Page loading... Please wait.
3|1|116 - पुष्यसिद्ध्यौ नक्षत्रे
॥ तस्मै पाणिनये नमः ॥
3|1|116
SK 2867
पुष्यसिद्ध्यौ नक्षत्रे   🔊
सूत्रच्छेदः
पुष्य-सिद्ध्यौ (प्रथमाद्विवचनम्) , नक्षत्रे (सप्तम्येकवचनम्)
अनुवृत्तिः
-
अधिकारः
प्रत्ययः  3|1|1 परश्च  3|1|2 आद्युदात्तश्च  3|1|3 कृत्याः  3|1|97 धातोः  3|1|91
सम्पूर्णसूत्रम्
Will be updated soon
सूत्रार्थः
Will be updated soon.
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
पुषेः सिधेश्च अधिकरणे क्यप् निपात्यते नक्षत्रे अभिधेये। पुष्यन्ति अस्मिन्नर्थाः इति पुष्यः। सिध्यन्ति अस्मिन्निति सिद्ध्यः। नक्षत्रे इति किम्? पोषणम्। सेधनम्।
`पुषेः सिद्धेश्च` इति। `पुष पुष्टौ` (धातुपाठः-1182) `{षिधु धातुपाठः-}सिधु संराद्धौ (धातुपाठः-1192)। `अधिकरणे क्यब् निपात्यते` इति। ल्युटोऽपवादः।
पुष्यसिद्ध्यौ नक्षत्रे ॥ पुष्यन्त्यस्मिन्नर्था इति। आरब्धा इति शेषः। सिद्धन्त्यस्मिन्निति। अत्रार्था इत्यपेक्ष्यते। पुष्पसिद्धशब्दौ पर्यायौ। स्वरूपपरत्वातु सूत्रे द्वन्द्वः॥
सिद्धान्तकौमुदी
अधिकरणे क्यब्निपात्यते । पुष्यन्त्यस्मिन्नर्थाः पुष्यः । सिद्ध्यन्त्यस्मिन्सिद्ध्यः ॥
पुष्यसिद्ध्यौ नक्षत्रे - पुष्यसिध्यौ । "निपात्येते" इति शएषः । नक्षत्रविशेषे गम्ये इत्यर्थः ।
पुष्यसिद्ध्यौ नक्षत्रे - पुष्यसिद्ध्यौ । नक्षत्रे किम् । पोषणं, सेधनम् । अधिकरणे ल्युट् । पुष्यसिध्ययोः पर्यायत्वेऽपि स्वरूपपरत्वात्सूत्रे द्वन्द्वः ।पुष्ये तु सिध्यतीष्यौ॑ इत्यमरः ।
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
Text Unavailable. Please use feedback link below to provide the text if you have.