॥ तस्मै पाणिनये नम: ॥
Page loading... Please wait.
3|1|18
SK 2674
3|1|18
सुखादिभ्यः कर्तृवेदनायाम्   🔊
SK 2674
सूत्रच्छेद:
सुखादिभ्यः - पञ्चमीबहुवचनम् , कर्तृ (लुप्तषष्ठ्यन्तनिर्देश:) वेदनायाम् - सप्तम्येकवचनम्
अनुवृत्ति:
-
अधिकार:
प्रत्यय:  [3|1|1] , परश्च  [3|1|2] , आद्युदात्तश्च  [3|1|3]
सम्पूर्णसूत्रम्
Unavailable at the moment
सूत्रार्थ:
This sutra is not updated yet.

The sutras are being written one by one, so this sutra will eventually get updated. Meanwhile, you can refer to the commentaries below.
One-line meaning in English
This sutra is not updated yet.
काशिकावृत्तिः
कर्मग्रहणसनुवर्तते। सुख इत्येवम् आदिभ्यः कर्मभ्यः वेदनायाम् अर्थे ऽनुभवे क्यङ् प्रत्ययो भवति, वेदयितुश्चेत् कर्तुः सम्बन्धीनि सुखादीनि भवन्ति। सुखं वेदयते सुखायते। दुःखायते। कर्तृग्रहणं किम्? सुखं वेदयते प्रसाधको देवदत्तस्य। सुख। दुःख। तृप्त। गहन। कृच्छ्र। अस्र। अलीक। प्रतीप। करुण। कृपण। सोढ। सुखादिः।
`वेदनायामर्थेऽनुभवे` इति। प्रत्यक्षेण वस्तुन उपलब्धिः = अनुभवः। ननु च वेदनाशब्द उपलब्धिमातर्वचनो लोके दृष्टः, तत्कथमेष विशेषो लभ्यते? यथा लभ्यते तथोत्तरसूत्रे प्रतिपदायिष्यामः। कत्र्ता कारकम्, कारकञ्च क्रियापेक्षं क्रियाया एव भवति। वेदना चेह क्रिया श्रूयते, नान्या। तस्मात् तस्या एव कत्र्ता विज्ञायते। तस्याश्च सो वेदयिता स एव विज्ञायते। तस्मादविशेषाभिधानेऽपि वेदयितरि कत्र्तरि वत्र्तमानः कर्त्तृशब्दः गृह्रत इति-- `वेदयितुश्चेत् कर्त्तुः` इत्यादि। एतेन कर्त्तृग्रहणेन सुखादयो विशिष्यन्ते, न तु वेदनेति दर्शयति। यदि कर्त्तृग्रहणेन वेदना विशिष्येत-- कर्त्तुः सम्बन्धिनी चेद्वेदना भवतीति, तदेहापि स्यात्--- देवदत्तस्य सुखं वेदयति प्रसाधक इति। प्रसाधकस्यापि सम्बन्धिनी वेदना भवत्येव, तथा हि सोऽपि तस्याः कत्र्ता। यथैव हि प्रसाध्यः सुखं वेदयते तथा प्रसाधकोऽपि। एतावांस्तु विशेषः-- एकः प्रत्यक्षेण वेदयते, अपरश्चानुमानेन; सर्वथा हि तदकर्त्तृकत्वे वेदयत इत्येतन्न स्यात, न ह्रकत्र्ता वेदयत इत्युच्यते। तस्मात् सुखादीनामेव कर्त्तृग्रहणं विशेषणं युक्तिमिति भावः। ननु च सुखादिविशेषणत्वेऽपि स एव दोषः, यस्मात् प्रसाधकस्यापि जन्यजनकभावलक्षणेन सम्बन्धेन सुखादयः सम्बन्धिनो भवन्ति? नैतत्; सर्वत्रैव हि कर्त्तृसम्बन्धिनः सुखादयः, क्रियते चेदं कर्त्तृग्रहणम्। अतः कर्त्तृग्रहणसामथ्र्याद्विशिष्टो यः कत्र्ता सुखादीनामाश्रयः समवायिकारणं स एव गृह्रते। तेनाश्रयाश्रयिभावेन सम्बन्धेन कर्त्तृसम्बन्धिभ्यः सुखादिभ्यः प्रत्ययो विज्ञायते। न च प्रसाधकः सुखादीनां समवायिकारणम्, किं तर्हि? निमित्तकारणम्। सुखादिसमवायिकारणस्य कर्त्तुर्ये सुखादय आश्रयाश्रयिभावेन सम्बन्धिनस्ते प्रत्यक्षेणोपलभ्यन्ते। तेन तदुपलब्धिरनुभवस्वभावा भवतीति युक्तमुक्तम्-- वेदनायामर्थेऽनुभव इति। यदि तर्हि कर्त्तृग्रहणेन सुखादयो विशिष्यन्ते, न वेदना, ततश्च कर्त्तृवेदनायामिति षष्ठीसमासो न प्राप्नोति, असामथ्र्यात्? सौत्रत्वान्निर्देशस्य सत्यप्यसामर्थ्ये समासो भविष्यतीत्यदोषः। अथ वा-- असमास एव, षष्ठआस्त्वश्रवणम्; `सुपां सुलुक्` 7|1|39 इति लुप्तत्वात्॥
सुखादिभ्यः कर्तृवेदनायाम्॥ वेदनायामिति। ठ्विद चेतनाख्याननिवासेषुऽ इत्यस्माच्चुरादिण्यन्ताद्भावे ठ्ण्यासश्रन्थो युच्ऽ , ठ्घट्टिवन्दिविदिभ्यश्चऽ इत्यौपसंख्यानिको वा। वेदनायामर्थेऽनुभव इति। प्रत्यक्षज्ञानमुअनुभवः। यद्यपि वेदनाशब्दो ज्ञानमात्रवचनस्तथापि कर्तृग्रहणेन सुखादीनि विशेष्यन्ते, कर्तृगतानां च सुखादीनां वेदनाऽनुभवरूपैवेति मत्वैवमुक्तम्। क्रियापेक्षं कर्तृत्वं वेदनासंनिधानातदपेक्षमेव विज्ञायते। कर्त्रा च सुखादीनि विशेष्यन्ते न वेदना; व्यभिचाराभावात्। सर्वैव हि वेदना वेदयितुरेव भवति, तदेतदाह----वेदयितुश्चेत्कर्तुः सुखादीति भवन्तीति। आश्रयाश्रयिभावलक्षणश्च सम्बन्धः, न जन्यजनकभावलक्षणः। एवं च कर्तृग्रहणं लुप्तषष्ठीकं पृथक्पदम्। वेदयत इति। ठा कुस्मादात्मनेपदीऽ इत्यधिकारे वेदिः पठितः। एवं च प्रत्युदाहरणे परस्मैपदपाठः प्रमादजः। प्रसाधकः उ अभ्यङ्गादेः कर्ता, संप्रसाध्यमानस्य नेत्रविकारादिना सुखमनुमानतो जानाति॥
सिद्धान्तकौमुदी
सुखादिभ्यः कर्मभ्यो वेदनायामर्थे क्यङ् स्याद्वेदनाकर्तुरेवचेत्सुखादीनि स्युः । सुखं वेदयते । कर्तृग्रहणं किम् । परस्य सुखं वेदयते ॥
सुखादिभ्यः कर्तृवेदनायाम् - सुखादिभ्यः ।कर्मणो रोमन्थे॑त्यतः कर्मग्रहणाऽनुवृतिंत मत्वा आह — एभ्यः कर्मभ्य इति । वेदनायामिति । ज्ञाने इत्यर्थः । कर्तृत्वं च वेदनां प्रत्येव विवक्षितम्, उपस्थितत्वात् । वेदनाकर्तृवृत्तिवाचिभ्यः सुखादिशब्देभ्य इति लभ्यते । फलितमाह — वेदनाकर्तुरेव चेदिति । सुखं वेदयते इति । जानातीत्यर्थः ।विद चेतनाया॑मिति चुरादौ ।
सुखादिभ्यः कर्तृवेदनायाम् - सुखादिभ्यः ।कर्तु॑ इति पृथक्पदं लुप्तषष्ठीकम् ।विद चेतनाख्याननिवासेष्वि॑ति चौरादिकाद्युचिवेदना॑शब्दो ज्ञानवाची, तदपेक्षमेव कर्तृत्वम् । कर्ता च सुखादिभिरन्वेति । तदेतदाह — - वेदनाकर्तुरेवेति । परस्य सुखमिति । इह यन्निष्ठं सुकं तद्भिन्नो वेदनाकर्तेति वाक्यमेव । सुखादयः सुखदुःखतृप्रकृच्छ्रादयः ।
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
सुखादिभ्यः कर्तृवेदनायाम् (635) (393 क्यङ्प्रत्ययविधिसूत्रम्।। 6।1।2 आ. 9 सूत्रम्।) (कर्तृवेदनापदार्थनिर्णयाधिकरणम्।) (आक्षेपभाष्यम्) कर्तृवेदनायामिति किमर्थम्?। (समाधानभाष्यम्) इह मा भूत्। सुखं वेदयते प्रसाधको देवदत्तस्य।। (समाधानबाधकभाष्यम्) कर्तृवेदनायामित्युच्यमानेऽपि अत्र प्राप्नोति। किं कारणम्?। कर्तुरितीयं कर्तरि षष्ठी। वेदनायामिति चानो भावे। स यद्येवात्मनो वेदयते। अथापि परस्य। कर्तृवेदनैवासौ भवति।। (समाधानसाधकभाष्यम्) न कर्तृग्रहणेन वेदनाभिसंबध्यते। किं तर्हि?। सुखादीन्यभिसंबध्यन्ते कर्तुर्यानि सुखादीनीति।। सुखादिभ्यः।। 18 ।।