॥ तस्मै पाणिनये नम: ॥
Page loading... Please wait.
3|1|137
SK 2899
3|1|137
पाघ्राध्माधेट्दृशः शः   🔊
SK 2899
सूत्रच्छेद:
पा-घ्रा-ध्मा-धेट्-दृशः - पञ्चम्येकवचनम् , शः - प्रथमैकवचनम्
अनुवृत्ति:
-
अधिकार:
प्रत्यय:  [3|1|1] , परश्च  [3|1|2] , आद्युदात्तश्च  [3|1|3] , धातो:  [3|1|91]
सम्पूर्णसूत्रम्
Unavailable at the moment
सूत्रार्थ:
This sutra is not updated yet.

The sutras are being written one by one, so this sutra will eventually get updated. Meanwhile, you can refer to the commentaries below.
One-line meaning in English
This sutra is not updated yet.
काशिकावृत्तिः
पादिभ्यो धातुभ्यः उपसर्गे उपपदे शप्रत्ययो भवति। उत्पिबः। विपिबः। उज्जिघ्रः। विजिघ्रः। उद्धमः। विधमः। उद्धयः। विधयः। उत्पश्यः। विपश्यः। उपसर्गे इति केचिन् न अनुवर्तयन्ति। पश्यति इति पश्य। जिघ्रतेः संज्ञायां प्रतिषेधो वक्तव्यः। व्याघ्रः।
`पा पाने` (धातुपाठः-925), `घ्रा गन्धोपादाने` (धातुपाठः-926), `ष्मा शब्दाग्निसंयोगयोः` (धातुपाठः-927) `ध्ट् पाने` (धातुपाठः-902)- एषामाकारान्तलक्षणे के णे च प्राप्ते शो विधीयते। यद्युपसर्ग इत्यनुवत्र्तते तदा के; अथ निवृत्तम्-- के प्राप्त इत्यनुपसर्गेभ्यो णे। दृशेस्त्विगुपधलक्षणे के। `उत्पिब` इत्यादिषु प्रत्ययस्य शित्त्वात् सार्वधातुकसंज्ञायां `कत्र्तरि शप्` 3|1|68 । प्राघ्रादिना 7|3|78 यथायोगं पिबादयः।`संज्ञायां प्रतिषेधः` इति। प्रकृतत्वाच्शप्रत्ययस्य। तस्य प्रतिषेधस्य `व्याघ्रादिभिः` 2|1|55 इति वचनं लिङ्गम्॥
पाघ्राध्माधेट्द्दशः शः॥ ठ्पा पानेऽ,ठ्घ्रा गन्धोपदानेऽ,ठ्ध्मा शब्दाग्निसंयोगयोःऽ,ठ्धेट् पानेऽ,ठ्द्दशिर् प्रेक्षणेऽ।ठ्पा रक्षणेऽ इत्यस्य तु लुग्विकरणत्वादग्रहणम्। उत्पिब इत्यादि। पाघ्रादिसूत्रेण यथायोगं पिबादय आदेशाः। व्याघ्र इति। अत्र ठातश्चोपसर्गेऽ इति क एव भवति; अत्र च ठ्व्याघ्रादिभिःऽ इति वचनं लिङ्गम्॥
सिद्धान्तकौमुदी
पिबतीति पिबः । जिघ्रः । धमः । धयः । धया कन्या । धेटष्टित्त्वात् स्तनन्धयीति खशीव ङीप् प्राप्तः । खशोऽन्यत्र नेष्यत इति हरदत्तः । पश्यतीति पश्यः ॥घ्रः संज्ञायां न (वार्तिकम्) ॥ व्याघ्रादिभिः--(कौमुदी-735) इति निर्देशात् ॥
पाघ्राध्माधेट्दृशः शः - प्राघ्रा । अत्रलुग्विकरणाऽलुग्विकरणयोरलुगविकरणस्ये ग्रहण॑ मिति मत्वाऽ‌ऽह — पिबतीति पिब इति । पाधातोः शप्रत्यये तस्य शित्त्वेन सार्वदातुकत्वात्पाघ्राध्मे॑ति पिबादेशः । स चाऽदन्त इत्युक्तम् । शप् । पररूपम् । जिघ्र इति ।प्राघ्रे॑ति घ्राधातोर्जिघ्रादेशः । धम इति । ध्माधातोर्धमार्देशः । धय इति । धेटः शः, शप्, अयादेशः, पररूपमिति भावः । धया कन्येति । अत्र धेट्धातुष्टित् । स अदन्तो न भवति, यस्त्वदन्तो धयशब्दः, स न टित्, अतोऽत्रटिड्ढाण॑ञिति न ङीबिति भावः । धेटष्टित्त्वादित्यारभ्य हरदत्तमतम् । स्तनन्धयीतीति । स्तनशब्दे उपपदे धेट्धातोःनासिकास्तनयो॑रिति खशि कृतेखत्यनव्ययस्ये॑ति मुमि स्तनन्धयशब्दः । तत्र खशि कृते धेटष्टित्त्वमाश्रित्य यथाटिड्ढाम॑ञिति ङीप्, तथा धया कन्येत्यत्रापि ङीप् प्राप्तः, स ङीप् खशोऽन्यत्र नेष्यते इति हरदत्त आहेत्यर्थः । वस्तुतस्तुडिड्ढाण॑ञिति सूत्रे टिदाद्यवयवाऽकारस्यैव ग्रहणमिति भाष्यविरोधादिदं चिन्त्यम् । नच टित्त्वसामथ्र्यादेव स्तनन्धयीशब्दान्ङीबिति वाच्यं, धया कन्येत्यत्रापि ङीप्प्रसङ्गात्, खशोऽन्यत्र नेष्यते इत्यत्र प्रमाणाऽभावात् । त्समात्स्तनन्धयीत्यप्रामाणिकमेव । तस्य प्रामाणिकत्वे गौरादित्वं कल्प्यम्, ङीप्यप्युदात्तनिवृत्तिस्वरप्राप्त्या स्वरे विशेषाऽभावादिति शब्देन्दुशेखरे स्थितम् । दृश उदाहरति — पश्य इति ।पाघ्रे॑ति पश्यादेशः । घ्रः संज्ञायां नेति । घ्राधातोः संज्ञायां शो नेत्यर्थः । कुत इत्यत आह — व्याघ्रादिभिरिति । अन्यथाव्याजिघ्रादिभि॑रिति निर्दिशेदिति भावः ।
पाघ्राध्माधेट्दृशः शः - पाघ्राध्मा । पा पाने । पा रक्षणे इत्ययं तु न गृह्रते, लुग्विकरणत्वात् । इह सूत्रे उपसर्ग इति केचिदनुवर्तयन्ति, तद्बहूनामसंमतम् । तथा च श्रीहर्षः — फलानि धूमस्य धयानधोमुखा॑निति । श्रूयते च — यदा पश्यः पश्यते रुक्मवर्ण॑मिति
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
पाघ्राध्माधेट्दृशः शः (754) (434 शप्रत्ययवधिसूत्रम्।। 3 । 1 । 6 आदृ 27) (1991 वार्तिकम्।। 1 ।।) - जिघ्रः संज्ञायां प्रतिषेधः - (भाष्यम्) जिघ्रः संज्ञायां प्रतिषेधो वक्तव्यः। व्याजिघ्रतीति व्याघ्रः।। (आक्षेपभाष्यम्) इह केचिच्छस्यैव प्रतिषेधमाहुः। केचिज्जिघ्रभावस्य। किं पुनरत्र न्याय्यम्।। (समाधानभाष्यम्) शस्यैव प्रतिषेधो न्याय्यः। जिघ्रभावे हि प्रतिषेद्धे केन शे आकारलोपः स्यात्।। पाघ्राध्मा।। 137 ।।