॥ तस्मै पाणिनये नम: ॥
Page loading... Please wait.
2|4|74
SK 2650
2|4|74
यङोऽचि च   🔊
SK 2650
सूत्रच्छेद:
यङः - षष्ठ्येकवचनम् , अचि - सप्तम्येकवचनम् , च - अव्ययम्
अनुवृत्ति:
-
अधिकार:
-
सम्पूर्णसूत्रम्
Unavailable at the moment
सूत्रार्थ:
This sutra is not updated yet.

The sutras are being written one by one, so this sutra will eventually get updated. Meanwhile, you can refer to the commentaries below.
One-line meaning in English
This sutra is not updated yet.
काशिकावृत्तिः
यङो लुग् भवति अचि प्रत्यये परतः। चकारेन बहुलग्रहनम् अनुकृष्यते, न तु छन्दसि इति। तेन छन्दसि भाषायां च यङो लुग् भवति। लोलुवः। पोपुवः। सनीस्रंसः। दनीध्वंसः। बहुलग्रहणादञ्च्यपि भवति। शाकुनिको लालपीति। दुन्दुभिर्ववदीति।
`अचि प्रत्यये परतः` इति। प्रत्ययग्रहणमचीति न प्रत्याहारग्रहणमिति प्रदर्शनार्थम्। यदि हि प्रत्याहारग्रहणभिमतं स्यात् तदाऽणीति णकारेणैव कुर्यात्। न हि यङन्तादणोऽन्येऽचः परे सम्भवन्तीत्यभिप्रायः। इदमेवाज्ग्रहणं ज्ञापकम्-- सर्वे धातवः पचाद्यन्तःपातिन इति। `लोलुवः`इति। `धातोरेकाचो हलादेः क्रियासमभिहारे` 3|1|22 इति यङ्, द्वर्वचनं `सन्यङोः` 6|1|9 इत्यनेन, `गुणो यङलुकोः` 7|4|82 इति गुणः। लोलू य इति स्थिते पचाद्यच्, यङो लुक्, `न धातुलोप` 1|1|4 इत्यादिना गुणप्रतिषेधः। `अचि श्नुधातु` 6|4|77 इत्यादिनोवङ। `सनीरुआंसः। दनीध्वंसः` इति। `रुआन्सु ध्वन्सु अवरुआंसने` (धातुपाठः-754,755), पूर्ववद्यङ्दिकार्यम्। ` न लुमताङ्गस्य` 1|1|62 इति प्रतिषेधात् प्रत्ययलक्षणेन `अनिदिताम्` 6|4|24 इत्यादिनाऽनुनासिकलोपो न भवति। `नीग्वञ्चु` 7|4|84 इत्यादिनाऽभ्यासस्य नीगागमः। `लालपीति।वावदीति` इति। लपेर्वदेश्च `दीर्घोऽकितः` 7|4|83 इत्यभ्यासस्य दीर्घः। `यङो वा` 7|3|94 इतीट्॥
यङेऽचि च॥ अचि प्रत्यये परत इति। पचाद्यचीत्यर्थः। एतदेव ज्ञापकम्---सर्वधातुभ्यः पचाद्यच् भवतीति। प्रत्याहारग्रहणं तु न भवति, तथा हि सति---अणीत्येव वक्तव्यम्; अन्याजादेः प्रत्ययस्यासंभवात्। न तु च्छन्दसीति। ठ्हुश्नुवोः सार्वधातुकेऽ इत्यत्र वार्तिकम्---ठ्हुश्नुग्रहणमनर्थकमन्यस्याभावात्ऽ। यान्ति वातीत्यत्र क्ङ्तीत्यिधिकारान्न भविष्यति, यातः वातः, अचीत्यनुवर्तते। यान्ति वान्ति, ओरिति। युवन्ति रुवन्ति, अनेकाच इति वर्तते। अयुवन्, अरुवन्, अडागमोऽसिद्धः। प्रोर्णवन्ति, असंयोगपूर्वस्येति वर्तते। यङ्लुङ्निवृत्यर्थ तर्हि हुश्नुग्रहणम्---योयुवति, रोरुवति। यङ्लुगर्थमिति चेदार्धधातुकत्वास्तिद्धम्, छान्दसो यङ्लुक्, तत्र ठ्च्छन्दस्युभयथाऽ इत्यार्धधातुकत्वादेव न भविष्यति। तदेवं यङ्लुकश्छान्दसत्वमभ्युपगम्य हुश्नुग्रहणं प्रत्याख्यातं वार्तिककारेण। स मन्यते---चकारेणात्र ठ्बहुलं च्छन्दसिऽ इति सर्वमनुवर्तिष्यते, तेनाचि प्रत्यये परतः च्छन्दसि भाषायां यङे लुग् भवतीत्येकं वाक्यम्, च्छन्दसि बहुलमनैमितिको लुगिति द्वितीयम्, प्रसिद्धश्च तथा छान्दसो यङ्लुगिति। प्रयोगश्च चिरन्तनः पद्ये गद्ये च काव्याख्यायिकादौ विकटपदएपन्यासप्रधानैरपि कविभिर्न कृतो द्दश्यते। भाष्यकारस्तु ठ्हुश्नुवोरिति वक्ष्यन्ति, एवं तर्ह्येतज्ज्ञापयति---भाषायामपि यङ्लुक्ऽ इति, तेन चेचिदीति, चेच्छिदीति, योयवीतीत्यादि सिद्धं भवति। वृत्तिकारस्तु मन्यते----ठ्यदि ज्ञापकेनापि तावद्भाषायामपि यङ्लुकः प्रयोगे भवति, हन्तैवमत्रैव च्छन्दोग्रहणं मानुवृतत्! प्रयेगस्तु ज्ञापकाश्रयेणैव यथाभिधानं व्यवस्थास्यतेऽ इति, अतो न भाष्यवार्तिकविरोधो वृतेः शङ्कनीयः॥
सिद्धान्तकौमुदी
॥ अथ तिङन्तयङ्लुक्प्रकरणम्‌ ॥

यङोऽच्प्रत्यये लुक् स्याच्चकारात्तं विनापि बहुलं लुक् स्यात् । अनैमित्तिकोऽयमन्तरङ्गत्वादादौ भवति । ततः प्रत्ययलक्षणेन यङन्तत्वाद्द्वित्वम् । अभ्यासकार्यम् । धातुत्वाल्लडादयः । शेषात्कर्तरि---(कौमुदी-2149) इति परस्मैपदम् । अनुदात्तङित---(कौमुदी-2157) इति तु न । ङित्त्वस्य प्रत्ययाप्रत्ययसाधारणत्वेन प्रत्ययलक्षणाप्रवृत्तेः । यत्र हि प्रत्ययस्यासाधारणं रूपमाश्रीयते तत्रैव तत् । अत एव सुदृषत्प्रासाद इत्यत्र अत्वसन्तस्य--(कौमुदी-425) इति दीर्घो न । येऽपि स्पर्धशीङादयोऽनुदात्तङितस्तेभ्योपि न । अनुदात्तङित--(कौमुदी-2157) । इत्यनुबन्धनिर्देशात् । तत्र च [(परिभाषा - ) श्तिपा शपा...] इति निषेधात् । अत एव श्यन्नादयो न । गणेन निर्देशात् । किंतु शबेव । चर्करीतं चेत्यादादौ पाठाच्छपो लुक् ॥
Text Unavailable. If you can help fixing this issue by providing this text, please let us know using the feedback link at the bottom of this page. Thank you!
यङोऽचि च - यङोऽचि च । यङा साहचर्यादचीति प्रत्ययो गृह्रते न तु प्रत्याहारः ।ण्यक्षत्रियार्षे॑ त्यतोऽत्र लुगनुवर्तते । तदाह — अच्प्रत्यये लुक् स्यादिति । चकारेणबहुलं छन्दसी॑त्यतो बहुलमित्यनुकृष्यत इत्याह — बहुलं लुक स्यादिति । केचित्तुछन्दसी॑त्यनुकर्षन्ति,तेषामपि मते क्वचिद्भाषायां यङ्लुग्भवत्येव ।भूसुवो॑रिति गुणनिषेधे सिद्धे बोभूत्विति छन्दसि निपातनाज्ज्ञापकात् । एतच्च मूले एव स्फुटीभविष्यति । अनैमित्तिकोऽयमिति । अच्प्रत्यये विधीयमानो यङ्लुक्तु तन्निमित्त एव.तेन लोलुवः पोपुव इत्यादौन धातुलोपे॑ति निषेधः सिद्ध्यति । यङन्तत्वादिति ।सन्यङो॑रिति षष्ठी, न तु सप्तमी, अन्यथा यङो लुका लुप्तत्वेन प्रत्ययलक्षणाऽप्रवृत्तेद्र्वत्वं न स्यादिति भावः । न चाऽङ्गाधिकारविहितकार्यस्यैवन लुमते॑ति निषेधाद्द्वित्वमत्र स्यादेवेति सप्तमीपक्षोऽपि निर्दुष्ट इति वाच्यं,न लुमते॑त्यत्राऽङ्गाधिकारो न गृह्रते किं तु आङ्गमनाङ्गं वा प्रत्यये परतः पूर्वस्य विधीयमानं सर्वमिति सिद्धान्तात् । अन्यथाराजपुरुष॑ इत्यादौ नलोपो न स्यात्, त्वदुक्तरीत्या प्रत्ययलक्षणप्रवृत्तौ भत्वेन पदत्वबाधात् । यद्यपिएकाच॑ इति विधीयमानं द्व#इत्वंश्तिपा शपे॑ त्यादिना निषिध्यते तथापि तत्स्यादेव ।गुणो यङ्लुकोः॑,रुग्रिकौ च लुकी॑त्याद्यभ्यासकार्यविधिभिर्द्वित्वाऽनिषेधस्य ज्ञापनात् । प्रत्ययाप्रत्ययेति । प्रत्यये ङित्त्वं दृश्यतेऋतेरीय॑ङित्यादिषु, अप्रत्ययेऽपि दृश्यते — चित्रङादिषु । एवं च यङो लुकि प्रत्ययलक्षणेन यङाश्रितङित्त्वप्रयुक्तकार्यमात्मनेपदमत्र न शङ्क्यमिति बावः ।ङित इत्यनुबन्धनिर्देशा॑दिति परिहारस्त्वत्र नोक्कतः, शीङादीनामिव भू इत्यादिधातूनामनुबन्धेनाऽनिर्दिष्टत्वात् । यङो ङकारस्य प्रत्ययाऽनुबन्धत्वेन समुदायाऽननुबन्धत्वाद्यङन्तोऽपि धातुरनुबन्धेनाऽनिर्दिष्ट इति बोध्यम् । सुदृषदिति । शोभना दृषदोऽस्मिन्नतिति बहुव्रीहौ दृषच्छब्दो जसन्तः । दीर्घो नेति ।अ॑सिति प्रत्ययोऽप्रत्ययश्चास्तीति प्रत्ययस्याऽसाधारणरूपानाश्रयणात्प्रत्ययक्षणेनाऽसन्तत्वाऽभावादिति भावः । तेभ्योऽपीति । ये त्वनुदात्तेतः, प्रत्ययलक्षणं विनैव ङितश्च तेभ्योऽपीत्यर्थः । अदादौ पाठादिति । तथा चआदिप्रभृतिभ्यः शपः॑ इत्यनेन यङ्लुगन्तात्परस्य शपो लुगित्यर्थः ।
लघुसिद्धान्तकौमुदी
यङोऽचि प्रत्यये लुक् स्यात्, चकारात्तं विनापि क्वचित्। अनैमित्तिकोऽय मन्तरङ्गत्वादादौ भवति। ततः प्रत्ययलक्षणेन यङन्तत्वाद्द्वित्वम्। अभ्यासकार्यम्। धातुत्वाल्लडादयः। शेषात्कर्तरीति परस्मैपदम्। चर्करीतं चेत्यदादौ पाठाच्छपो लुक्॥
महाभाष्यम्
यङोचि च। ऊतोचि। ऊतः अचीति वक्तव्यम्। इह मा भूत् ‐ सनीस्रसो दनीध्वस इति।। अथ ऊत इत्युच्यते। इह कस्मान्न भवति ‐ योयूयः। रोरूयः? विहितविशेषणमूकारग्रहणम्। ऊकारान्ताद्यो विहित इति। तत्तर्हि वक्तव्यम् ? न वक्तव्यम्। इष्टमेवैतत्संगृहीतम् ‐ सनीस्रंसो दनीध्वंस इत्येव भवितव्यम् ।। यङो ।। 74 ।।