Page loading... Please wait.
3|1|24 - लुपसदचरजपजभदहदशगॄभ्यो भावगर्हायाम्
॥ तस्मै पाणिनये नमः ॥
3|1|24
SK 2635
लुपसदचरजपजभदहदशगॄभ्यो भावगर्हायाम्   🔊
सूत्रच्छेदः
लुप-सद-चर-जप-जभ-दह-दश-गॄभ्यः (पञ्चमीबहुवचनम्) , भावगर्हायाम् (सप्तम्येकवचनम्)
अनुवृत्तिः
-
अधिकारः
प्रत्ययः  3|1|1 परश्च  3|1|2 आद्युदात्तश्च  3|1|3 धातोः  3|1|22
सम्पूर्णसूत्रम्
Will be updated soon
सूत्रार्थः
Will be updated soon.
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
लुप सद चर जप जभ दह दश गृ̄ इत्येतेभ्यो भावगर्हायां धात्वर्थगर्हायां यङ् प्रत्ययो भवति। गर्हितं लुम्पति लोलुप्यते। एवं सासद्यते। पञ्चौउर्यते। जञ्जप्यते। जञ्जभ्यते। दन्दह्यते। दन्दश्यते। निजेगिल्यते। भावगर्हायाम् इति किम्? साधु जपति। भावग्रहणम् किम्? साधनगर्हायां मा भूत्, मन्त्रं जपति वृषलः। नित्यग्रहणं विषयनियमार्थम् अनुवर्तते। एतेभ्यो नित्यं भावगर्हायाम् एव भवति, न तु क्रियासमभिहारे। भृशं लुम्पति।
`लुप्लृ छेदने` (धातुपाठः-1431), `षद्लृ विशरणगत्यवसादनेषु` (धातुपाठः-1427), `अभ्र वभ्र चर गत्यर्थाः` (धातुपाठः-556, 557, 559), `जप जल्प व्यक्तायां वाचि` (धातुपाठः-397, 398), `{जभी धातुपाठः-}जभ {जृभि-धा।पाक} गात्रविनामे` (धातुपाठः-388,389), `दह भस्मीकरणे` (धातुपाठः-991), `दन्श दंशने` (धातुपाठः-989), `गृ? निगरणे` (धातुपाठः-1410)। `धात्वर्थगर्हायाम्` इत्यनेन भावगर्हायामित्यस्यार्थमाह। `गर्हितं लुम्पति` इति। गर्हितमिति क्रियाविशेषणमेतत्। तेन भावगर्हात्र गम्यते। गर्हितत्वं छेदनसय् निरर्थकत्वात्, दोषदुष्टत्वाच्च। एवमुत्तरत्रापि गर्हितत्वं वेदितव्यम्। `चञ्चूर्यते` इति। `चरफलोश्च` 7|4|87 इति नुक्। `उत्परस्यातः` 7|4|88 इत्युत्त्वम्, `हलि च` 8|2|77 इति दीर्घः। `जञ्जप्यते` इति। `जपजभ` 7|4|86 इत्यादिना नुक्। `ऋत इद्धातोः` 7|1|100 इतीत्त्वम्, रपरत्वम्, द्विर्वचनम्। गिर्याशब्दस्य रेफयकारयोस्तु हलादिशेषेण निवृत्तिः, पुर्ववद्गुणः, `ग्रो यङि` 8|2|20 इति लत्वम्।`साधु जपति` इति। नात्र धात्वर्थस्य गर्हा, किं तर्हि? प्रशंसा। `मन्त्रं जपति वृषलः` इति। अत्र साधनस्य वृषलस्य गर्हा गम्यते; वृषलस्य = शूद्रस्य वैदिकमन्त्रजाप्यं प्रत्यनधिकारात्॥
लुपसदचरजपजभदहदशगृभ्यो भावगर्हायाम्॥ लुप्लृ च्छेदनेऽ, ठ्षद्लृ विशरणगत्यवसादनेषुऽ। ठाङ्ः सदिः पद्यर्थेऽ इत्यस्य तु चोरादिकणिजन्तस्य एकाच इत्यस्यानुवृतेरग्रहणम्। ठ्चर गत्यर्थःऽ,ठ्जप जल्प व्यक्तायां वाचिऽ,ठ्जभी जृभी गात्रविनामेऽ,ठ्दह भस्मीकरणेऽ, ठ्दन्श दशनेऽ। अनुनासिकलोपनिर्देशो यङ्लुक्यप्यनुनासिकलोपार्थ---दन्दशीतीति। ठ्गृ निगरणेऽ तुदादिः, ठ्गृ शब्देऽ र्क्यादिः, तत्राकारान्तविकरणेन साहचर्यादाद्यस्य ग्रहणमित्येके। द्वयोरपीत्यपरे। धात्वर्थगर्हायामिति। भावशब्दो धात्वर्थे वर्तत इति दर्शयति। गर्हितमिति क्रियाविशेषणम्, तेन भावगर्हाऽत्र गम्यते। गर्हितत्वं तु छेदनस्य, निषिद्धतृणादिविषयत्वात्, ठ्लोष्ठमर्दी तृणच्छेदी नखखादी च यो नरःऽ इति एवमुतरत्रापि यथासम्भवं गर्हितत्वं भेदेन द्रष्टव्यम्। चञ्चूर्यते इति। ठ्चरफलोश्चऽ इति नुक्, ठुत्परस्यातःऽ, ठ्हलि चऽ इति दीर्घः। जञ्जप्यते इत्यादौ ठ्जपजभदहदशभञ्जपशां चऽ इति नुक्। निजेगिल्यत इति। ठृत इद्धातोःऽ, रपरत्वम्, द्विर्वचनम्, अभ्यासस्य गुणः, जेगिर्य इति स्थिते ठ्ग्रो यङ्ऽ ईति लत्वं च प्राप्नोति, ठ्हलि चऽ इति दीर्घश्च, तत्र दीर्घस्यासिद्धत्वाल्लत्वे कृते विहतनिमितत्वाद्दीर्घाभावः। अन्ये तु ठ्न मु नेऽ इत्यत्र नेति योगविभागेनासिद्धत्वं बाधित्वा दीर्घे कृते लत्वामिच्छन्ति, नात्राप्तवाक्यमस्ति। गर्हायामिति किमिति। भावस्येत्येव तद्धर्मविशेषो लप्स्यते इति प्रश्नः। धर्मविशेषानुपादाने प्रशंसायामपि स्यादित्याह---साधु जपतीति। जपति वृषलो मन्त्रमिति। अत्र स्वरवर्णादिभ्रेषाभावाद्भावगर्हा नास्ति। वैदिकमन्त्रजपं प्रति शूद्रस्यानधिकारातु साधनभावे गर्हितः, यस्य खल्वीद्दशी गतिः----ठ्शूद्रस्य वेदमुपश्रृण्वतस्त्रपुजतुभ्यां श्रोत्रप्रतिपूरणम्, उच्चारणे जिह्वाच्छेदः धारणे शरीरभेदःऽ इति नासौ जपितुमर्हति। नित्यग्रहणमित्यादि। पूर्ववदेतद्व्याख्येयम्॥
सिद्धान्तकौमुदी
एभ्यो धात्वर्थगर्हायामेव यङ् स्यात् । गर्हितं लुम्पति लोलुप्यते । सासद्यते ॥
Text Unavailable. Please use feedback link below to provide the text if you have.
Text Unavailable. Please use feedback link below to provide the text if you have.
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
Text Unavailable. Please use feedback link below to provide the text if you have.