॥ तस्मै पाणिनये नम: ॥
Page loading... Please wait.
3|1|11
SK 2665
3|1|11
कर्तुः क्यङ् सलोपश्च   🔊
SK 2665
सूत्रच्छेद:
कर्तुः - पञ्चम्येकवचनम् , क्यङ् - प्रथमैकवचनम् , सलोपः - प्रथमैकवचनम् , च - अव्ययम्
अनुवृत्ति:
-
अधिकार:
प्रत्यय:  [3|1|1] , परश्च  [3|1|2] , आद्युदात्तश्च  [3|1|3]
सम्पूर्णसूत्रम्
Unavailable at the moment
सूत्रार्थ:
This sutra is not updated yet.

The sutras are being written one by one, so this sutra will eventually get updated. Meanwhile, you can refer to the commentaries below.
One-line meaning in English
This sutra is not updated yet.
काशिकावृत्तिः
आचारे इत्यनुवर्तते। उपमानात् कर्तुः सुबन्तादाचारे ऽर्थे वा क्यङ्प्रत्त्ययो भवति, सकारस्य च लोपो भवति। अन्वाचयशिष्तः सलोपः, तदभावे ऽपि क्यङ् भवत्येव। श्येन इवाचरति काकः श्येनायते। कुमुदं पुष्करायते। सलोपविधावपि वाग्रहणं सम्बध्यते, सा च व्यवस्थितविभाषा भवति। ओजसो ऽप्सरसो नित्यं पयसस्तु विभाषया। {सकारस्येष्यते लोपः शब्दशास्त्रविचक्षनैः} ओजायमानं यो अहिं जघान। ओजायते, अप्सरायते। पयायते, पयस्यते। सलोपविधौ च कर्तुः इति स्थानषष्ठी सम्पद्यते, तत्र अलो ऽन्त्यनियमे सति हंसायते, सारसायते इति सलोपो न भवति। आचारे ऽवगल्भक्लीबहोडेभ्यः क्विब् वा वक्तव्यः। अवगल्भते, अवगल्भायते। क्लीबते, क्लीबायते। होडते, होडायते। सर्वप्रातिपदिकेभ्य इत्येके। अश्व इव आचरति अश्वायते, अश्वति। गर्दभायते, गर्दभति।
सलोपसन्नियोगेन चायं क्यङ विधीयते। तेन यत्रैव सलोपस्तत्रैव स्यात्-- पयायत इत्यादौ, इह तु न स्यात्-- काकः श्येनायत इत्यादौ। एकं हीदं वाक्यम्,चकारश्च समुच्चये, तेनैतदुक्तं भवति-- क्यङसलोपौ भवत इति। तथा च युगपदनयोर्विधानात् सलोपाभावे क्यङा न भवितव्यम्। युगपदनयोर्विधाने हि नान्यतराभावे कार्यमुपयुज्यते, यथा-- `स्थाध्वोरिच्च` 1|2|17 , इत्यत आह-- `अन्वाचशिष्टः` इत्यादि। एतदनेन हि। नायं समुच्चये चकारः, किं तर्हि? अन्वाचये। तत्र द्वे वाक्ये भवतः-- कर्त्तुः भवति सर्वत्र, यत्र त्वस्ति सकारस्तत्र तस्यापि लोपः। तत्राद्येन वाक्येन सलोपमनपेक्ष्य प्राधान्येन विधीयमानः क्यङ सलोपविधावपि प्रवत्र्तते। `श्येनायते` इति। `अकृत्सार्वधातुकयोः` 7|4|25 इति दीर्घः।`सलोपविधावपि वाग्रहणं सम्बध्यते` इति। अन्यथा पयस्यत इति न सिध्येत्। `सा च व्यवस्थितविभाषा` इति। अन्यथौजसोऽप्सरसोरपि विभाषा सलोपः स्यात्। `ओजसोप्सरसोर्नित्यं पयसस्तु विभाषया` (वा।185-- (जै।सू।2.1.92) इति यदुक्तम्, सा च व्यवस्थितविभाषा भवतीति, तदनेन विस्पष्टीकरोति। अथ हंसायते सारसायत इत्यत्र सलोपः कस्मान्न भवतीत्याह-- `सलोपविधौ च` इत्यादि। यदि सलोपविधावपि कर्त्तुरित्येषा पञ्चमी स्यात तदा हि `अलोऽन्त्यस्य` 1|1|51 इत्यस्यानुपस्थानात् यत्रतत्रस्थस् सलोपो भवन्निहापि स्यात्। न च सलोपविधौ कर्त्तुरित्येषा पञ्चमी, किं तर्हि? षष्ठी। यस्मादर्थाद्विभक्तिपरिणामो भवतीति स्थानषष्ठी सम्पद्यते। स्थानषष्ठआं च `अलोऽन्त्यस्य` 1|1|51 इत्युपस्थानेऽन्त्यस्यैव लोपेन भवितव्यम्। तेन हंसायत इत्यादौ न भवति लोपः।`आचारे` इत्यादि। क्यङविषयोपलक्षणार्थम्; तेन क्यङपवादः क्विब्दिधीयते। अत्र चावगल्भादीनामनुदात्तमकारमनुबन्धमासज्य निर्देशादवगल्भत इत्यात्मनेपदं भवति, पुनरवल्भादिभ्यो विकल्पेन क्विब् विधीयते, यावता `{गल्भ धार्ष्टए-- धातुपाठः-} अवगल्भ आ धृष्टे` (धातुपाठः-392), `क्लीबृ {अधार्ष्टए-- धातुपाठः-) मदे` (धातुपाठः-381), `हुडृ होडृ गतौ` (धातुपाठः-352, 354) इत्यात्मनेपदिनः, तत्रैतेभ्यो यदा लकारस्तदावगल्भत इत्यादि भविष्यति, यदा तु कृतमुत्पाद्याचं प्रातिपदिकानि कृत्वा क्यङुत्पाद्यते तदावगल्भायत इति भविष्यति? इदं प्रयोजनं विकल्पेन क्विब्विधानस्य-- अवगल्भाञ्चक्र इति `कास्प्रत्ययादाममन्त्रे` 3|1|35 इत्यां यथा स्यात्। अन्यथा ह्रप्रत्ययान्तात् प्रत्ययान्ताद्धातोरामुच्यमानो न स्यात्। `सर्वप्रातिपदिकेभ्यः` इति। तरप्यवगल्भाद्यनुकर्षणं कत्र्तव्यम्-- अनुबन्धासञ्जनार्थम्। इह चाचारे क्विब् वेत्यपेक्षते। तेन सर्वप्रातिपदिकेभ्य आचार एव क्विब् भवतीति वाक्यं निष्पद्यते। अथ किमर्थं ककारपकारौ क्विपोऽनुबन्धावासज्येते, यावताककारस्य गुणप्रतिषेधः प्रयोजनम्, न चेह गुणप्राप्तिरस्ति? क्विपो धातोरित्यविधानात् सार्वधातुकत्वाभावात्। सार्वधातुकार्धधातुकयोर्हि गुण उच्यते। पकारस्य चानुदात्तत्वं प्रयोजनं, तच्च क्विपो न सम्भवति; अनच्कत्वात्, सर्वलोपित्वाच्च `वेरपृक्तस्य` 6|1|65 इति। तर्हि द्वावेतौ सामान्यग्रहणाविघातार्थौ, न; अन्यतरेणैव सामान्यग्रहणाविघातस्य सिद्धत्वात। अन्यथा विज्विटोरपि तदर्थोऽनुबन्धः कत्र्तव्यः स्यादिति चिन्त्यमेतत्॥
कर्तुः क्यङ् सलोपश्च॥ आचार इति वर्तत इति तेन तदपेक्षमुपमानस्य कर्तृत्वं विज्ञायत इति भावः। सलोपश्चेति। यद्ययं चशब्दः समुच्चयवृत्तिर्गृह्यएत तदेकमेव वाक्यं स्यात्----क्यङ्सलोपौ भवति इति, ततश्च यत्रैव सलोपस्तत्रैव क्यङपि स्याद्---ओजायत इति, इह तु न स्यात्----श्येनायते काक इति। अतोऽन्वाचये चशब्दे वाक्यभेदश्चाश्रयणीयः---अविशेषेणोपमानात्कर्तुः क्यङ् भवति, यत्र तु सकारः सम्भवति तत्र तस्य लोप इति तदिदमुक्तम्। अन्वाचयशिष्टः सलोपस्तदसम्भवेऽपि क्यङ् भवतीति। श्येनायत इति ठकृत्सार्वधातुकयोर्दीर्घःऽ। सलोपविधावपीति। सलोपस्यान्वाचयशिष्टत्वेन वाक्यभेदे सत्ययमपि गुणो भवतीत्यर्तः। अपिशब्देनैतद्दर्शयति---क्यङ्विधौ तावत्सम्बद्ध्यते वाक्यसंपादनाय, एवं सलोपविधावपीति। ओजायत इति। ओजः शब्दो वृत्तिविषये तद्वति वर्तते। ओजसोप्सरसोनित्यं पयसस्तु विभाषयेति। अन्यस्य तु यशः प्रभृतेर्नैव भवतीत्येके, नेति वयम्। ओजोप्सरोव्यतिरिक्तस्य सकारान्तस्योपलक्षणार्थं पयोग्रहणम्। अत एव सलोपो वा। ओजसोप्सरसोर्नित्यमिति सामान्येन वार्तिकम्; तेन यशायते इत्याद्यपि भवतिसलोपोऽप्सरस एवेत्ययं तु पक्षो भाष्येऽपि न स्थितः। सलोपविधो कर्तुरिति स्थानषष्ठी संपद्यते इति। प्रत्ययविधौ यत्पञ्चम्यन्तं तदेव लोपेन सम्बन्धेऽर्थाद्विभक्तिविपरिणामो भवतीति षष्ठ।ल्न्तं सम्पद्यत इत्यर्थः। तत्रालोऽन्त्यस्येति नियमे सतीति। सकारेण कर्तुर्विशेषणातदन्तविधिविज्ञानातदर्थमेव च सेति पृथक् पदं लुप्तषष्ठीकम्। क्वचित् अलोऽन्त्यनियमे सतीति पाठः, तत्र सूत्रैकदेशानुकरणत्वात्समासेऽपि विभक्तेर्लुगभावः, यथा----अस्यवामीयमिति। आचार इत्यादि। क्यङ्पवादोऽयम्। ठ्गल्भ धार्ष्ट।ले, ठ्क्लीबृ अधार्ष्ट।लेऽ ठ्होड्ःअ अनादरेऽ---एते पचाद्यजन्ता गृह्यन्ते, त्सय चाकारस्य वाक्येऽनुदातत्वानुनासिकत्वे प्रतिज्ञायेते, तेन क्विबन्तादात्मनेपदं भवति। वावाचनात्क्विपा मुक्ते क्यङ् भवति, क्विप्सन्नियोगेनानुनासिकत्वप्रतिज्ञानात् क्यङ्पक्षे इत्संज्ञा न भवति। किमर्थ पुनरिदम्, यावता गल्भादयो धातव एवानुदातेनः पठ।ल्न्ते, तेभ्यो गल्भत इत्यादि सिद्ध्यति, एतेभ्य एव पचाद्यजन्तेभ्यः क्यङ् इवगल्भायते इत्यादि, यद्यपि धार्ष्ट।लदावर्थे गल्भादयः पठ।ल्न्ते, तथाप्यनेकार्थत्वाद्धातूनाम् अवगल्भ इवाचरतीत्यत्रार्थेऽपि त एव वर्तिष्यन्ते? सत्यम्; अवगल्भांचक्रे इत्यादौ प्रत्ययान्तत्वादाम्यथा स्यादित्येवमर्थ क्विब् विधीयते। अथ यदा धातुभ्य एव लिड् विधीयते तदा कथं भवितव्यम्? अवजगल्भे, विचिक्लीबे, विजुहोडे इति। अन्ये तु---धातुभ्य एव क्विब् विधीयते इति वदन्त एतानि रूपाणि न सम्भवन्तीत्याहुः, भाष्यविरोधात्। भाष्यकारस्तावत्सर्वप्रातिपदिकेभ्य इत्यनेन सिद्धिमाशङ्कते---न तर्हीदानीमित्यादिना। न हि धातुग्रहणे सति तेन सिद्धिशङ्कोपपद्यते। वार्तिककारोऽपि ठ्सर्वप्रातिपदिकेभ्यःऽ इति वदन् गल्भादिष्वपि प्रापितदिकग्रहणमेव मन्यते। न केवलं गल्भादिभ्य एव, अपि तर्हि सर्वेभ्य एव प्रातिपदिकेभ्य इति हि तस्यार्थः। ठ्सर्वप्रातिपदिकेभ्यःऽ इत्यत्र ठ्सर्वेभ्यःऽ इति वक्तव्ये प्रातिपदिकग्रहणात् प्रातिपदिकादेव क्विब् विधीयते, न सुबन्तात्; तेन पदत्वाभावादश्वतीति ठतो गुणेऽ इति शपा पररूपं भवति, विधुरविशब्दाभ्यां क्विपि शपि गुपे ठेङः पदान्तादतिऽ इति न भवति। विधवति, रवयति, राजनतीति नलोपो न भवति। वाचतीत्यादौ तु कुत्वजश्त्वादि न भवति। येऽपि सर्वप्रातिपदिकेभ्यः क्विपमिच्छन्ति, तैरपि गल्भाद्यनुक्रमणं कर्तव्य मात्मनेपदार्थाननुबन्धानासंक्ष्यामीति॥ भृशादिभ्यो भुव्यच्वेर्लोपश्च हलः॥ 3,1,12 ॥ भृशादिभ्यो बुव्यच्वेर्लोपश्च हलः॥ लोपविधौ ठ्भृशादिभ्यःऽ इति पञ्चमी स्थानषष्ठ।ल विरिणम्यते, हला च भृशादयो विशेष्यन्ते, तत्र तदन्तविधौ सति हलन्तानां लोपो विधीयमानो भृशायते इत्यादावहलन्तेन चभवति, तदाह----हलन्तानां च विज्ञायमानेऽहलन्तानां पाठोऽनर्थकः स्यात्। अच्वेरिति प्रत्येकमभिसम्बन्धयते इति। तेनैकवचनमुपपद्यते इति भावः। किमर्थे पुनरिदमुच्यते इति। ठच्वेःऽ इत्येतदधिकृत्य प्रश्नः। तेनेति। अनुप्रयुज्यमानेन भवतिनेत्यर्थः। न च भवतेरनुप्रयोगं बाधित्वा क्यङ् भवितुमर्हति, अच्व्यन्तेषु सावकाशत्वात्। किञ्च, भवतेरभावे च्वेरपि निवृत्तिप्रसङ्गः, तद्योगे तस्य विधानात्। कथं तर्हि डाजन्तात्क्यष् भवति, यावता डाजपि भवतियोगे विधीयते? अत्र परिहारं वक्ष्यति---कृभ्वस्तिभिरिव क्यषापि योगे डाज् भवतीत्येतदेव ज्ञापकमिति। तत्सद्दशप्रतिपत्यर्थ तर्हीति। नञिवयुक्तन्यायेन च्व्यन्तसद्दशा भृशादयः कथन्नाम प्रतीयेरन्निति च्व्यन्तपर्युदासः क्रियते, साद्दश्यं चाभूतद्भावविषयत्वेनेत्याह---अभूततद्भावविषयेभ्यो मृशादिभ्य इत्यादि। भृशायते इत्यादि। अजन्तानाम् ठकृत्सार्वधातुकयोःऽ इति दीर्घः, हलन्तानां तु लोपः----असुमनाः सुमना भवति सुमनायते, दुर्मनायते इत्यादि। भृशीभवतीति। इदानीमेवोक्तम्---नास्त्यत्र प्रसङ्गः इति, तस्मादच्व्यर्थविषयं प्रत्युदाहरणं प्रदर्शनीयम्----क्व दिवा भृशा भवन्तीति। ये रात्रौ भृशा नक्षत्रादयस्ते दिवा क्व प्रदेशे भवन्तीत्यर्थः। इह मनः शब्दः सोपसर्गः पठ।ल्ते----सुमनस्, दुर्मनस्, अभिमनस्, उन्मनस्; अत्र किं सोपसर्गात्सङ्घातात्प्रत्ययो भवति? आहोस्विदुपसर्गरवितान्मनः सब्दादेव? इति विचारः तदर्थ च किमुपसर्गः प्रकृत्यर्थविशेषणं सुमनः शब्दादिति? उत प्रत्ययार्थविशेषणम्---सुभवतो, दुर्भवतौ, अभिभवतौ, उद्भवताविति ? कथं पुनर्मनः शब्देन सह पठित उपसर्गे प्रत्ययार्थविशेषणमाशङ्क्यते, तद्विशेषणत्वे हिप्राग्भवतेः पठ।लेत? नैष शक्यः प्राग्भवतेः पठितुम्, एवं हि सर्वेभ्य एव भशादिभ्य उपसर्गविशिष्ट एव भवत्यर्थे प्रत्ययः स्याद्, मनः शब्दादेव च विशिष्टेऽर्थे इष्यत इत्येवमर्थो मनः----शब्देन सह पाठः स्यात्। तत्र यदा मनाः शब्देन स्वादीनां बहुव्रीहीस्तदा प्रकृत्यर्थविशेषणं ते भवन्ति; यदा त्वसमस्ता एव तदा प्रत्ययार्थविशेषणम्। मनः शब्दश्च वृत्तिविषये तद्वति वर्तते मनस्वी सुष्ठुअ भवतीत्यादावर्थे क्यङ् प्रत्ययः। प्राप्त्यर्थस्य वा भवतेः ठा धृषाद्वाऽ इति विकल्पितणिचोऽत्र विषये ग्रहणम्, तेन मनः कर्म शोभनं प्राप्नोतीत्यादिरर्थो भवति। तत्राद्ये पक्षेऽडाड्ल्यब्द्विर्वचनेषु दोषः, अट्---स्वमनायत, दुरमनायत। आट्---अभ्यमनायत, उदमनायत। उपसर्गस्यापि क्यङ्न्ते धातावन्तर्भावाततः पूर्वमडाटौ प्राप्नुतः, परौ चेष्येते। ल्यप्---सुमनाय्य, अभिमनाय्य, उपसर्गस्य क्त्वान्तेऽनुप्रवेशातद्व्यतिरिक्तपदाभावादसति समासे ल्यपोऽभावात्सुमनायित्वेति स्यात्। द्विर्वचनम्---क्यडन्तात्सनि कृते उपसर्गस्य सनन्तेऽनुप्रवेशातस्य द्विर्वचने सति सुसुमनायिषते अबिभिमनायिषते इति स्याद्, सुमिमनायिषते अभिमिमनायिषत इति चेष्यते? नैष दोषः, चुरादौ ठ्संग्राम युद्धेऽ इति पठ।ल्ते, स न पाठयः; संग्रामशब्दाद् युद्धवाचिनः ठ्तत् करोति तदाचष्टेऽ इत्येव णिचः सिद्धत्वात्। पठ।ल्मानस्तु ज्ञापयति----सोपसर्गात्सङ्घाताद्धातुसंज्ञानिमितकप्रत्यये विधित्सिते उपसर्गाः पृथक् क्रियन्ते, परिशिष्टादेव तु प्रत्यय इति। संग्रामशब्दो हि सोपसर्गः संघात एव चुरादावपि पठ।ल्ते, न तूपसर्गसद्दशावयवं शब्दान्तरम्। तथा च ठ्वा पदान्तस्यऽ इति परसवर्णविकल्पो भवति, अन्यथा स न स्यात्। स एवमर्थः पठ।ल्ते---असंग्रामयत शूरः, संग्रामयित्वा, सिसंग्रमयिषत इत्यादि रूपं यथा स्यादिति, ततश्चोक्तस्यार्थस्य ज्ञापकः। नियमार्थो वा---धातुसंज्ञाहेतुः प्रत्ययः सोपसर्गाद्यदि भवति संग्रामशब्दादेवेति। ननु चात्रानुदातेदयं संग्रामयतिरिष्यते, ततश्चात्मनेपदार्थमनुबन्धमांक्ष्यामीति पाठः स्यादिति कथं ज्ञापको नियमार्थो वा भवेत्? स्यादेतत्---अनुबन्धासञ्जनार्थे हि पाठे ठ्ग्राम युद्धेऽ इत्येव पठितव्यम्, संशब्दस्तु द्योतकः प्रयोगदर्शनादेव लभ्यते इङ्कोइरिवाधिः, नियमार्थस्तु संग्रामेति पाठ इति। एवमपि यथा इङ्कोरिधेः पूर्वमाण् न भवति, तथाऽस्यापि न स्यात्, तस्माद् द्वितीयः पक्ष आश्रीयते। यद्येवम्, यथा श्येनायत इति आचारार्थस्य क्यङेक्तत्वादाङ्ः प्रयोगो न भवति तथा स्वदीनामपि न स्यात्। तद्विशिष्ट एवार्थे क्यङे विधानाद् युक्तमेको पसर्गेण विशिष्टार्थे क्यणुत्पद्यत इति तस्य तेनाभिधानम्, इह पुनरनेकेन। तत्र---मनायत इत्युक्ते संदेहः स्यात् सुभवतौ दुर्भवतौ वेति? तत्रासंदेहार्थमुपसर्गः प्रयोक्तव्यः। अयं तर्हि दोषः---मनः शब्दात्क्यङ् कृते मिनायत इत्यस्य तिङ्न्तस्य स्वादेरतिङ्न्तादुतरस्य निघातः प्राप्नोति। पक्षान्तरे तु सुमनायत इत्यादि तिङ्न्तं संपद्यते इतै तद्व्यतिरिक्ताभावान्निघाताभावः। एवं तर्हि भृशादिषूपसर्गस्य पराङ्गवभावं वक्ष्यामि ठ्सुबामन्त्रितेऽ इत्यस्यानन्तरं भृशादिषूपसर्ग इति। इहापि तर्हि प्राप्नोति---अभिभृशायते सुभृशायत इति? यदि नेष्यते ठ्मनस्युपसर्गेऽ इति वक्ष्यामि, मनः शब्दे परत उपसर्गस्तस्यैव परस्य मनः शब्दस्याङ्गवद्भवति स्वरे कर्तव्ये इति। एवं च देवदतः सुमनायत इत्यादौ उपसर्गस्यापि ठ्तिङ्ङतिङःऽ इति निघातो भवति। योऽप्याह---सुमनःशब्दात्प्रत्यये विधित्सिते उपसर्गः पृथक् क्रियते, परिशिष्टादेव प्रत्यय इति, तेनापि स्वरे पराङ्गवद्भावो वक्त्व्य एव। तदेवं प्रत्ययार्थविशेषणं स्वादयः, मनः शब्दादेव केवलात्प्रत्यय इति स्थितम्। यदि तु सामान्येन ज्ञापकमिष्यते सङ्घातात्प्रत्यये विधित्सिते उपसर्गाः पृथक् क्रियन्ते इति, नात्रैव, यथा ठ्प्रभौ परिवृढःऽ इत्यत्र वक्ष्यते----परिवृढमाचष्टे इति णिचि कत्वाप्रत्यये कृते परिवृढय्येति ल्यब् भवतीति, ततो ज्ञापकान्तरं मृग्यम्। च किंचिदुद्ग्रन्थाभिधानं सूरिभिरित्युपरम्यते॥
सिद्धान्तकौमुदी
उपमानात्कर्तुः सुबन्तादाचारे क्यङ् वा स्यात् । सान्तस्य तु कर्तृवाचकस्य लोपो वा स्यात् । क्यङ् वेत्युक्तेः पक्षे वाक्यम् । सान्तस्य लोपस्तु क्यङ्सन्नियोगशिष्टः । स च व्यवस्थितः ॥ ।ओजसोऽप्सरसो नित्यमितरेषां विभाषया (वार्तिकम्) ॥ कृष्ण इवाचरति कृष्णायते । ओजः शब्दो वृत्तिविषये तद्वति । ओजायते । अप्सरायते । यशायते । यशस्यते । विद्वायते । विद्वस्यते । त्वद्यते । मद्यते । अनेकार्थत्वे तु युष्मद्यते । अस्मद्यते । क्यङ् मानिनोश्च (कौमुदी-837) । कुमारीवाचरति । कुमारायते । हरिणीवाचरति । हरितायते । गुर्वीव गुरूयते । सपत्नीव सपत्नायते । सपतीयते । सपत्नीयते । युवतिरिव युवायते । पट्वीमृद्वाविव पट्वीमृदूयते ॥ न कोपधायाः (कौमुदी-838) । पाचिकायते ॥ ।आचारेऽवगल्भक्लीबहोडेभ्यः क्विब्वा वक्तव्यः (वार्तिकम्) ॥ वाग्रहणात्क्यङपि । अवगल्भादयः पचाद्यजन्ताः । क्विप्सन्नियोगेनानुदात्तत्वमनुनानिकत्वं चाच्प्रत्ययस्य प्रतिज्ञायते । तेन तङ् । अगल्भते । क्लीबते । होडते । भूतपूर्वादप्यनेकाच आम् । एतद्वार्तिकारम्भसामर्थ्यात् । न च अगल्भते इत्यादिसिद्धिस्तत्फलम् । केवलानामेवाचारेऽपि वृत्तिसंभवात् । धातूनामनेकार्थत्वात् । अवगल्भांचक्रे । क्लीबांचक्रे । होडांचक्रे । वार्तिकेऽवेत्युपसर्गविशिष्टपाठात्केवलादुपसर्गान्तरविशिष्टाच्च क्यङेवेति माधवादयः । तङ् नेति तूचितम् ॥ ।सर्वप्रातिपदिकेभ्यः क्विब्वा वक्तव्यः (वार्तिकम्) ॥ पूर्ववार्तिकं तु अनुबन्धासञ्जानार्थं, तत्र क्विबनूद्यते । प्रादिपदिकग्रहणादिह सुप इति न संबध्यते । तेन पदकार्यं न । कृष्ण इवाचरति कृष्णति । अतो गुणे (कौमुदी-191) इति शपा सह पररूपम् । अ इवाचरति अति । अतः अन्ति । प्रत्ययग्रहणमपनीय अनेकाच इत्युक्तेर्नाम् । औ । अतुः । उः । द्वित्वम् । अतो गुणे (कौमुदी-191) । अत आदेः (कौमुदी-2248) इति दीर्घः । णल् औ वृद्धिः । अतुसादिषु तु आतो लोप इटि च (कौमुदी-2372) इत्यालोपः । मालेवाचरति मालाति । लिङ्गविशिष्टपरिभाषया एकादेशस्य पूर्वान्तत्वाद्वा क्विप् । मालांचकार । लङि । अमालात् । अत्र हल्ङ्यादिलोपो न । ङीसाहचर्यादापोऽपि सोरेव लोपविधानात् । इट्सकौ । अमालासीत् । कविरिव कवयति । आशीर्लिङि कवीयात् । सिचिर्वृद्धिः-- (कौमुदी-2297) इत्यत्र धातौरित्यनुवर्त्य धातुरेव यो धातुरिति व्याख्यानान्नामधातोर्न वृद्धिरिति कैयटादयः । अकवयीत् । विरिव वयति । विवाय । विव्यतुः । अवयीत् । अवायीत् । श्रीरिव । श्रयति । शिश्राय । शिश्रियतुः । पितेव पितरति । आशिषि रिङ् । पित्रियात् । भूरिव भवति । अत्र गातिस्था (कौमुदी-2223) इति, भुवो वुक् (कौमुदी-2174) इति, भवतेरः (कौमुदी-2181) इति च न भवन्ति । अभिव्यक्तत्वेन धातुपाठस्थस्यैव तत्र ग्रहणात् । बुभाव । अभावीत् । द्रुरिव द्रवति । णिश्रि-- (कौमुदी-2312) इति चङ् न । अद्रावीत् ॥
कर्तुः क्यङ् सलोपश्च - कर्तुः क्यङ् ।कर्तु॑रित्यावर्तते ।कर्तुः क्य॑ङित्येकं वाक्यम् । अत्र कर्तुरिति पञ्चम्यन्तम् । उपमानादाचारे इत्यनुवर्तते । "धातोः कर्मणः" इत्यतो वेति च । तदाह — उपमानादिति । उपमानं यत्कर्तृकारकं तद्वृत्तेः सुबन्तादित्यर्थः ।कर्तुः सलोपश्चे॑ति द्वितीयं वाक्यम् । चकारःतु॑पर्यायो भिन्नक्रमः । "स" इति लुप्तषष्ठीकं पृथक्पदं ।कर्तु॑रिति षष्ठन्तस्य विशेषणम् । तदन्तविधिः । तदाह — सान्तस्य त्विति । पक्षे इति । क्यङभावपक्षे इत्यर्थः । क्यङभावपक्षे सकारलोप इति भ्रमं वारयति — सान्तस्य लोपस्त्विति । एतच्च महाभाष्ये स्पष्टम् । क्यङि सलोपविकल्पः सर्वत्र स्यादित्यत आह — स च व्यवस्थित इति । सान्तस्य सलोप इत्यर्थः । व्यवस्थामेव दर्शयति — ओजसोऽप्सरस इति । इदं वार्तिकम् । ओजश्शब्द इति । क्यङन्तोऽयम् । "सनाद्यन्ता" इति धातुत्वाद्वृत्तिः । तत्र ओजश्शब्द ओजस्विनि वर्तत इत्यर्थः । ओजायते इति । अप्सरश्शब्दात्क्यङि सलोपदीर्घौ । क्यङो ङित्त्वादात्मनेपदम् ।इतरेषां विभाषये॑त्यस्योदाहरति — यशायते यशस्यते इति । यशस्वीवाचरतीत्यर्थः । विद्वायते विद्वस्यते इति । विद्वानिवाचरतीत्यर्थः । विद्वच्छब्दात्क्यङि सलोपविकल्पः । त्वद्यते मद्यते इति । त्वमिव अहमिव आचरतीत्यर्थः । युष्मदस्मच्छब्दात्क्यङिप्रत्ययोत्तरपदयोश्चे॑ति मपर्यन्तस्य त्वमौ । युष्मद्यते अस्मद्यते इति । यूयमिव वयमिव आचरतीत्यर्थः । "त्वमावेकवचने" इत्यस्मात्प्रत्ययोत्तरपदयोश्चे॑ति सूत्रे "एकवचने" इत्नुवृत्तेरेकत्वविशिष्टार्थवृत्तित्वे सत्येव युष्मदस्मादोस्त्वमाविति भावः । कुमार्यादिशब्दात्क्यङि पुंवत्त्वं स्मारयति — क्यङ्मानिनोश्चेति । कुमारायते इति । पुंवत्त्वेन ङीषो निवृत्तौ दीर्घः । हरितायते इति । हरिणीशब्दात् क्यङि पुंवत्त्वेनवर्णादनुदात्ता॑दिति नत्वस्य ङीषश्च निवृत्तौ दीर्घः । गुरूयते इति । गुर्वीशब्दात्क्यङि ङीषो निवृत्तौ दीर्घः । सपत्नायते इति । शत्रुपर्यायात् सपत्नशब्दाच्छाङ्र्गरवादित्वेन ङीनन्तात्पुंवत्त्वेन ङीनो निवृत्तौ दीर्घ इति भावः । सपतीयते इति । समानः पतिः स्वामी यस्या इति बहुव्रीहौ सपतिशब्दस्य नत्वे ङीपि च निष्पन्नात्सपत्नीशब्दात्क्यङि पुंवत्त्वेन ङीब्नत्वयोर्निवृत्तौ दीर्घ इति भावः । सपत्नीयते इति । युवायते इति । युवतिशब्दात्क्यङि पुंवत्त्वे तिप्रत्ययस्य निवृत्तौ नलोपे दीर्घ इति भावः । वयोवाचिनां जातिकार्यं वैकल्पिकमितिजातेरस्त्रीविषया॑दित्यत्र भाष्ये स्पष्टम् । एतेनजातेश्चे॑ति निषेधादिह पुंवत्त्वं दुर्लभमित्यपास्तमिति शब्देन्दुशेखरे स्थितम् । पट्वीमृदूयते इति ।आचारेऽवगल्भक्लीबहोडेभ्यः क्विब्वे॑ति वार्तिकम् । उपमानादित्यनुवर्तते । "धातोः कर्मणः" इत्यतो वाग्रहणस्याऽस्मिन्प्रकरणे अनुवृत्त्यैव सिद्दे वागरहणं व्यर्थमित्यत आह — वाग्रहणात्क्यङपीति । अन्यथा विशेषविहितत्वात्क्विपा क्यङो बाधः स्यादिति भावः । तथाचाऽत्र वाशब्दो विकल्पार्थक इति फलितम् । अत्र सुप इति नानुवर्तते । प्रातिपदिकात् क्यङोऽप्राप्तौ वाग्रहणात्समुच्चीयते इति केचित् । अवगल्भादयत इति ।गल्भ अवगल्भ इति इवाचरति, क्लीब इवाचरति, होड इवाचरतीत्यर्थे अवगल्भादिशब्देभ्यः क्विप्क्यङाविति स्थितम् । अवगल्भते इत्यात्मनेपदलाभायाह — क्विप्संनियोगेनेति । अन्त्यस्य अकारस्य अनुदात्तत्वमनुनासिकत्वं चाऽत्र प्रतिज्ञायते । ततश्च तस्य इत्संज्ञायां लोपे अनुदात्तेत्त्वादात्मनेपदं लभ्यते । तदाह — तेन तङिति अवगल्भते इति । क्विपि भकारादकारस्य लोपे हल्नताल्लडादौ तङि शविति भावः । ननु अवगल्भांचक्रे, क्लीबाञ्चक्रे, होडांचक्रे इत्यतर् कथमाम् अन्त्यस्य च इत्संज्ञालोपाभ्यामपहारेण धातूनामेकाच्त्वेनकास्यनेका॑जित्यस्याऽप्रवृत्तेः । न चअवगल्भे॑त्यस्य क्विबन्तस्य धातोरनेकाच्कत्वमस्तीति वाच्यम्,उपसर्गसमानाकारं पूर्वपदं धातुसंज्ञाप्रयोजके प्रत्यये चिकीर्षिते पृथक्क्रियते॑ इत्यनुपदमेव वक्ष्यमाणत्वादित्यत आह — भूतपूर्वादपीति । क्विबुत्पत्तेः प्राक्तनमनेकाच्त्वं भूतपूर्वगत्या आश्रित्येत्यर्थः । भूतपूर्वगत्याश्रयणे प्रमाणमाह — एतद्वार्तिकेति ।सर्वप्रातिपदिकेभ्यः क्विब्वे॑ति वक्ष्यमाणवार्तिकादेव अवगल्भते, अवजगल्भे इत्यादिसिद्धौ पुनरेभ्यः क्विब्विधां तत्संनियोगेन अन्त्यवर्णस्य अनुदात्तत्वानुनासिकत्वप्रतिज्ञानार्थं सद्भूतपूर्वगत्या अनेकाच्त्वाश्रयणं ज्ञापयतीत्यर्थः । नन्वनुदात्तत्वानुनासिकत्वप्रतिज्ञानस्यात्मनपदसिद्धावुपक्षीणत्वात्कथमुक्तज्ञापकतेत्याशङ्क्य निराकरोति — नचेत्यादि । कुत इत्यत आह — केवलानामिति । अच्प्रत्ययरहितानां धातुपाठसिद्धानामनुदात्तेतामेव गल्भादिधातूनामवगल्भ इवाचरतीत्याद्यर्थेषु वृत्तिसंभवात् । तच्च कुत इत्यत आह — धातूनामनेकार्थत्वादिति । एवं चआचारेऽवगल्भे॑ति क्विब्विधानमनुबन्धासञ्जनार्थं सद्भूतपूर्वगत्या अनेकाच्त्वाश्रयणं ज्ञापयतीति सिद्धम् । न चसर्वप्रतापिदकेभ्यः॑ इति क्विपि अवगल्भतीत्यादिवारणाय अनुबन्धासञ्जनमुपक्षीणमिति कथं तस्य उक्तज्ञापकतेति वाच्यं,सर्वप्रातिपदिकेभ्यः॑ इति वार्तिकेन क्विपि तथा प्रयोगे इष्टापत्तेः, भूतपूर्वाश्रयणपरभाष्यप्रामाण्येनसर्वप्रातिपदिकेभ्यः॑ इति वार्तिकस्य अवगल्भादिभ्योऽप्रवृत्तिविज्ञानाद्वेत्यास्तां तावत् । आचारेऽवगल्भे॑त्यत्र अवेत्यस्य प्रयोजनमाह — अवेत्युपसर्गेति । केवलादिति । उपसर्गविहीनाद्गल्भशब्दादित्यर्थः । उपसर्गान्तरेति । प्रगल्भाऽनुगल्बादिशब्दादित्यर्थः । क्यङेवेति । न तु क्विबित्यर्थः । माधवादय इत्यस्वरसोद्भावनम् । तद्बीजमाह — तङ् नेति तूचितमिति । केवलादुपसर्गान्तरविशिष्टाच्च गल्भशब्दात्, प्रगल्भादिशब्दाच्च अनेन क्विबभावेऽपिसर्वप्रातिपदिकेभ्यः॑ इति वार्तिकेन क्विब्निर्बाधः । परन्तु अवपूर्वत्व एवानुबन्धासञ्जनादात्मनेपदमेव तत्र नेति वक्तुमुचितमित्यर्थः । सर्वप्रातिपदिकेभ्यः इति । "आचारे" इति शेषः । नन्वनेनैव वार्तिकेन सिद्धेआचारेऽवगल्भे॑ति वार्तिकं व्यर्थमित्यत आह — पूर्ववार्तिकं त्विति । अन्त्यवर्णस्य इत्संज्ञासिद्ध्यर्थमित्यर्थः । तर्हि तत्र क्विब्ग्रहणं व्यर्थमित्यत आह — तत्र क्विबनूद्यते इति । तत्संनियोगेनानुबन्धासङ्गार्थमित्यर्थः । पदकार्यं नेति ।राजानती॑त्यादौ नलोपादिकं नेत्यर्थः । अन्यथा अन्तर्वर्तिविभक्त्या पदत्वान्नलोपादिकं स्यादिति भावः । पररूपमिति । कृष्णशब्दात् क्विबन्ताल्लडादौ शप "अतो गुणे" इति पररूपमित्यर्थः । कृष्णांचकार । कृष्णिता । कृष्णिष्यति । कृष्णतु । अकृष्णत् । कृष्णेत् । कृष्णायात् । अतो लोपात्परत्वात्अकृत्सार्वे॑ति दीर्घः । पूर्वविप्रतिषेधस्य विहितत्वादतो लोप इत्यन्ये । अ इवेति । अः = विष्णुः । स इवेत्यर्थः । अतीति । शपा पररूपम् । असि अथः अथ । आमि आवः आमः । क्विप्प्रत्ययान्तत्वाल्लिटि "कास्प्रत्ययात्" इत्याम्प्रत्ययमाशङ्क्य आह — प्रत्ययग्रहणमपनीयेति । औ अतुः उरिति सिद्धरूपप्रदर्शनम् । तत्र प्रक्रियां दर्शयति — द्वित्वमिति । णलिद्विर्वचनेऽची॑ति लोपस्य निषेध इति भावः । अतोगुणे इति । द्वित्वे कृते अ अ अ इति स्थिते अन्तरङ्गत्वादतो लोपं बाधित्वा पररूपमिति भावः । अत आदेरिति । न च परत्वान्नित्यत्वादपवादत्वाच्च "अतो गुणे" इत्यस्मात्प्राक्अत आदे॑रित्यस्य प्रवृत्तिरिति वाच्यं, तस्य बहिरङ्गत्वात्अत आदे॑रित्स्यापवादत्वेऽपि आनर्देत्यत्र हलादिशेषात्प्रागेव परत्वात्अत आदे॑रित्यस्य चरितार्थत्वेन बाधकत्वाऽसंभवात् ,अपवादोऽपि यद्यन्यत्र चरितार्थस्तह्र्रन्तरङ्गेण बाध्यते॑ इत्युक्तेरित्यन्यत्र विस्तरः । यद्यप्यत्र प्रक्रियाव्युत्क्रमे फलविशेषो नास्तितथापि न्याय्यत्वादेवमुक्तम् । णल औ इति । पररूपे दीर्घे च आ अ इति स्थितेआत औ णलः इत्यौत्वमिति भावः । वृद्धिरिति । आ औ इति स्थितेवृद्धिरेची॑ति वृद्धिरित्यर्थः । तथा च "औ" इति रूपं परिनिष्ठितम् । अतुसादिष्विति । अ अतुस्, अ उस्, इति स्थिते द्वित्वे पररूपे "अत आदेः" इति दीर्घे आतो लोप इत्यर्थः । अतुः उरिति प्रत्ययमात्रं शिष्यते । थलि इटि द्वित्वे दीर्घे आल्लोपे, - इथ अथुः अ । औ इव इम । वस्तुतस्तुकास्यनकाज्ग्रहण॑मिति वार्तिकव्याख्यावसरे प्रत्ययग्रहणमपनीयेति भाष्ये नोक्तम् । कासेश्च, प्रत्ययान्ताच्च आमिति लभ्यते । अत एवआचारेऽवगल्भक्लीबहोडेभ्यः॑ इति वार्तिके "अवगल्भांचक्रे" इत्यादौ अन्त्यवर्णस्यानुबन्धत्वेन एकाच्त्वेऽपिकास्प्रत्यया॑दित्यामित्युक्तं भाष्ये इति शब्देन्दुशेखरे प्रपञ्चितम् । इता । इष्यति । अतु- अतात् अताम् अन्तु अ-अतात् अतम् अत । आनि आव आम । आत् आताम् आन् । आः आतम् आत । आम् आव आम । विधिलिङि एत् एताम् एयुः । एः एतम् एत । एयम् एव एम । यात् यास्ताम् यासुः । लुङि "इट ईटि" इति सिज्लोपेआटश्चे॑ति वृदिंध बाधित्वा परत्वादतो लोपे इटा सह आटो वृद्धौ ऐत् ऐष्टाम् ऐषुरित्यादीति केचित् । आद्र्धधातुकोपदेशकाले एव परत्वादतो लोपे अङ्गस्याऽभावादाण्नेत्यन्ये । ईत् इष्टामित्यादि । ऐष्यत् । ननु मालाशब्दस्य टाप्प्रत्ययान्तत्वेन प्राप्तिपदिकत्वाऽभावात्ततः कथं क्विबित्यत आह — लिङ्गविशिष्टेति । वस्तुतस्तु आबन्तेभ्य आचारे क्विब्नास्त्येवेति विआपाशब्दनिरूपणे प्रपञ्चितम् । ङीप्साहचर्यादिति । ङ्यन्तादाचारक्विबन्ताद्गौरीशब्दाल्लुङि अगौरयदित्यादौ तिस्योडर्न्तात्परत्वाऽसंभवात्तत्साहचर्यादाबन्तादपि न तयोर्लोप इत्यर्थः । कवयतीति । शपि गुणाऽयादेशौ । कवीयादिति ।अकृत्सार्वे॑ति दीर्घः । लुङि अकवि ईत् स्थिते सिचि वृद्धिमाशङ्क्य आह — सिचि वृद्धिरित्यत्रेति । सिचा धातोराक्षेपतो लाभेऽपिऋत इद्धातो॑रित्यतस्तदनुवृत्तेर्धातुरेव यो धातुरिति लभ्यते इति भावः । कैयटादय इति ।इको गुणवृद्धी॑ति सूत्रे गोशब्दादाचारक्विपि अगवीदित्युपक्रम्य तथोक्तत्वादिति भावः । माधवस्त्विति ।सिचि वृद्धि॑रित्यत्रऋत इद्धातो॑रित्यतो धातुग्रहणानुवृत्तौ मानाऽभावेन धातुरेव यो धातुरित्युक्तार्थाऽलाभादिति तदाशयः । वस्तुतस्तु "इको गुणवृद्धी"वदव्रजहलन्तस्याऽचःर॑ इत्यादिसूत्रस्थभाष्ये सिचि परत एजन्तं नास्तीत्युक्तत्वादेजन्तेभ्य आचारक्विब्नास्त्येवेति शब्देन्दुशेखरे प्रपञ्चितम् । विरिवेति । विः = पक्षी, स इवेत्यर्थः । अभिव्यक्तत्वेनेति ।अभिव्यक्तपदार्था ये॑इति न्यायेनेति भावः । बुभावेति । इह न वुक् । अभ्यासस्य अत्त्वं च न । अभावीदिति । इहगातिस्थे॑ति सिचो न लुक् । चङ् नेति ।णिश्री॑ति सूत्रे द्रुग्रहणेन धातुपठास्थस्यैव ग्रहणादिति भावः ।
कर्तुः क्यङ् सलोपश्च - कर्तुः क्यङ् स लोपश्च ।धातोः कर्मणः॑ इतिसूत्राद्वेत्यनुवर्तत इत्याह — क्यङ्वा स्यादिति ।से॑ति लुप्तषष्ठीकं कर्तृविशेषणमित्याह — सान्तस्येति । चकारस्तु अन्वाचये बोध्यः । * ओजसोऽप्ससो नित्यमितरेषां विभाषया । तद्वतीति । तथा चओजायते॑ इत्यत्र ओजस्वीवाचरतीति विग्रहो बोध्यः । विद्वस्यत इति । नान्तस्यैव पदत्वात्सस्य रुत्वं न । पुंवद्भावं स्मारयति — क्यङ्मानिनोश्चेति । सपत्नीवेति — त्रितयसाधारणं विग्रहवाक्यम् । सपत्नायत इति । विवाहजन्यसंस्कारविसेषनिमित्तकेन पतिशब्देन समासे सति नित्यस्त्रीत्वान्न पुंवत् । युवायत इति । न च ङ्याप्सूत्रे भाष्ये युवतितरेत्युदाहरणाद्यौवननं जातिरितिजातेश्चे॑ति निषेधेयुवतीयते॑ इत्युदाहरणमिहोचितमिति वाच्यं,वयसोऽनित्यत्वेनाऽजातित्वात् । अन्यथायुवजानि॑ रितिअचः परस्मि॑न्निति सूत्रस्थभाष्यग्रन्थो विरुध्येत ।युवतितरेति भाष्यस्य तु का गतिररिति चेत् । अत्राहुः — तसिलादिषु॑ इति पुंवद्भावे प्राप्ते भाष्यनिर्देशादेव न पुंवदिति ।युवती॑शब्दस्य तु तरपिघरूपे॑ति ह्यस्वेयुवतितरे॑ ति भवत्येव । पट्वीमृदूयत इति । पूर्वशब्दस्य क्यङ्परत्वाऽभावान्न पुंवत् । पाचिकायत इति । पुंवद्भावे सति कात्पूर्वस्येत्वं न श्रूयेतेति भावः । एवं — पञ्चमीयते । स्नौग्ध्नीयते । सुकेशीयते । ब्राआहृणीयत इत्यादि । आचारेऽवगल्भ । गल्भ धार्ष्टए । क्लीबृ — - अधार्ष्टए । होड्ट अनादर#ए । क्यङपीति । अपिशब्दाद्वाक्यम् । तत्तुसर्वप्रातिपदिकेभ्यः॑ इत्यत्र वाग्रहणाल्लभ्यते इत्याहुः । क्विप्सन्नियोगेनेत्यादि । तेन क्यङ्सन्नियोगेनाऽनुदात्तत्वानुनासिकत्वायोरभावदित्संज्ञालोपौ न स्तअकृत्सार्वे॑ति दीर्घे सति अवगल्भायते क्लीबायत इत्यादि भवति । तेन तङिति । आत्मनेपदमित्यर्थः । तथा च अवगल्भमानः क्लीबमान इत्यादि सिध्यति । माधवादय इति । केचित्तेषामाशयमाहुः — आचारेऽगल्भे॑ इत्यत्र सुप इत्यनुवर्तते । तथा च केवलादुपसर्गान्तरविशिष्टादवगल्भप्रगल्भादिसुबन्तात्क्यङेव, न तु क्विप् । तङ् नेति तूचितमिति । उत्तर वार्तिकेन प्रातिपदिकमात्रात्क्विब्विधीयत इति एतेभ्योऽपि त्रिभ्यः क्विपि सिद्धे तत्सन्नियोगेनानुदात्तत्वानुनासिकत्वमात्रमच्प्रत्ययस्यआचारेऽवगल्भे॑त्यवगल्भादिषु प्रतिज्ञायते । लाघवात् । अन्यत्र तु गल्भप्रगल्भादिप्रातिपदिकेषु क्विपि परस्मैपदमेव भवति न तु तङिति भावः । नन्वेवम्आचारेऽवगल्भे॑ त्यत्र वाग्रहणात्क्यङमनुवर्त्त्य अवगल्भादिप्रातिपदिकेभ्यः क्यङ्विधानेऽप्यन्यत्र सुबन्तादेव क्यङिति क्यङो विषय एव नास्ति, तथा च केवलादुपसर्गान्तरविशिष्टाच्च क्यङप्ययुक्त इति चेत् । अत्र वदन्ति — प्रातिपदिकेभ्यः क्विप्, सुबन्तेभ्यः क्यङिति विषयभेदनापि गल्भति गल्भायते प्रगल्भति प्रगल्भायते इत्यादि सिध्यत्येवेति । स्यादेतत् — गल्भ धार्ष्टए॑ इत्यादीनामनुदात्तत्वादवगल्भते इत्यादिप्रयोगसिद्धावपि अवगल्भादिषूत्तरवार्तिकेन क्विपि सत्यवगल्भतीत्याद्यनिष्टप्रयोगः स्यात्तद्वारणार्थम्आचारेऽवगल्भे॑ति वार्तिकारम्भस्यावश्यकतया सामथ्र्यस्योपक्षीणत्वात्भूतपूर्वादप्यनेकाच आ॑ मित्येतदप्युक्तमिति चेत् । सत्यम् । अत्र ह्रयमाशयः — सर्वप्रातिपदिकेभ्यः॑ इति वार्तिके वाग्रहणेन व्यवस्थिविभाषाश्रीयते ।तथा च अवगल्भक्लीबहोडेभ्यः क्विपोऽभावादनिष्टप्रयोगो न भविष्यतीति स्वीकृते सामथ्र्यं नोपक्षीणमिति दिक् । पदकार्यं नेति । सवर्णदीर्घो यद्यपि पदमात्रकार्यं न भवति तथापि पदस्य जायमानं कार्यं नेत्यत्र तात्पर्यं बोध्यम् । तनोतीति तत् । स इव आचरति ततति । अत्र जश्त्वं न । त्वगिव आचरति । त्वचरि । अत्र कुत्वं नेत्याद्यपि बोध्यम् । द्वित्वमिति । अ णल् इति स्थितेद्विर्वचनेऽची॑ति निषेधादतो लोपो न भवतीति भावः ।अतो गुणे॑ इति द्वित्वे कृतेऽप्यतो लोपो न भवति, अन्तरङ्गेणाऽनेन बाधितत्वादिति भावः । यद्यप्यत्र फले विशेषो नास्ति तथापि शास्त्रप्राप्तिकमनुरुध्योक्तम् । यद्यप्यत्रवार्णादाङ्गं बलीयः॑ इति परिभाषयाऽतो लोप एवोचित इति चेन्मैवम् । तस्याः समानाश्रये कारश्चकारेत्यादौ प्रवृत्तिस्वीकारान्न तु व्याश्रयेऽपि । नच परत्वान्नित्यत्वाच्चअत आदे॑रित्यनेनैव प्रथमं भाव्यमिति वाच्यं, तस्य बहिरङ्गत्वेनाऽसिद्धत्वात् । न चापवादत्वात्अत आदे॑रित्यनेन भाव्यमिति वाच्यम्, अपवादो यद्यन्यत्र चरितार्तस्तर्हि अन्तरङ्गेण बाध्यत इत्युक्तत्वात्, आनर्देत्यादौ तस्य चरितार्थत्वात् । तत्र हलादिः शेषात्प्रागेव परत्वात्अत आदे॑रित्यस्य प्रवृत्तेः । न च नित्यत्वादद्धलादिः शेष एव प्रथमं स्यादिति वाच्यं , नित्यत्वस्यअत आदे॑ रित्यस्य आनर्देत्यादौ चरितार्थत्वादन्तरङ्गमेव भवतीति मनोरमोक्कतं चिन्त्यम् । स्वविषयमध्ये एकत्रोदाहणे चरितार्थस्योदाहरणान्तरेऽपि प्रवृत्त्यभ्युपगमात् । न हिगोद॑ इत्यत्रआतोऽनुपसर्गे कः॑ इति चरितार्थमितिगोप॑ इत्यादौ न प्रवर्तते । तस्मादणं बाधित्वा कप्रत्ययो यथा स्वविषये सर्वत्र प्रवर्तते तथेहापि प्रवर्तत इति । तदपरेन क्षमन्ते । गोदगोपादौ सर्वत्राऽणः कस्य च प्राप्तिसंभवे विनिगमनाविरहादणं बाधित्वा कप्रत्यय एव भवति । प्रकृतेत्वानर्देत्यादौ हलादिः शेषात्प्राक्अतो गुणे॑ इत्यस्य प्राप्त्यभावाद्वैषम्यमस्तीति । ननुअत आदे॑रित्यस्य पररूपाऽपवादत्वमेधामासेत्यत्र यदुक्तं तत्कथं सङ्गच्छते, आनृधतुरित्यादौआद्गुणः॑ इति गुणस्याऽपि प्राप्तेः । न च यथा सवर्णदीर्घो यण्गुणयोरपवादस्तथाऽयमप्युभयोरवाद इति वाच्यम्, एवमप्यानर्देत्यत्रेव हलादिः शेषात्प्रागेवाऽ‌ऽसेत्यत्रापिअत आदे॑रित्यस्य प्रवृत्तौ किं तेन पररूपापवादत्वकथनेनेति चेत् । अत्र केचिदाहुः — द्वन्द्वापवाद एकशेष॑ इति केषांचित्प्रवादे यथाऽपवादशब्दो बाधकपरः,सरूपाणा॑मित्येकशेषानारम्भे हि स्वाद्युत्पत्तौ द्वन्द्वस्य प्रवृत्तेरेकशेषसूत्रारम्भे तु पदान्तराऽभावेन तदप्रवृत्तेस्तथाऽत्रत्याऽपवादशब्दोऽपि बाधकपरः ।अत आदे॑रित्यनाररम्भे हि हलादिः शेषे पररूपप्रवृत्तावेधामासेति न स्यात् । आरब्धे तु तत्सूत्रे तथा स्यादेव, परत्वाद्धलादिःशेषात्प्रागेव दीर्घप्रवृत्त्या पररूपस्याऽप्रसक्तेरिति । यद्यप्यासेत्यादौ प्रथमतःअत आदे॑ रिति दीर्घाऽकरणेऽपि हलादिःशेषे पररूपे च कृते तस्य पूर्वान्तवद्भावे सति अभ्यासग्रहणेन ग्रहणात्अत आदे॑रिति दीर्घप्रवृत्त्या समीहितरूपसिद्धिस्तथाप्य#आनर्देत्यादि न सिध्यत्येव । तत्र हितस्मान्नुड् द्विहलः॑ इति दीर्घीभूतादकारान्नुटि सिचि वृद्धिरित्यत्रेति । सिचा धातोराक्षेपात्,ऋत इद्धातो॑रित्यतो धातोरित्यनुवर्तनाच्च धातुरेव यो धातुरिति व्याख्या लभ्यत इति ज्ञेयम् । विरिवेति । विः — पक्षी ।
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
कर्तुः क्यङ् सलोपश्च (628) (689 क्यङ्प्रत्ययविधिसूत्रम्।। 6।1।2 आ. 11 सूत्रम्) (सलोपस्यान्वाचयशिष्टत्वाधिकरणम्।) (आक्षेपभाष्यम्) सलोपसन्नियोगेनायं क्यङ् विधीयते तेन यत्रैव सलोपस्तत्रैव क्यङ् स्यात् ‐ - पयायते। इह न स्यात् ‐ - -अपि काकः श्येनायते।। (आक्षेपपरिहारभाष्यम्) नैतदस्ति। प्रधानशिष्टः क्यङ्, अन्वाचयशिष्टः सलोपः ‐ - यत्र च सकारं पश्यसीति। तद्यथा ‐ - कश्चिदुक्तो ग्रामे भैक्षं चर देवदत्तं चानय इति। स ग्रामे भैक्षं चरति, यदि च देवदत्तं पश्यति तमप्यानयति।। (1738 न्यूनतावार्तिकम्।। 1 ।।) - स लोपो वा - (भाष्यम्) सलोपो वेति वक्तव्यम्। पयायते पयस्यते।। (1739 न्यूनतावार्तिकम्।। 2 ।।) - ओजसोप्सरसोर्नित्यम्- (भाष्यम्) ओजसोप्सरसो नित्यं सलोपो वक्तव्यः। ओजायमानं योऽर्हि जघान। अप्सरायते।। (मतान्तरभाष्यम्) अपर आह ‐ - ‐ सलोपोऽप्सरस एव। ओजस्यते इत्येव भवितव्यम्।। (आक्षेपभाष्यम्) कथम् ‐ - -ओजायमानं योऽहि जघान इति?। (समाधानभाष्यम्) छान्दसत्वात्सिद्धम्।। (1740 न्यूनतावार्तिकम् ।। 3 ।।) - आचारेऽवगल्भक्लीबहोडेभ्यः क्विब्वा- (भाष्यम्) आचारेऽवगल्भक्लीबहोडेभ्यः क्विब्वा वक्तव्यः। अवगल्भते। अवगल्भायते। विक्लीबते। विक्लीबायते। विहोडते। विहोडायते। किं प्रयोजनम्?। क्रियावचनता यथा गम्येत।। (क्विब्विधिवैर्यथ्यभाष्यम्) नैतदस्ति प्रयोजनम्। धातव एवावगल्भादयः।। (शङ्काभाष्यम्) न चैव ह्यर्था आदिश्यन्ते।। (समाधानभाष्यम्) क्रियावचनता च गम्यते। (क्विब्विधिप्रयोजनभाष्यम्) इदं तर्हि प्रयोजनम्। अवगल्भा विक्लीबा विहोडा। अप्रत्ययात् इत्यकारप्रत्ययो यथा स्यात्।। (प्रयोजननिराकरणभाष्यम्) मा भूदेवम्। गुरोश्च हलः इत्येवं भविष्यति।। (प्रयोजनान्तरभाष्यम्) इदं तर्हि प्रयोजनम्। अवगल्भांचक्रे विक्लीबांचक्रे। विहोडांचक्रे। कास्प्रत्ययादाममन्त्रे लिटि इत्याम् प्रत्ययो यथा स्यात्।। अपर आह ‐ - - (1741 क्विब्विधिमतान्तरवार्तिकम्।। 4 ।।) - सर्वप्रातिपदिकेभ्य आचारे क्विब्वा वक्तव्यः। अश्वति गर्दभतीत्येवमर्थम्- (अनुयोगभाष्यम्) न तर्हि इदानीं गल्भाद्यनुक्रमणं कर्तव्यम्। (समाधानभाष्यम्) कर्तव्यं च। किं प्रयोजनम्?। आत्मनेपदार्थाननुबन्धानासङ्क्ष्यामीति। गल्भ क्लीब होड।। कर्तुः क्यङ्।। 11 ।।