॥ तस्मै पाणिनये नम: ॥
Page loading... Please wait.
2|4|66
SK 1148
2|4|66
बह्वचः इञः प्राच्यभरतेषु   🔊
SK 1148
सूत्रच्छेद:
बह्वचः - पञ्चम्येकवचनम् , इञः - षष्ठ्येकवचनम् , प्राच्यभरतेषु - सप्तमीबहुवचनम्
अनुवृत्ति:
-
अधिकार:
-
सम्पूर्णसूत्रम्
Unavailable at the moment
सूत्रार्थ:
This sutra is not updated yet.

The sutras are being written one by one, so this sutra will eventually get updated. Meanwhile, you can refer to the commentaries below.
One-line meaning in English
This sutra is not updated yet.
काशिकावृत्तिः
बह्वचः प्रातिपदिकात् य इञ् विहितः प्राच्यगोत्रे भरतगोत्रे च वर्तते, तस्य बहुषु लुग् भवति। पन्नागाराः। मन्थरैषणाः। भरतेषु खल्वपि युधिष्ठिराः। अर्जुनाः। बह्वचः इति किम्? बैकयः। पौष्पयः। प्राच्यभरतेषु इति किम्? बालाकयः। हास्तिदासयः। भरताः प्राच्या एव, तेषां पुनर् ग्रहणं ज्ञापनार्थम् अन्यत्र प्राग् ग्रहणे भरतग्रहणं न भवति इति। तेन इञः प्राचाम् 2|4|60 इति भरतानां युवप्रत्ययस्य लुग् न भवति। अर्जुनिः पिता। आर्जुनायनः पुत्रः।
`भरताः` इति। येषां भरत आद्यः संज्ञाकारी ते भरताः। `पन्नागाराः` इत्यादिषूहाहरणेषु `अत इञ्` 4|1|95 , तस्य लुक्। `बालाकयः` इति। बाह्वादित्वादिञ्। `हास्तिदासयः` इति। `अत इञ्` 4|1|95 । `आर्जुनायनः` इति। `यञियोश्च` 4|1|101 इति फक्॥
बह्वच इञः प्राच्यभरतेषु॥ भरतापत्येषु भरतशब्दाऽभेदोपचाराद्वर्तते, यथा----ठ्रघूणामन्वयं वक्ष्येऽ इति। युधिष्ठिरार्जुनशब्दाभ्यां कुर्वाणोऽपवादो बाह्वादिलक्षण इञ्। बलाकाशब्देऽपि बाह्वादिः। भरताः प्राच्या एवेति। ठ्प्राच्यभरतेषुऽ इति द्वन्द्वस्तु सामान्यविशेषवाचिनोर्गोबलीवर्दन्यायेनेति भावः॥
सिद्धान्तकौमुदी
बह्वचः परो य इञ्प्राच्यगोत्रे भरतगोत्रे च वर्तमानस्तस्य लुक्स्यात् । पन्नागाराः । युधिष्ठिराः ॥
बह्वचः इञः प्राच्यभरतेषु - बह्वच इञः । प्राच्ये उदाहरति — पन्नागारा इति । पन्नागारस्यापत्यानीति विग्रहः । अत इञो लुक् । भरतगोत्रे उदाहरति — युधिष्ठिरा इति । युधिष्ठिरस्यापत्यानीति विग्रहः । कुरुलक्षणं ण्यं बाधित्वा बाह्वादित्वादिञ् । तस्य लुक् । बहुत्वे तु यौधिष्ठिरिः ।
बह्वचः इञः प्राच्यभरतेषु - युधिष्ठिरा इति । बहुष्वेव लुक् । नेह — यौधिष्ठिरिः । कुरुलक्षणं ण्यं बाधित्वा बाह्वादित्वादिञ् ।
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
बह्वच इञ्ञः प्राच्यभरतेषु (597) (368 लुक्सूत्रम् ।। 2।4।2 आ.3) (प्राच्यभरतानां समुच्चयाधिकरणम्) (आक्षेपभाष्यम्) किमयं समुच्चयः प्राक्षु च भरतेषु चेति। आहोस्विद्भरतविशेषणं प्राग्ग्रहणं प्राञ्ञ्चो ये भरता इति।। (जिज्ञासाभाष्यम्) किं चातः? (विशेषप्रदर्शनभाष्यम्) यदि समुच्चयः। भरतग्रहणमनर्थकम्। न ह्यन्यत्र भरताः सन्ति।। अथ प्राग्ग्रहणं भरतविशेषणम्। प्राग्ग्रहणमनर्थकम्। नह्यप्राञ्ञ्चो भरताः सन्ति।। (प्रथमपक्षाभ्युपगमभाष्यम्) एवं तर्हि समुच्चयः।। (दोषस्मरणभाष्यम्) ननु चोक्तम् ‐ भरतग्रहणमनर्थकं नह्यन्यत्र भरताः सन्तीति।। (समाधानभाष्यम्) नानर्थकम्। ज्ञापकार्थम्।। किं ज्ञाप्यते? एतज्ज्ञापयत्याचार्यः ‐ अन्यत्र प्राग्ग्रहणे भरतग्रहणं न भवति इति।। किमेतस्य ज्ञापने प्रयोजनम्? इञ्ञः प्राचाम् भरतग्रहणं न भवति। औद्दालकिः पिता। औद्दालकायनः पुत्र इति।। बह्वचः ।। 66 ।।