॥ तस्मै पाणिनये नम: ॥
Page loading... Please wait.
3|1|106
SK 2854
3|1|106
वदः सुपि क्यप् च   🔊
SK 2854
सूत्रच्छेद:
वदः - पञ्चम्येकवचनम् , सुपि - सप्तम्येकवचनम् , क्यप् - प्रथमैकवचनम् , च - अव्ययम्
अनुवृत्ति:
-
अधिकार:
प्रत्यय:  [3|1|1] , परश्च  [3|1|2] , आद्युदात्तश्च  [3|1|3] , कृत्या:  [3|1|97] , धातो:  [3|1|91]
सम्पूर्णसूत्रम्
Unavailable at the moment
सूत्रार्थ:
This sutra is not updated yet.

The sutras are being written one by one, so this sutra will eventually get updated. Meanwhile, you can refer to the commentaries below.
One-line meaning in English
This sutra is not updated yet.
काशिकावृत्तिः
अनुपसर्गे इति वर्तते। वदेर् धातोः सुबन्तोः उपपदे अनुपसर्गे क्यप् प्रत्ययो भवति, चकाराद् यत् च। ब्रह्मोद्यम्, ब्रह्मवद्यम्। सत्योद्यम्, सत्यवद्यम्। सुपि इति किम्? वाद्यम्। अनुपसर्गे इत्येव, प्रवाद्यम्।
`अनुपसर्ग इति वत्र्तते` इति। ननु च `सत्सूद्विष` 3|2|61 इत्यादौ सूत्रे वक्ष्यति-- एतदुपसर्गग्रहणं ज्ञापनार्थम्, अन्यत्र सुब्ग्रहण उपसर्गग्रहणं न भवतीति; एवञ्च तत एव ज्ञापकादुपसर्गे न भविष्यतीति किमिहानुपसर्गग्रहणानुवृत्त्या? विस्पष्टार्थमित्येके। तत्र वाज्ञापनार्थमुपसर्गग्रहणं कत्र्तव्यम्; इह वानुपसर्गमनुवत्र्यमिति विकल्पदर्शनार्थमित्यपरे। `ब्राहृओद्यम्` इति। ब्राहृणो वदनमित्यर्थः। भावे क्यप्, पूर्ववत् संप्रसारणम्, `आद्गुणः` 6|1|84 , उपपदसमासः॥
वदः सुपि क्यप् च॥ अनुपसर्गे इति वर्तत इति। ठ्सत्सूद्विषऽ इत्यादौ सूत्रे वक्ष्यति----उपसर्गग्रहणं ज्ञापकमन्यत्र सुब्ग्रहणे उपसर्गग्रहणं न भवतीति। तच्चावश्यं तथैवाश्रयणीयम्----ठ्सुप्यजातौऽ ठ्स्पृशोऽनुदके क्विन्ऽ इत्यादावुपसर्गग्रहणं मा भूदिति, ततश्च नार्थ इहानुपसर्गग्रहणानुवृत्या। सुबन्ते उपपदे अनुपसर्ग इति। यद्यपि पूर्व बहुव्रीहेः पञ्चम्यर्थे सप्तमीति व्याख्यातम्, इह तु विरोधाभावातत्पुरुषात्स्वार्थ एव सप्तमीति भावः। ब्रह्माएद्यमिति। भावे क्यप्, पूर्ववत्संप्रसारणम्। ब्रह्मवेदः, तस्य वदनमित्यर्थः। कथं पुनः सकर्मकाद्भावे कृत्यप्रत्ययः यावता भावे चाकर्मकेभ्यः ठ्तयोरेव कृत्यक्तखलर्थाःऽ इति वक्ष्यति; न च कर्माविवक्षयाऽकर्मकत्वम्; ब्रह्मएति कर्मणः श्रुतत्वात्? तस्मादुतरसूत्रादिह भावग्रहणमपेक्षणीयमित्याहुः॥
सिद्धान्तकौमुदी
उत्तरसूत्रादिह भाव इत्यपकृष्यते । वदेर्भावे क्यप्स्याच्चद्यत् अनुपसर्गे सुप्युपपदे । ब्रह्मोद्यम् । ब्रह्मवद्यम् । ब्रह्म वेदः तस्य वदनमित्यर्थः । कर्मणि प्रत्ययावित्यके । उपसर्गे तु ण्यदेव । अनुवाद्यम् । अपवाद्यम् ॥
वदः सुपि क्यप् च - वदः सुपि । उत्तरेति । "भुवो भावे" इत्यत्तरसूत्राद्भावे इत्यपकृष्यते इत्यर्थः । भूधातोरकर्मकत्वेन उत्तरसूत्रे भावग्रहणस्य वैयथ्र्यादिति भावः । अनुपसर्गे इति ।वृः सुप्यनुसर्गग्रहण॑मिति भाष्यादिति भावः । ब्राहृओद्यमिति । वदेः क्यपि वचिस्वपी॑पि संप्रसारणम् ।वस्तुतस्तु नेह भावग्रहणमपकृष्यते, तत्र भावग्रहणमुत्तरार्थमिति भाष्या॑दिति मतमनुसृत्य आह — कर्मणि प्रत्ययावित्येके इति । क्यब्यतावित्यर्थः ।
वदः सुपि क्यप् च - वदः । सकर्मकत्वाद्भावे कृत्यप्रत्ययो दुर्लभः,लः कर्मणि॑ इति सूत्र इवतयोरेव॑ इत्यत्रापि सकर्मकेभ्यः कर्मणि, अकर्मकेभ्य एव भावे इति सिद्धान्तात् । अत आह — — भाव इत्याकृष्यत इति ।भुवो भावे॑ इत्यत्राऽनुपसर्ग इत्यनुवर्तनात्, निरुपसर्गस्य भवतेरकर्मकत्वात्तयोरेव कृत्ये॑ ति भावे कृत्यप्रत्ययसिद्धौ भावग्रहणस्य वैयथ्र्यशङ्कायां भावग्रहणमुत्तरार्थमिति भाष्ये स्थितम् । तद्भाष्यस्वारस्यग्रहिणां मतमाह — - कर्मणीति । अनुपसर्ग इति । सुपि किम् ।हनस्तोऽचिण्णलोः॑घातः । अनुपसर्गे किम् । प्रघातः । भावे घञ् ।
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
वदः सुपि क्यप् च (726) (444 प्रत्ययविधिसूत्रम्।। 3 । 1 । 6 आ.8) (1947 परिसंख्यावार्तिकम्।। 1 ।।) (भाष्यम्) वदः सुप्यनुपसर्गग्रहणं कर्तव्यम्। इह मा भूत् ‐ - प्रवाद्यं संवाद्यम्। (आक्षेपभाष्यम्) तत्तर्हि कर्तव्यम्। (समाधानभाष्यम्) न कर्तव्यम्। अनुपसर्ग इति वर्तते।। (वार्तिकसार्थक्यभाष्यम्) एवं तर्ह्यन्वाचष्टे ‐ - ‐ अनुपसर्ग इत्येवं वर्तते इति।। (वार्तिकवैर्यथ्यभाष्यम्) नैतदन्वाख्येयम् ‐ - अधिकारा अनुवर्तन्तेःथ्द्य;ति। एष एव च न्यायो यदुत अधिकारा अनुवर्तेरन् इति।। वदः सुपि।। 106 ।।