`असरत्` इति। `ऋदृशोऽङि गुणः`
7|4|16 । `अशिषत्` इति। `शास इदङ्हलोः`
6|4|34 इतीत्त्वम्, `शासिवसि`
8|3|60 इति षत्वम्। `आरत्` इति। पूर्ववद् गुणः, अजादित्वादाट्, सवर्णदीर्घः।`पृथक` इत्यादि। यदि `पुषादिद्युताद्लृदित्सर्त्तिशास्त्यसर्तिभ्यश्च` इत्येकयोग एव क्रियेत; सर्त्तिप्रभृतिभ्य परस्मैपद एव स्यात्, नात्मनेपदे। तस्मादेभ्य एवात्मनेपदेऽपि यथा स्यादित्येवमर्थं पृथग्योगकरणम्। `समरन्त` इति। सम्पूर्वादर्त्तेः `समो गमि`
1|3|29 इत्यादिनात्मनेपदम्। `बहुलं छन्दस्यमाङयोगेऽपि`
6|4|75 इत्यडागमाभावः; छान्दसत्वादयस्य प्रयोगस्य। ननु च यद्यात्मनेपदेष्वङ भवत्येव, तत् किं परस्मैपदेष्वित्यनुकर्षणार्थेन चकारेणेत्याह-- `तच्च` इत्यादि। तदिति परस्मैपदेष्वित्येतदपेक्षते। `उत्तरत्रोपयोगं यास्यति` इति। न त्विहैवोपयोगं याति; अन्यथा पृथग्योगकरणमनर्थकं स्यात्॥