Page loading... Please wait.
2|4|52 - अस्तेर्भूः
॥ तस्मै पाणिनये नमः ॥
2|4|52
SK 2470
अस्तेर्भूः   🔊
सूत्रच्छेदः
अस्तेः (षष्ठ्येकवचनम्) , भूः (प्रथमैकवचनम्)
अनुवृत्तिः
-
अधिकारः
आर्धधातुके  2|4|35
सम्पूर्णसूत्रम्
Will be updated soon
सूत्रार्थः
Will be updated soon.
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
अस्तेर् धातोर् भूः इतयम् आदेशो भवति आर्धधातुके। भविता। भवितुम्। भवितव्यम्। इह कस्मान् न भवति, ईहामास, ईहामासतुः, ईहामासुः? कृञ् च अनुप्रयुज्यते लिटि 3|1|40 इति प्रत्याहारग्रहणेन अस्तेर् ग्रहणसामर्थ्यात्। तथा चोच्यते अनुप्रतोगे तु भुवा ऽस्त्यबाधनम् स्मरन्ति कर्तुर् वचनान् मनीषिणः। इति।
`ईहामास` इति। ईहतेः `इजादेश्च गुरुमतोऽनृच्छः` 3|1|36 इत्याम्। `आमः` 2|4|81 इति लेर्लुक्; `कृञ्चानुप्रयुज्यते लिटि` 3|1|40 इत्यस्तेर्लिट्परस्यानुप्रयोगः। `प्रत्याहरग्रहणेनास्तेग्र्रहणसामथ्र्यात्` इति। `कृञ्चानुप्रयुज्यते लिटि` 3|1|40 इत्यत्र कृञिति प्रत्याहारग्रहणम्, `अभूततद्भावे कृभ्वस्तियोगे सम्पद्यकर्तरि` 5|4|50 इति कृशब्दादारभ्य `कृञो द्वितीयतृतीयशम्बबीजात्` 5|4|58 इत्याकृञो ञकारात्। तेन च प्रत्याहारग्रहणेनास्तेरपि ग्रहणम्; तस्यैतदेव प्रयोजनम्-- आसेत्ेयतदनुप्रयोगे रूपं यथा स्यादिति। यदि चास्तेरनुप्रयोगेऽपि भूभावः स्यात्, तदासेत्येतदनुप्रयोगे रूपं न स्यादिति प्रत्याहारग्रहणमनर्थकम्। ततश्च`कृभ्वनुप्रयुज्यते लिटि` इत्येवं ब्राऊयात्। तत्राप्ययमर्थः-- किमिदं प्रत्याहारग्रहणमुत करोतेरित्येव सन्देहः परिह्मतो भवति, कृतञ्च प्रत्याहारग्रहणम्, तस्मात् प्रत्याहारग्रहणसामथ्र्यादनुप्रयोगेऽपि भूभावोऽस्तेर्न भवति। `तथा चोच्यते` इत्यादिनाऽनन्तरोक्तमेवार्थमाप्तवचनेन द्रढयति। भूरिति दीर्घोच्चारणं निष्ठायां ह्यस्वश्रवणं मा भूत्-- भूतो भूतवानिति, अस्तेरिति श्तिपा निर्देशोऽस्यतेर्मा भूत्; नैतदस्ति, निरनुबन्धक(व्या।प।53) पिरभाषयैवास्यतेर्न भविष्यति। तस्य ह्रुकारोऽनुबन्धः `इदितो वा` 7|2|56 इति विशेषणार्थः कृतः। अस्तेस्त्वकार उच्चारणार्थः, नानुबन्धः। एवं तर्हि श्तिपा निर्देशो वैचित्र्यार्थ इत्येके। निरनुबन्धकपरिभाषायाः प्रत्ययविधिविषयत्वादित्यपरे॥
अस्तेर्भूः॥ भवतेरेव भवितेत्यादौ सिद्धेऽसेतरसितेत्यादिनिवृतये योगारम्भः। अनुप्रयोगे त्विति। अनुप्रयोगेउविषये भुवाउभूभावेनास्तेरनिवृत्तिं मनीषिणः स्मरन्ति। कर्तुःऊ सूत्रकारस्य वचनात्। मनीषिणः कर्तुरिति वा॥
सिद्धान्तकौमुदी
बभूव । भविता । अस्तु । स्तात् । स्ताम् । सन्तु ॥
अस्तेर्भूः - अस्तेर्भूः । असधातोर्भूभावः स्यादाद्र्धधातुके परे इत्यर्थः । अस् हि इति स्थिते —
Text Unavailable. Please use feedback link below to provide the text if you have.
लघुसिद्धान्तकौमुदी
आर्धधातुके। बभूव। भविता। भविष्यति। अस्तु, स्तात्। स्ताम्। सन्तु॥
महाभाष्यम्
Text Unavailable. Please use feedback link below to provide the text if you have.