॥ तस्मै पाणिनये नम: ॥
Page loading... Please wait.
3|1|128
SK 2889
3|1|128
प्रणाय्योऽसंमतौ   🔊
SK 2889
सूत्रच्छेद:
प्रणाय्यः - प्रथमैकवचनम् , असंमतौ - सप्तम्येकवचनम्
अनुवृत्ति:
-
अधिकार:
प्रत्यय:  [3|1|1] , परश्च  [3|1|2] , आद्युदात्तश्च  [3|1|3] , कृत्या:  [3|1|97] , धातो:  [3|1|91]
सम्पूर्णसूत्रम्
Unavailable at the moment
सूत्रार्थ:
This sutra is not updated yet.

The sutras are being written one by one, so this sutra will eventually get updated. Meanwhile, you can refer to the commentaries below.
One-line meaning in English
This sutra is not updated yet.
काशिकावृत्तिः
अविद्यमाना सम्मतिरस्मिनित्यसम्मतिः। सम्मननं सममतिः, सम्मतता, पूजा। प्रणाय्यः इति निपात्यते ऽसम्मतावभिधेये। प्रणाय्यश्चोरः। असम्मतौ इति किम्? प्रणेयो ऽन्यः। यद्येवं कथम् एतत्, ज्येष्ठाय पुत्राय पिता ब्रह्म ब्रूयात् प्रणाय्यान्तेवासिने, न अन्यस्मै कस्मैचन इति? सम्मतिरभिलाषो ऽप्युच्यते। तदभावेन निष्कामतया असम्मतिरन्तेवासी भवति। तस्मै निष्कामाय मोक्षार्थं यतमानायान्तेवासिने प्रणाय्याय ब्रह्म ब्रूयातिति युज्यते।
अविद्यमाना सम्मतिरित्यनेन वाक्यविशेषेण बहुव्रीहिं दर्शयंस्तत्पुरुषाशङ्कां निराकरोति-- `सम्मतिः सम्मतता` इति। सम्मत इति पूजित इत्युच्यते। सम्मतस्य भावः सम्मतता। एतेन सम्मतिशब्देनेह पूजिताभिधेयतेति दर्शयति।`यद्येवम्` इत्यादि। अविद्यमानपूजे चौरादौ प्रणाय्यशब्दस्यान्तेवासिनि प्रयोगो नोपपद्यते। न हि पूजाऽन्तेवासिनि न विद्यत इत्यभिप्रायः। `ब्राहृ प्रब्राऊयात्` इति ब्राहमशब्देनात्र वेद उच्यते। `सम्मतिरभिलोषोऽप्युच्यते` इति। न केवलं पूजेत्यपिशब्देन दर्शयति। `तदभावेन` इति। अभिलाषाभावेन। `निष्कामतया` इति। भावभोगाभिलाषरहिततयेत्यर्थः॥
प्रणाय्योऽसम्मतौ॥ असम्मताविति बहुब्रीहित्याह---अविद्यमाना संमतिरस्मिन्निति। सम्मतिश्चात्र संमननं प्रीतिविषयभावोपगमनं कर्मव्यापारो विवक्ष्यते, न संमन्तृव्यापारः; तथा सत्यसंमन्तरि निपातनप्रसङ्गात्, तस्य चानिष्टत्वादित्यभिप्रायेणाह----संमतता संमतिरिति। संमतिरमिलाषोऽप्युच्यत इति। भोगविषयोऽप्यादरः सम्मतिशब्देनोच्यते, तन्त्रेणेत्यर्थः॥
सिद्धान्तकौमुदी
संमतिः प्रीतिविषयीभवनं कर्मव्यापारः । तथा भोगेष्वादरोऽपि संमतिः । प्रणाय्यश्चोरः । प्रीत्यनर्ह इत्यर्थः । प्रणाय्योऽन्तेवासी । विरक्त इत्यर्थः । प्रणेयोऽन्यः ॥
प्रणाय्योऽसंमतौ - प्रणाय्योऽसमंतौ । असंमतौ गम्यायां "प्रणाय्य" इति निपात्यते । तत्र असंमतिशब्दैकदेशं समंतिशब्दं विवृणोति — प्रीतिविषयीभवनमिति । तच्च कर्मनिष्ठमित्याह — कर्मव्यापार इति.तथेति । भोगेषु = सुखदुःखानुभवेषु आसक्तिरपि संमतिरित्यर्थः । एवंविधा संमतिर्न भवतीति असंमतिरिति फलितम् । प्रणाय्यश्चोर इति । ण्यति वृद्धौ आयादेशः ।
प्रणाय्योऽसंमतौ - कर्मव्यापार इति.तथा चायमर्थः — लोकानां या प्रीतिस्तद्विषयीभवनं यस्मिन्नास्ति चोरादौ सोऽसंमतिरिति । वस्तुतस्तु प्रीतिविषयीभवनापेक्षया लाघवात्प्रीतिरेव संमतिः,सा यस्मिन् चोरादौ नास्ति लोकानं सोऽसंमतिः । यद्वा संमतिः प्रीतिविषयेषु यस्य नास्ति स विरक्कतोऽसंमति । तन्त्रेणाऽर्थद्वयमपि गृह्रते ।
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
Text Unavailable. If you can help in fixing this issue by providing this text, please let us know using the feedback link at the bottom of this page. Thank you!