधातुके प्रत्यये परे श्रुवः शृ च 3|1|74 इत्यनेन श्नु-प्रत्ययः, तथा श्रु-इत्यस्य शृ-आदेशः ]
→ शृ नो ति [सार्वधातुकार्धधातुकयोः 7|3|84 इति उकारस्य गुणः ओकारः]
→ शृणोति । [ इत्यनेन णत्वम् ]

ज्ञातव्यम् - श्रु-धातोः शृ-आदेशः केवलं सार्वधातुके प्रत्यये परे कर्तरि प्रयोगे एव भवति, नान्यथा । यथा -
1) कर्मणि प्रयोगे लट्-लकारस्य प्रथमपुरुषैकवचनम् - श्रूयते । अत्र अयं आदेशः न भवति ।
2) "क्त्वा" इति आर्द्धधातुके प्रत्यये परे अपि अयम् आदेशः न भवति । श्रु + क्त्वा = श्रुत्वा ।
One-line meaning in English
In presence of a सार्वधातुक प्रत्यय in the कर्तरि प्रयोग, the verb श्रु is converted to शृ and it gets the श्नु विकरणप्रत्यय.
काशिकावृत्तिः
श्रुवः श्नुप्रत्ययो भवति, तत्संनियोगेन श्रुवः शृ इत्ययम् आदेशो भवति। शृणोति, शृणुतः, शृ̄ण्वन्ति।
Text Unavailable. Please use feedback link below to provide the text if you have.
Text Unavailable. Please use feedback link below to provide the text if you have.
सिद्धान्तकौमुदी
श्रुवः शृ इत्यादेशः स्यात् श्नुप्रत्यश्च शब्विषये । शपोऽपवादः श्नोर्ङित्त्वादद्धातोर्गुणो न । शृणोति । शृणुतः ॥
श्रुवः शृ च - श्रुवः शृ च । "शृ" इति लुप्तप्रथमाकम् । चकारेणस्वादिभ्यः श्नु॑रिति सूत्रस्थः श्नुः समुच्चीयते । तदाह — श्रुवः शृ इत्यादेशः स्यात् श्नुप्रत्ययश्चेति । शपोऽपवाद इति । अनेन शब्विषये कत्र्रर्थसार्वधातुक एवास्य प्रवृत्तिः सूचिता । श्नोर्हित्त्वादिति ।सार्वधातुकमपि॑दित्यनेनेति भावः । शृणोतीति । तिपमाश्रित्य श्नोर्गुणः । तसादीनं ङित्त्वात् श्नोर्न गुणः । तदाह — शृणुत इति ।
श्रुवः शृ च - श्रुवः शृ च । यद्ययं श्रुधातुः स्वादौ पठएत तर्हि चकारो न कर्तव्य इति लाघवमित्याहुः ।
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
Text Unavailable. Please use feedback link below to provide the text if you have.