॥ तस्मै पाणिनये नम: ॥
Page loading... Please wait.
3|1|55
SK 2343
3|1|55
पुषादिद्युताद्यॢदितः परस्मैपदेषु   🔊
SK 2343
सूत्रच्छेद:
पुषादि-द्युतादि-ऌदितः - पञ्चम्येकवचनम् , परस्मैपदेषु - सप्तमीबहुवचनम्
अनुवृत्ति:
अङ्  [3|1|52] - प्रथमैकवचनम् , च्ले:  [3|1|44] - षष्ठ्येकवचनम्
अधिकार:
प्रत्यय:  [3|1|1] , परश्च  [3|1|2] , आद्युदात्तश्च  [3|1|3] , धातो:  [3|1|22]
सम्पूर्णसूत्रम्
पुषादि-द्युतादि-ऌदितः च्ले: परस्मैपदेषु अङ्
सूत्रार्थ:
पुषादिगणस्य धातुभ्यः परस्य , द्युतादिगणस्य धातुभ्यः परस्य तथा ऌदित-धातुभ्यः परस्य च्लि-इत्यस्य परस्मैपदस्य प्रत्यये परे अङ्-आदेशः भवति ।
लुङ्लकारस्य विषये धातोः च्लि लुङि 3|1|43 इत्यनेन च्लि-विकरणप्रत्ययः भवति । अस्य प्रत्ययस्य च्लेः सिच् 3|1|44 इत्यनेन औत्सर्गिकरूपेण सिच्-आदेशः विधीयते । परन्तु परस्मैपदस्य प्रत्ययेषु परेषु पुषादिगणस्य धातुभ्यः परस्य , द्युतादिगणस्य धातुभ्यः परस्य तथा ऌदित-धातुभ्यः परस्य च्लि-इत्यस्य अनेन सूत्रेण "अङ्" आदेशः विधीयते । क्रमेण पश्यामः -

1) पुषादिगणः - दिवादिगणे "पुषादि"नाम अन्तर्गणः अस्ति, यस्मिन् आहत्य 62 धातवः सन्ति । एतेषां सर्वेषाम् विषये अस्य सूत्रस्य प्रसक्तिः अस्ति ।
अस्य गणस्य विषये द्वौ विशेषौ ज्ञातव्यौ -
अ) तृप् तथा दृप् - एतौ द्वौ धातू पुषादिगणे स्तः, परन्तु अनेन सूत्रेण एतयोः परस्य च्लि-प्रत्ययस्य विकल्पेन एव अङ्-आदेशः भवति । पक्षे च्लेः सिच् 3|1|44 इति सिच्-आदेशः भवति ।
आ) "श्लिष्" अयं धातुः पुषादिगणे अस्ति, परन्तु "आलिङ्गनम्" अस्मिन् अर्थे अस्मात् परस्य च्लि-इत्यस्य श्लिष आलिङ्गने 3|1|46 इत्यनेन "क्स" प्रत्ययः भवति । अन्येषु अर्थेषु तु वर्तमानसूत्रेण अङ्-आदेशः एव विधीयते ।

यथा, पुष्-धातोः लुङ्लकारस्य प्रथमपुरुषैकवचनस्य प्रक्रिया -
पुष् + लुङ् [लुङ् 3|2|110 इति लुङ्]
→ पुष् + च्लि + ल् [च्लि लुङि3|1|43 इति च्लि-विकरणप्रत्ययः]
→ पुष् + अङ् + ल् [लिपिसिचिह्वश्च 3|1|53 इति च्लि-इत्यस्य अङ्-आदेशः]
→ अट् + पुष् + अ + ल् [लुङ्लङ्लृङ्क्ष्वडुदात्तः 6|4|71 इति अडागमः]
→ अ + पुष् + अ + तिप् [तिप्तस्.. 3|4|78 इति प्रथमपुरुषैकवचनस्य प्रत्ययः]
→ अ + पुष् + अ + त् [इतश्च 3|4|100 इति इकारलोपः]
→ अपुषत्

2) द्युतादिगणः - भ्वादिगणे "द्युतादिगण" नाम अन्तर्गणः अस्ति, यस्मिन् आहत्य 14 धातवः सन्ति । एतेषां सर्वेषाम् विषये अस्य सूत्रस्य प्रसक्तिः अस्ति । अस्य गणस्य विषये एकः विशेषः स्मर्तव्यः - अस्य गणस्य सर्वे धातवः आत्मनेपदिनः सन्ति । तथापि द्युद्भ्यो लुङि 1|3|91 इत्यनेन एते सर्वे लुङ्-लकारस्य विषये विकल्पेन परस्मैपदिनः अपि भवन्ति । अस्यां स्थितौ एतेभ्यः परस्य च्लि-प्रत्ययस्य अङ्-आदेशः भवति । यथा -
द्युत् + लुङ् [लुङ् 3|2|110 इति लुङ् । द्युद्भ्यो लुङि 1|3|91 इति वैकल्पिकम् परस्मैपदम्]
→ द्युत् + च्लि + ल् [च्लि लुङि3|1|43 इति च्लि-विकरणप्रत्ययः]
→ द्युत् + अङ् + ल् [लिपिसिचिह्वश्च 3|1|53 इति च्लि-इत्यस्य अङ्-आदेशः]
→ अट् + द्युत् + अ + ल् [लुङ्लङ्लृङ्क्ष्वडुदात्तः 6|4|71 इति अडागमः]
→ अ + द्युत् + अ + तिप् [तिप्तस्.. 3|4|78 इति प्रथमपुरुषैकवचनस्य प्रत्ययः]
→ अ + द्युत् + अ + त् [इतश्च 3|4|100 इति इकारलोपः]
→ अद्युतत्

3) येषु धातुषु ऌकारः इत्संज्ञकः अस्ति, ते सर्वे ऌदित-धातवः नाम्ना ज्ञायन्ते । धातुपाठे एतादृशाः 14 धातवः सन्ति । एतेषु येभ्यः परस्मैपदस्य प्रत्ययाः विधीयन्ते, तेषां विषये अस्य सूत्रस्य प्रसक्तिः अस्ति । यथा -

गम् + लुङ् [लुङ् 3|2|110 इति लुङ् । द्युद्भ्यो लुङि 1|3|91 इति वैकल्पिकम् परस्मैपदम्]
→ गम् + च्लि + ल् [च्लि लुङि3|1|43 इति च्लि-विकरणप्रत्ययः]
→ गम् + अङ् + ल् [लिपिसिचिह्वश्च 3|1|53 इति च्लि-इत्यस्य अङ्-आदेशः]
→ अट् + गम् + अ + ल् [लुङ्लङ्लृङ्क्ष्वडुदात्तः 6|4|71 इति अडागमः]
→ अ + गम् + अ + तिप् [तिप्तस्.. 3|4|78 इति प्रथमपुरुषैकवचनस्य प्रत्ययः]
→ अ + गम् + अ + त् [इतश्च 3|4|100 इति इकारलोपः]
→ अगमत्

ज्ञातव्यम् - अस्य सूत्रस्य प्रसक्तिः केवलम् परस्मैपदस्य प्रत्ययेषु परेषु अस्ति इति स्मर्तव्यम् । आत्मनेपदेषु तु च्लेः सिच् 3|1|44 इत्यनेन सिच्-आदेशः एव विधीयते ।
One-line meaning in English
For the verbs of पुषादिगण and द्युतादिगण, as well as for the ऌदित verbs, च्लि is converted to अङ् when followed by a प्रत्यय of परस्मैपद.
काशिकावृत्तिः
द्युतादिभ्यश्च धातुभ्यः परस्य च्लेः परस्मैपदेषु परतः अङादेशो भवति। पुषादिर् दिवाद्यन्तर्गणो गृह्यते, न भ्वादिक्र्याद्यन्तर्गणः। पुष अपुषत्। द्युतादि अद्युतत्। अश्वितत्। ल्̥दिद्भ्यःगम्ल्̥ अगमत्। शक्ल्̥ अशकत्। परस्मैपदेसु इति किम्? व्यद्योतिष्ट। अलोटिष्ट।
लृकार इद्येषां ते लृदितः। पुषादिरस्त्येव भावाद्यन्तर्गणः-- पुष पुष्टौ` (धातुपाठः-700) श्रिषु श्लिषु प्रुषु प्लुषु दाहे` (धातुपाठः-701-704) इत्येवमादिः, अस्ति च दिवाद्यन्तर्गणः--`पुष पुष्टौ` (धातुपाठः-1182), `शुष शोषणे` (धातुपाठः-1183) इत्येवमादिः, अस्ति च क्र्याद्यन्तर्गणः-- पुष पुष्टौ` (धातुपाठः-1529), `मुष स्तेये` (धातुपाठः-1530) इत्येवमादिः, तदिह कस्य ग्रहणमित्याह-- `पुषादिर्दिवाद्यन्तर्गणः` इत्यादि। यदि भ्वाद्यन्तर्गणो गृह्रते, पुषाद्यनन्तरं द्युतादीनां पाठात् पृथग्ग्रहणं न कुर्यात्; पुषादिग्रहणेनैव गृहीतत्वात्, तस्मात् स तावन्न गृह्रते। क्र्याद्यन्तर्गणोऽपि नैव गृह्रते, तत्र हि चत्वार एव पठन्ते धातवः-- पूर्वोक्तौ द्वौ `खच भूतप्रादुर्भावे` (धातुपाठः-1531), `ग्रह उपादाने` (धातुपाठः-1533) इत्येतौ, यदि चैते जिघृक्षिताः स्यर्लृदित यएवैतान् कुर्यात्, एवं पुषादिग्रहणं न कत्र्तव्यं भवति। तस्मात् पारिशेष्याद् दिवाद्यन्तर्गणानां पुषादीनां ग्रहणं विज्ञायते। अथ पुषादय लृदितः कस्मान्न कृताः? न; न हि ते लृदितः शक्यन्ते कर्त्तुम्। लृदित्वे हि तेषां उदित आदितश्च पठयन्ते तेषाम् `उदितो वा` 7|2|56 `आदितश्च` 7|2|16 इत्येतयोः कार्ययोरभावः स्यात्। अथ द्युतादयः कस्मात् लृदितो न कृताः? यत एव हेतोः पुषादय लृदितो न कृतास्तत एव द्युतादयश्च। तेष्वपि हि केचिदुदित आदितश्च पठन्ते। तत्र पुषादय आदिवादि परिसमाप्तेः। यत्तु `ष्णिह प्रीतौ` (धातुपाठः-1200) इत्यनन्तरं वृदिति वृत्करणं तद् रवादीनां परिसमाप्त्यर्थम्, न पुषादीनामित्याचार्याणां स्मृतिः। द्युतादयस्तु `कृपू सामर्थ्ये` (धातुपाठः-762) इत्येवंपर्यन्ताः, तदनन्तरं वृत्; `घट चेष्टायाम्` (धातुपाठः-763) इति वृत्करणात्। `अद्युतत्` इति। `द्युद्भ्यो लुङि` 1|3|91 इति पक्षे परस्मैपदम्। `अआतत्` इति। इआता वर्णे` (धा।पा॥742)। `अगमत्, अशकत्` इति। `गम्लृ गतौ` (धातुपाठः-982), `शक्लृ शक्तौ` (धातुपाठः-1261)। `व्यद्योतिष्ट` इति। अनुदात्तेत्त्वादात्मनेपदम्। `अलोटिष्ट` इति। `रुट लुट् प्रतीघाते` (धातुपाठः-747,748)॥
पुषादिद्यौताद्य्लृदितः परस्मैपदेषु॥ एकेनैवादिशब्देन प्रत्येकं सम्बन्धादेव सिद्धे द्वयोरुपादानं चिन्त्यप्रयोजनम्। दिवाद्यन्तर्गण इति। ठ्पुष पुष्टौऽ ठ्शुष शोषणोऽ इत्येवमादिरा गणसमाप्तेः। यतु मध्ये ठ्ष्णिह प्रीतौ वृत्ऽ इति वृत्करणं तद्रधादिपरिसमाप्त्यर्थम्। एतच्च ठस्यतिग्रहणमात्मनेपदार्थ पुषादित्वात्ऽ इति वार्तिकारवचनाद्विज्ञायते। न भूवादिरिति। ठ्पुष पुष्टौऽ,ठ्श्रिषु श्लिषु प्रुषु प्लुषु दाहेऽ इत्येवमादिः, अस्य यदि ग्रहणं स्यात्पुषाद्यनन्तरं पाठाद् द्यौतादीनां पृथग्ग्रहणं न कुर्यात्। र्क्याद्यन्तर्गणो वेति। ठ्पुष पुष्टौऽ ठ्मुष स्तेयेऽ इत्येवमादिः। तत्र हि चत्वार एव पठ।ल्न्ते, तत्र यदि ते जिघृक्षिताः स्युर्लृदित एव तान् कुर्यात्; स्वरितेत्वादेरपि नेनैव सिद्धत्वात्। अथ पुषादयो द्यौतादयश्च लृदित एव कस्मान्न पठिताः? अशक्यस्ते तथा पठितुम्; आदितामौदितामुदितामूदितां च तत्र भावात्। तद्यथा---पुषादिषु तावत् ठ्ञिष्विदा गात्रप्रक्षरणेऽ,ठ्मदी हर्षेऽ,ठ्समु उपशमनेऽ,ठ्षिधू राद्धौऽ इति; द्यौतादिष्वपि ठ्श्विता वर्णेऽ,ठ्ञिमिदा स्नेहनेऽ ठ्ञिक्ष्विदा स्नेहविमोचनयोःऽ,ठ्स्रंसु ध्वंसु भ्रंसु अवस्रंसनेऽ ठ्स्यन्दू प्रस्रवणेऽ ठ्कृपू सामर्थ्येऽ इति। अद्युत्, अश्वितदिति। ठ्द्यौद्भ्यो लुङ्ऽ ईति पक्षे परस्मैपदम्। अलोटिष्टेति। ठ्लुट लुठ प्रतिघातेऽ॥
सिद्धान्तकौमुदी
श्यन्विकरणपुषादेर्द्युतादेर्लृदितश्च परस्य च्लेरङ स्यात्परस्मैपदेषु । अघसत् । 716 जर्ज 717 चर्च 718 झर्झ परिभाषणहिंसातर्जनेषु 719 पिसृ 720 पेसृ गतौ । पिपिसतुः । पपेसतुः । 721 हसे हसने । एदित्त्वान्न वृद्धिः । अहसीत् । 722 णिश समाधौ । तालव्योष्मान्तः । प्रणेशति । 723 मिश 724 मश शब्दे रोषकृते च । तालव्योष्मान्तौ । 725 शव गतौ । दन्तयोष्ठ्यान्तस्तालव्योष्मादिः । शवति । अशवीत् । अशावीत् । 726 शश प्लुतगतौ । तालव्योष्माद्यन्तः । शशाश । शेशतुः । शेशुः । शेशिथ । 727 शसु हिंसायाम् । दन्त्योष्मान्तः । न शसदद--(कौमुदी-2263) इत्येत्त्वं न । शशसतुः । शशसुः । शशसिथ । 728 शंसु स्तुतौ । अयं दुर्गतावपीति दुर्गः । नृशंसो घातुकः क्रूर इत्यमरः । शशंस । आशिषि नलोपः । शस्यात् । 729 चह परिकल्कने । कल्कनं शाठ्यम् । अचहीत् । 730 मह पूजायाम् । अमहीत् । 731 रह त्यागे 732 रहि गतौ । रंहति । रंह्यात् । 733 दृह 734 दृहि 735 बृह 736 बृहि वृद्धौ । दर्हति । ददर्ह । ददृहतुः । दृंहति । बर्हति । बृंहति । बृहि शब्दे च । बृंहितं करिगर्जितम् । बृहिर् इत्येके । अबृहत् । अबर्हीत् । 737 तुहिर् 738 दुहिर् 739 उहिर् अर्दने । तोहति । तुतोह । अतुहत् । अतोहीत् । दोहति । दुदोह । अदुहत् । अदोहीत् । अनिट्कारिकास्वस्य दुहेर्ग्रहणं नेच्छन्ति । ओहति । उवोह । ऊहतुः । ओहिता । माभवानुहत् । औहीत् । 740 अर्ह पूजायाम् । आनर्ह ॥ अथ कृपूपर्यान्ता अनुदात्तेतः ॥ 741 द्युत दीप्तौ । द्योतते ॥
पुषादिद्युताद्यॢदितः परस्मैपदेषु - लुङि च्लेः सिचि प्राप्ते — पुषादि ।च्लेः सि॑जित्यतः च्लेरिति,अस्यतिवक्तिख्यातिभ्यः॑ इत्यतोऽङिति चानुवर्तते । पुषादि द्युतादि लृदित् एषां समाहारद्वन्द्वत्पञ्चमी । तत्र पुषधातुस्तु भ्वादौ क्र्यादौ चुरादौ दिवादौ चास्ति । तत्र यदि भौवादिकः पुषादिगमो गृह्रेत तर्हि द्युतादिग्रहणमनर्थकं स्यात्, पुषादिगणोत्तरमेवात्र द्युतादिगणपाठात् । नापि क्र्याद्यन्तर्गणः । तत्र ह "मुष स्तेये"खच भूतप्रादुर्भावे॑ "हेठ च " "ग्रह उपादाने" इति चत्वार एव पठन्ते । यदि त एवात्र पुषादयो विवक्षिताः स्युत्ततर्हि लाघवात् लृदित एव ते क्रियेरन् । नाप्यत्र चौरादिकः पुषादिर्गृह्रते, णिचा च्लेव्र्यवहितत्वात् । अतः परिशेषाद्दिवाय एव गृह्रन्ते । तदाह — श्यन्विकरमेति । जर्ज चर्च झर्झेति । एतेषां चवर्गीयान्तेष्वेव पाठ उचितः । हसे हसन इति । एदिदयम् । न वृद्धिरिति ।ह्म्यन्तेत्यनेने॑ति शेषः । णिश समाधाविति । णोपदेशत्वनादुपसर्गादसमासेऽपीति नस्य णत्वम् । तदाह — प्रणेशतीति ।शसु हिंसाया॑मित्यतः प्राक् शकारान्ताः । शवतिस्तु वान्तः । शंस्विति । नोपधः । कृतानुस्वारस्य निर्देशः । "चह परिकल्पने" इत्यारभ्य अर्हतिपर्यन्ता हकारान्ताः । रह त्यागे इति । न#आऽयमिदित् । रहि गताविति । अयमिदित् । दृह दृहीति । ऋदुपधा एते । द्वितीयचतुर्थाविदितौ । अवृहत् । अवर्हीदिति । इरित्त्वादङ्विकल्प इति भावः । उवोहेति । उहिधातोर्लिटि द्वित्वे हलादिशेषे पुगन्तलक्षणे गुणे "अभ्यासस्यासवर्णे" इत्युवङ् । मा भवानुहदिति । इरित्त्वादङि रूपम् । औहीदिति । अङभावपक्षे च्लेः सिचि तस्य इटि "अस्तिसिचः" इति तकारस्य ईटिइट ईटी॑ति सिचो लोपेआडजादीना॑मिति आटि वृद्धिः । माङ्योगे तु मा भवानुहीत् । आनर्हेति । "अत आदेः" इति दीर्घे नुट् । कृपूपर्यन्ता इति ।द्युते॑त्यारभ्य कृपूपर्यन्ता इत्यर्थः ।
पुषादिद्युताद्यॢदितः परस्मैपदेषु - पुषादिद्युता । पुष धातुर्भ्वादौ दिवादौ क्र्यादौ चुरादौ च पठते । यदि तुपुष पुष्टा॑ विति भौवादिकधातुमारभ्य पुषादिगणो गृह्रेत तदा द्युतादिग्रहणमनर्थकं भवेत्, पुषेरुत्तरत्र द्युतादीनां पाठात् । नापि क्राद्यन्तर्गणः, तत्र हि पुषधातोरग्रेमुष स्तेये॑,खच भूतप्रादुर्भावे॑हेठ च॑ग्रह उपादाने॑ इति चत्वार एव पठन्ते । यदि तु त एव जिघृक्षिताः स्युस्तर्हि लाघवाल्लृदित एव क्रियेरन् । ग्रहेः स्वरितेत्त्वेऽपि लृकारेणैव तन्निर्वाहादनेकानुबन्धासङ्गगौरवशङ्काया अप्यभावात् । नापि चुरादिः, णिचा व्यवधानेन ततोऽन्यतरस्य च्लेरसंभवात् । अतः परिशेषाद्दिवादय एव गृह्रन्त इत्याह — श्यन्विकरणपुषादेरिति । केचित्तुदिवाद्यन्तर्गत एव पुषादिर्गृह्रते, व्याख्यानादित्याहुः । चुरादीनां सर्वेषां णिज्वकल्प इति पक्षे चौरादिकपुषादेरपि परः च्लिः संभवतीति तेषामाशयः ।नन्दिग्रहिपचादिभ्यः॑ इतवत्पुषद्युताद्यलृदितः॑ इति सूत्रयितुमुचितम् । ननु पुषादयो द्युतादयश्च लृदित एव कुतो न कसृता इति चेत् । अत्राहुः — निरनुबन्धेषु सानुबन्धेषु च प्रत्येकं लृकारपाठे विपरीत गौरवं स्यात् । न च अनुबन्धान्तरस्य यत्प्रयोजनमात्मनेपदं तत्तु लृदित्करण#एऽपि सिध्यतीत्यनेकानुबन्धासङ्गगौरवदोषो नास्तीत्यपि शङ्क्यम् । आदितामीदितामूदितां च तेषु सत्त्वात्लृकारेण तत्तत्कार्यामामनिर्वाहादनेकानुबन्धासङ्गगौरवस्य दुर्निवारत्वादिति । जर्ज चर्च झर्झ । एषां परिभाषणादिभिः सह यथासङ्ख्यं नास्ति, व्याख्यानादित्याहुः । परिभाषणं सनिन्दोपालम्भः । त्रयाणामपि चवर्गीयान्तेषु पाठ उचितो, न त्विहोष्मान्तेषु । णिश समाधौ । समाधिः — अन्तः करणनिरोधः । प्रणेशतीति ।उपसर्गादसमासेऽपीति णत्वम् । रोषकृते चेति । चकारात्समादौ । शश प्लुतगतौ ।नशसददे॑ति प्रतिषेधसूत्रे सान्तस्य ग्रहणमित्यभिप्रेत्य व्याचष्टे — शेशतुरिति । प्राचा तुशशशतु॑रित्युक्तं , तदयुक्तमिति भावः । अचहीदिति ।हयन्ते॑ति न वृद्धिः । रह त्यागे । अयं कथादावपि ।ज्ञप मिच्चे॑ ति मित्प्रकरणेऽप्ययमेकीयमतेन पठितः । नेच्छन्तीति । व्याख्यानमेवात्रावलम्बनम् । माभवानुहदिति ।न माङ्योगे॑ इत्याडभावः ।इरितो वे॑त्यङ्वा । अत द्युतादिः । द्युत दीप्तौ ।
लघुसिद्धान्तकौमुदी
श्यन्विकरणपुषादेर्द्युतादेरॢदितश्च च्लेरङ् परस्मैपदेषु। अगमत्। अगमिष्यत्॥इति परस्मैपदिनः।एध वृद्धौ॥ 1॥
महाभाष्यम्
Text Unavailable. If you can help in fixing this issue by providing this text, please let us know using the feedback link at the bottom of this page. Thank you!