॥ तस्मै पाणिनये नम: ॥
Page loading... Please wait.
3|1|46
SK 2514
3|1|46
श्लिष आलिङ्गने   🔊
SK 2514
सूत्रच्छेद:
श्लिषः - पञ्चम्येकवचनम् , आलिङ्गने - सप्तम्येकवचनम्
अनुवृत्ति:
क्सः  [3|1|45] - प्रथमैकवचनम् , च्लेः  [3|1|44] - षष्ठ्येकवचनम्
अधिकार:
प्रत्यय:  [3|1|1] , परश्च  [3|1|2] , आद्युदात्तश्च  [3|1|3] , धातो:  [3|1|22]
सम्पूर्णसूत्रम्
श्लिष: आलिङ्गने च्ले: क्स:
सूत्रार्थ:
"आलिङ्गनम्" अस्मिन् अर्थे प्रयुज्यमानात् श्लिष्-धातोः विहितस्य च्लि-प्रत्ययस्य क्स-आदेशः भवति ।
लुङ्लकारस्य विषये धातोः च्लि लुङि 3|1|43 इत्यनेन च्लि-विकरणप्रत्ययः भवति । अस्य प्रत्ययस्य च्लेः सिच् 3|1|44 इत्यनेन औत्सर्गिकरूपेण सिच्-आदेशः विधीयते । परन्तु यः धातुः अनिट् अस्ति, यस्य अन्ते शल्-प्रत्याहारस्य वर्णः अस्ति (इत्युक्ते - श्/ ष् / स् / ह् - एतेषु कश्चन वर्णः अस्ति) तथा उपधायाम् इक्-प्रत्याहारस्य वर्णः अस्ति (इत्युक्ते - इ, उ, ऋ, ऌ - एतेषु कश्चन वर्णः अस्ति), तस्मात् परस्य च्लि-विकरणस्य शल इगुपधादनिटः क्सः 3|1|45 इत्यनेन "क्स" आदेशः भवति । अनेन सूत्रेण "श्लिषँ" धातोः नित्यम् क्स-आदेशे प्राप्ते, वर्तमानसूत्रेण अपवादत्वेन केवलम् "आलिङ्गनम्" अस्मिन् अर्थे एव "श्लिषँ" धातोः क्स-आदेशः भवति । अन्येषु अर्थेषु (यथा - प्रत्यासत्तिः आदयः) क्स-आदेशः न विधीयते ।

श्लिष् + लुङ् [लुङ् 3|2|110 इति लुङ्]
→ श्लिष् + च्लि + ल् [च्लि लुङि 3|1|43 इति च्लि-विकरणप्रत्ययः]
→ श्लिष् + क्स + ल् [शल इगुपधादनिटः क्सः 3|1|45 इति क्स-आदेशः । कित्वात् क्ङिति च 1|2|5 इति लघूपधगुणनिषेधः ]
→ श्लिष् + स + ल् [ककारस्य लशक्वतद्धिते 1|3|8 इति इत्संज्ञा । तस्य लोपः 1|3|9 इति लोपः]
→ अट् + श्लिष् + स + ल् [लुङ्लङ्लृङ्क्ष्वडुदात्तः 6|4|71 इति अट्-आगमः]
→ अ + श्लिष् + स + तिप् [तिप्तस्.. 3|4|78 इति प्रथमपुरुषैकवचनस्य तिप्-प्रत्ययः]
→ अ + श्लिष् + स् + त् [इतश्च 3|4|100 इति इकारलोपः]
→ अ + श्लिष् + स + त् [षढोः क सि8|2|41 इति ककारः]
→ अ + श्लिष् + ष + त् [आदेशप्रत्यययोः 8|3|59 इति षत्वम्]
→ अश्लिक्षत्

ज्ञातव्यम् -
1. स्तुतः धातुपाठे त्रयः "श्लिष्" धातवः सन्ति - चुरादिगणस्य श्लिष् (श्लेषणे), दिवादिगणस्य श्लिष् (आलिङ्गने) , तथा भ्वादिगणस्य श्लिष् (दाहे) । परन्तु एतेषु चुरादिगणस्य तथा भ्वादिगणस्य धातू द्वौ अपि सेटौ स्तः, तथा च तयोः अर्थः "आलिङ्गने" इत्यपि नास्ति, अतः तयोः अत्र विमर्शः अपि न क्रियते ।
2. दिवादिगणस्य श्लिश्-धातोः विहितस्य "च्लि" इत्यस्य "आलिङ्गनम्" अर्थं विहाय अन्येषु अर्थेषु परस्मैपदे पुषादिद्युताद्यॢदितः परस्मैपदेषु 3|1|55 इत्यनेन अङ्-प्रत्ययः भवति, तथा आत्मनेपदेषु च्लेः सिच् 3|1|44 इत्यनेन सिच्-आदेशः भवति ।
3. कौमुद्यां दीक्षितः अस्य सूत्रस्य योगविभागं कृत्वा "श्लिषः" तथा "आलिङ्गने" इति सूत्रद्वयं कारयति । अस्य कारणम् सः वदति - शल इगुपधादनिटः क्सः 3|1|45 इत्यनेन "श्लिष्"-धातोः क्स-प्रत्यये प्राप्ते परत्वात् पुषादिद्युताद्यॢदितः परस्मैपदेषु 3|1|55 इत्यनेन अङ्-प्रत्ययः विधीयते, यतः श्लिष्-धातुः पुषादिगणे अस्ति । अस्य अपवादरूपेण "श्लिषः" इति नूतननिर्मितेन सूत्रेण श्लिष्-धातोः पुनः क्स-प्रत्ययः क्रियते ।
One-line meaning in English
When used with the meaning of "giving a hug", The च्लि-प्रत्यय that follows the verb root श्लिष् is converted to क्स.
काशिकावृत्तिः
श्लिषेः धातोः आलिङ्गनक्रियावचनात् परस्य च्लेः क्षः आदेशो भवति। आलिङ्गनम् उपगूहनं, परिष्वङ्गः। अत्र नियमार्थम् एतत्। आश्लिक्षत् कन्यां देवदत्तः। आलिङ्गने इति किम्? समाश्लिषज्जतु काष्ठम्।
Text Unavailable. If you can help in fixing this issue by providing this text, please let us know using the feedback link at the bottom of this page. Thank you!
श्लिष आलिङ्गने॥ श्लिपेर्धातोरिति। ठ्श्लिष आलिङ्गनेऽ इत्यस्य, न तु ठ्श्रिषु श्लिषु प्रुषु प्लुषु दाहेऽ इत्यस्य; आलिङ्गने वृत्यभावाद्, अनिट इति चाधिकारात्सानुबन्धकत्वाच्च। अत्र नियमार्थमेतदिति। ननु श्लिषिरयं पुषादिः, तथा च प्रत्युदाहरणे अङ् भवति, ततश्च पुषादिपाठात्प्रप्तमण्ंó बाधित्वाऽऽलिङ्गने क्सो यथा स्यादित्येवं विधिसम्भवान्नियमो नोपपद्यते। अस्तु विधिः, एवमप्यालिङ्गने क्सः, अन्यत्राङिति सिद्धमिष्टम्? सत्यम्; सिद्धं परस्मैपदे, आत्मनेपदे त्वङ्भावादालिङ्गनेऽनालिङ्गने च पूर्वेण क्सः प्राप्नोति, इष्यते च तत्राप्यालिङ्गने क्सोऽन्यत्र सिच्, तच्च नियमे सत्युपपद्यते। स च नियमो नोपपद्यते; विधेयभावात्? योग विभागात्सिद्धम्---ठ्श्लिषः इत्यको योगः श्लिषश्च क्सो भवति। किमर्थमिदम्? पुषाद्यङे बाधनार्थम्। यथैब तर्ह्यण्ंó बाधते तथा चिणमपि बाधेत---समाश्लेषि कन्या देवदतेनेति? ठ्पुरस्तादपवादा अनन्तरान्विधीन्बाधन्ते नोतरान्ऽ इति तत्रालिङ्गनेऽनालिङ्गने च श्लिषः क्सो भवति। इदमिदानीं किमर्थम्? नियमार्थम्---आलिङ्गन एव, नान्यत्र। योगविभागसामर्थ्याद्या च यावती च क्सस्य प्राप्तिः सा सर्वा नियम्यते, न त्वनन्तरस्य विधिर्वा भवतीति। श्लिष इति या प्राप्तिः, ङ्बाधनार्था सैव। एवमपि नियमो नोपपद्यते, कथम्? श्लिष इत्येतदङ्बाधनार्थम्। न च तदत्यन्तायाण्ंó बाधितुं प्रभवति; पुषादिपाठसामर्थ्यात्, ततश्चाङ्क्सयोः सर्वत्र विकल्पे प्राप्ते, द्वितीयो योगः-----आलिङ्गने क्स एव नित्यं यथा स्यान्मा कदाचिदङ् भूदित्येवमर्थः स्यात्, किं तर्ह्युच्यते---नियमो नोपपद्यते इति! ननु तत्रभवतापि मुखान्तरेण नियम एवोक्तः? एतावांस्तु विशेषुः----मया प्रत्ययनियम उक्तः---आलिङ्गन एव क्स इति, त्वया पुनरर्थनियमः---आलिङ्गने क्स एवेति, सर्वथा नियमान्न मुच्यामहे। तत्र लक्ष्यानुरोधाद्विधेयविभक्तिनिर्द्देशेन प्रधानत्वाद्वा प्रत्ययनियम एव भविष्यति॥
सिद्धान्तकौमुदी
(श्लिषः)स्मात्परस्यानिटश्च्लेः क्सः स्यात् । पुषाद्यङोऽपवादो न तु चिणः । पुरस्तादपवादन्यायात् ॥(आलिङ्गने) श्लिषश्च्लेरालिङ्गन एव क्सो नान्यत्र । योगविभागसामर्थ्याच्छल इगुपधादित्यस्याप्ययं नियमः । अश्लिक्षत्कन्यां देवदत्तः । आलिङ्गन एवेति किम् । समश्लिषज्जतु काष्ठम् । अङ् । प्रत्यासत्ताविह श्लिषिः । कर्मणि अनालिङ्गने सिजेव न तु क्सः । एकवचने चिण् । अश्लेषि । अश्लिक्षाताम् । अश्लिक्षत । अश्लिष्ठाः । अश्लिढ्वम् । 1187 शक विभाषितो मर्षणे । विभाषित इत्युभयपदीत्यर्थः । शक्यति । शक्यते हरिं द्रष्टुं भक्तः । शशाक । शेकिथ । शशक्थ । शेके । शक्ता । शक्ष्यति । शक्ष्यते । अशकत् । अशक्त । सेट्कोऽयमित्येके । तन्मतेनानिट्कारिकासु लृदित्पठितः । शकिता । शकिष्यति । 1188 ष्विदा गात्रप्रक्षरणे । घर्मस्रुतावित्यर्थः । अयं ञीदिति न्यासकारादयः । नेति हरदत्तादयः । स्विद्यति । सिष्वेद । सिष्वेदिथ । स्वेत्ता । अस्विदत् । 1189 क्रुध क्रोधे । क्रोद्धा । क्रोत्स्यति । 1190 क्षुध बुभुक्षायाम् । क्षोद्धा । कथं क्षुधित्त इति । संपदादिक्विबन्तात्तारकादित्वादितजिति माधवः । वस्तुतस्तु वसतिक्षुधोः--- (कौमुदी-3046) इतीट् वक्ष्यते । 1191 शुध शौचे । शुध्यति । शुशोध । शोद्धा । 1192 षिधु संराद्धौ । ऊदित्पाठः । प्रामादिकः । सिध्यति । सेद्धा । सेत्स्यति । असिधत् । 1193 रध हिंसासंराद्ध्योः । संरीद्धिर्निष्पत्तिः । रध्यति । रधिजभोरचि (कौमुदी-2302) इति नुम् । ररन्धतुः ॥
श्लिष आलिङ्गने - आलिङ्गने । "श्लिष" इति पूर्वसूत्रे यदनुवृत्तं तत्सर्वमिहानुवर्तते, श्लिष इति च । तथाच आलिङ्गने विद्यमानात् श्लिषेः परस्य च्लेः क्सः स्यादिति लभ्यते । "श्लिषः" इति पूर्वसूत्रेणैव सिद्धे नियमार्थमिदम् । तदाह — श्लिषश्च्लेरालिङ्गने एव क्सो नान्यत्रेति । नन्वयं नियमःअनन्तरस्येटति न्यायात् "श्लिष" इति सूत्रप्राप्तस्यैव स्यान्नतुशल इगुपधा॑दित्यस्यापीत्यत आह — शल इगुपधादित्यस्याप्ययं नियम इति । कुत इत्यत आह — योगविभागसमाथ्र्यादिति । यदि "श्लिष" इति प्राप्तएव क्स आलिङ्गन एव इति नियम्येत तर्हि योगविभागो व्यर्थः स्यात्, "श्लिष् आलिङ्गने" इत्येकसूत्रत्वे सत्यपि अनालिङ्गने क्सो नेत्यस्यार्थस्य सिद्धत्वात् । अतःशल इगुपधा॑दिति क्सोऽपि श्लिषेरालिङ्गने एव न त्वनालिङ्गनेऽपि इति नियमो विज्ञायत इत्यर्थः । अश्लिक्षत्कन्यां देवदत्त इति । आलिङ्गदित्यर्थः । अत्र पुषाद्यङं बाधित्वा अनेन क्सः । समाश्लिषज्जतु काष्ठमिति । जतु = लाक्षा । सा च काष्ठलग्नैवोत्पद्यते इति स्थितिः । जतु च काष्टं चेति समाहारद्वन्द्वः ।उपाश्लिषज्जतु काष्ठं चे॑त्येव भाष्यम् । अत्र श्लिषेरालिङ्गनार्थकत्वाऽभावान्न क्सः, किन्तु पुषाद्यङेवेति बावः । नन्वजादित्वाऽभावेन आडागमस्याऽसंभवात्समाश्लिषदित्ययुक्तमित्यत आह — आङिति । समाश्लिषदित्यत्र श्लिषेः प्रागाङुपसर्ग एव, न त्वाडागम इति भ्रमितव्यमित्यर्थः । नन्वालिङ्गनं समाश्लेषणं, तथा च समाश्लिषज्जतु काष्ठमित्यत्रापि श्लिषेरालिङ्गनार्थकत्वात्क्सो दुर्वार इत्यत आह — प्रत्यासत्ताविहेति । इह = समाश्लिषज्जतु काष्ठमित्यत्र, श्लिषिः प्रत्यासत्तौ = संयोगे वर्तते, नतु बाह्वादिना संवलनात्मकसंबन्धविशेषरूपे आलिङ्गने इत्यर्थः । नन्वालिङ्गने एव श्लिषश्च्लेः क्सो, न त्वनालिङ्गने इति नियमादनालिङ्गने "शल इगुपधा" दित्यपि क्सो न भवतीत्युक्तमयुक्तं, समाश्लिषज्जतु काष्ठमित्यत्राऽनालिङ्गनेशल इगुपधा॑दितक्सं बाधित्वा परत्वात्पुषाद्यङ एव प्राप्त्या क्सस्याऽप्रसक्तेरित्यत आह — - कर्मणीति । अनालिङ्गनवृत्तेः श्लिषधातोः कर्मणि लुङि च्लेः सिजेव भवति, न तु पुषाद्यङ्, तस्य परस्मैपदविषयत्वात्, कर्मणि लुङश्चभावकर्मणो॑रित्यात्मनेपदनियमात् । तस्य च "शल इगुपधा" दिति प्राप्तः क्स उक्तेन नियमेन अनालिङ्गनेऽपि वार्यते इति युक्तमित्यर्थः । यदुक्तम् — -आलिङ्गने श्लिषश्च्लेः क्सः पुषाद्यङ एवापवादो नतु चिण॑इति, तस्य प्रयोजनमाह — एकवचने चिणिति । तदेवोदाह्मत्य दर्शयति — अश्लेषीति । आलिङ्गिता कन्या देवदत्तेनेत्यर्थः । श्लिषेरालिङ्गनार्थकात्कर्मणि लुङिप्रथमैकवचने तशब्दे परेचिण भावकर्मणो॑रिति च्लेश्चिणि कृतेचिणो लु॑गिति तशब्दस्य लुक् । अत्र "श्लिष" इति क्सस्य पुषाद्यङ्मात्रापवादत्वाच्चिणपवादत्वाऽभावाच्चिण् निर्बाध इति भावः ।समाश्लेषि जतुना काष्ठ॑मित्यत्र त्वनालिङ्गनाच्च्लेश्चिणो निर्बाधत्वादश्लेषीति निर्बाधमेव । एवं च आलिङ्गने अनालिङ्गनेऽपि श्लिषः कर्मणि लुङि एकवचने तशब्दे परे च्लेश्चिणेवेति स्थितम् । अथाऽनालिङ्गने श्लिषः कर्मणि लुङ आतामि च्लेः क्साऽभावात्सिचिषढो॑रिति षस्य कत्वे सस्य षत्वे रूपमिति भावः । नन्वश्लिक्षामित्यत्र सत्यपि क्सेकस्स्याची॑त्यकारलोपे इष्टं सिद्धमित्यस्वरसात्कर्मणि लुङि झादावुदाहरति — अश्लिक्षतेत्यादि । अश्लिष् स् झेति स्थिते जोऽन्तादेशं बाधित्वा "आत्मनेपदेष्वनतः" इत्यदादेशे षस्य कत्वे सिचः सस्य षत्वे अश्लिक्षतेतीष्यते । च्लेः क्से तु सति अश्लिष् स् झ इति स्थितेक्सस्याची॑त्यकारलोपाऽप्रसक्तेरतः परत्वात् "आत्मनेपदेष्वनतः" इत्यदादेशो न स्यादिति भावः । अश्लिष्ठा इति । श्लिषेः कर्मणि लुङस्थासि च्लेः सिचिझलो झली॑ति सिचो लोपे ष्टुत्वे "अश्लिष्ठा" इति रूपमिष्यते । क्से तु "झलो झली" त्यसंभवादश्लिक्षथा स्यादिति भावः । अश्लिड्ढ्वमिति । श्लिषः कर्मणि लुङो ध्वमि सिचिझलो झली॑ति सस्य लोपे स्य झश्त्वेनन डकारे ष्टुत्वेन धस्य ढः । क्से तु सति अश्लिक्षध्वमिति स्यादिति भावः । शक विभाषित इति । मर्षणेऽर्थे शकधातुरविकल्पित इत्यर्थः । विकल्पश्च प्रकृतपरस्मैपदविषयक एव, न तु दिवादिपाठविषयकः, व्याख्यानात् । तदाह — उभयपदीति । मर्षणमिह — सामथ्र्यम् । शक्यति शक्यते वेति । समर्थो भवतीत्यर्थः । सेट्कोऽयमित्येके इति । स्वमते त्वनिट्क एवेति भावः । नन्वनिट्कारिकासु लृदितः शकेः पाठात्कथमनिट्कत्वमित्यत आह — तन्मतेनेति । ये सेट्त्वं शकेर्वदन्ति तन्मतमवलम्ब्याऽनिट्कारिकासु शकि र्लृदित्पठित इत्यर्थः । संपदादिक्विबन्तादिति । रक्षुध्यत इति क्षुध्, भावे क्विप् । क्षुध् अस्य संजाता क्षुधित इति विग्रहः । वसतिक्षुधोरिति । वसेः क्षुधेश्च क्त्वानिष्ठयोरिडागमः स्यादिति तदर्थः । वक्ष्यते इति ।कृत्स्वि॑ति शेषः । षिधु संराद्धाविति । निष्पत्तावित्यर्थः । प्रामादिक इति । माधवादिसंमत्वादिति भावः । रध हिंसेति । सेट् । चतुर्थाऽन्तोयम् । ररन्धतुरिति । एत्त्वाभ्यासलोपौ बाधित्वा परत्वान्नुमि संयोगात्परत्वेन अकित्त्वान्नलोपो नेति भावः ।
श्लिष आलिङ्गने - सामथ्र्यादिति । यदि हिश्लिष॑ इति प्राप्त एव क्सो नियम्येत तर्हि योगविभागो व्यर्थः स्यादिति भावः । शल इगुपधादित्यस्यापीति । तेन कर्मण्यातांप्रभृतिष्वनालिङ्गने सिजेव भवति न तु क्सः ।समाश्लिक्षत जतूनि काष्ठै॑रिति क्सप्रत्यये सति तु समाश्लिक्षन्तेति स्यादिति भावः । प्रत्यासत्ताविति । आलिङ्गनं हि प्राणिकर्तृकं न तु काष्ठादिकर्तृकमिति भावः ।श्लिषश्च्लेरालिङ्गन एव क्स॑ इति व्याख्यानसय् फलं दर्शयति — कर्मणीत्यादिना । अश्लिक्षातामित्यादौ यद्यपि क्ससिचोर्विशेषो नास्तिक्सस्याची॑त्यकारलोपात्, तथापि थासादावस्त्येव विशेष इति ध्वनयन्नुदाहरति — अश्लिष्ठः । अश्लिड्ढ्वमिति । न्यासकारादय इति । तथा च तन्मतेञीतः क्तः॑ इति वर्तमाने क्तो भवति । आदित्त्वान्निष्ठायां नेट् । स्विन्नः ।विभाषा भावादिकर्मणोः॑ । स्विन्नम् । स्वेदितमित्यादि सिद्धम् । षिधु । संराद्धिर्निष्पत्तिः ।उदितो वे॑ति क्त्वायामिड्विकल्पः । इट्पक्षेरलो व्युपधा॑दिति वा कित्त्वम् । सिधित्वा । सेधित्वा । सिद्ध्वा । प्रामादिक इति । ऊदित्त्वेत्वनुदात्तेषु सिध्यतेः पाठो व्यर्थः स्यादिति भावः ।
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
श्लिष आलिङ्गने (663) (416 च्लेः क्सादेशनियमसूत्रम्।। 3.1.4 आ.4) (आक्षेपभाष्यम्) किमर्थमिदमुच्यते?। (आक्षेपपरिहारभाष्यम्) नियमार्थम्। नियमार्थोऽयमारम्भः ‐ - श्लिष आलिङ्गन एव क्सो यथा स्यात्। इह मा भूत् ‐ - उपाश्लिषद् जतु च काष्ठं च, समाश्लिषद् ब्राह्मणकुलमिति।। अत उत्तरं पठति ‐ - - (1846 नियमानुपपत्तिवार्तिकम् ।। 1 ।।) - श्लिष आलिङ्गने नियमानुपपत्तिर्विधेयभावात्- (भाष्यम्) श्लिष आलिङ्गन इति नियमस्यानुपपत्तिः।। किं कारणम्?। विधेयभावात्।। कैमर्थक्यान्नियमो भवति। विधेयं नास्तीति कृत्वा।। इह चास्ति विधेयम्। किम्?। पुषादिपाठादङ्प्राप्तः तद्बाधनार्थः क्सो विधेयः।। तत्रापूर्वो विधिरस्तु नियमो वेति।। अपूर्व एव विधिः स्यान्न नियमः।। (दूषणप्रश्नभाष्यम्) किं च स्याद्, यदायं नियमो न स्यात्?। (दूषणभाष्यम्) आत्मनेपदेष्वालिङ्गनेऽनालिङ्गने च क्सः प्रसज्जयेत।। (दूषणान्तरभाष्यम्) यथैव क्सोऽङं बाधते, एवं चिणमपि बाधेत ‐ - उपाश्लेषि कन्या देवदत्तेनेति।। (1844 दूषणपरिहारिन्यासान्तरवार्तिकप्रथमखण्डम्।। 2 ।।) - सिद्धं तु श्लिष आलिङ्गनेऽचिण्विषये- (भाष्यम्) सिद्धमेतत्।। कथम्?। श्लिष आलिङ्गने अचिण्विषये क्सो भवतीति वक्तव्यम्।।(1845 न्यासान्तरवार्तिकद्वितीयखण्डम्।। 3 ।।) - अङि्वधाने च श्लिषोऽनालिङ्गने- (भाष्यम्) अङि्वधाने च श्लिषोऽनालिङ्गने इति वक्तव्यम्।। (आक्षेपभाष्यम्) सिध्यति। सूत्रं तर्हि भिद्यते। (सिद्धान्तिभाष्यम्) यथान्यासमेवास्तु।। (दूषणस्मारणभाष्यम्) ननु चोक्तम् श्लिष आलिङ्गने नियमानुपपत्तिर्विधेयभावात् इति। (सिद्धान्तिभाष्यम्) नैष दोषः। (1846 सिद्धान्तिवार्तिकम्।। 4 ।।) - योगविभागात्सिद्धम्- (भाष्यम्) योगविभागः करिष्यते। श्लिषः श्लिषः क्सो भवति। किमर्थमिदम्?। पुषादिपाठादङ् प्राप्नोति तद्बाधनार्थम्।। ततः आलिङ्गने। आलिङ्गने च श्लिषः क्सो भवति।। इदमिदानीं किमर्थं स्यात्? नियमार्थम्। श्लिष आलिङ्गने एव।। क्व मा भूत्?। उपाश्लिषज्जतु च काष्ठं च, समाश्लिषद् ब्राह्मणकुलमिति। (दूषणान्तरपरिहारभाष्यम्) यदप्युच्यते ‐ - -यथैव च क्सोऽङं बाधते, एवं चिणमपि बाधेतेति। पुरस्तादपवादा अनन्तरान्विधीन् बाधन्ते नोत्तरान् इत्येवं क्सोऽङं बाधिष्यते न चिणम्।। अथवा तत्र वक्ष्यति ‐ - चिणित्यनुवर्तमाने पुनश्चिण्ग्रहणस्य प्रयोजनम्। चिणेव यथा स्याद् यदन्यत्प्राप्नोति तन्मा भूदिति।। श्लिष आलिङ्गने।। 46 ।।