॥ तस्मै पाणिनये नम: ॥
Page loading... Please wait.
2|4|47
SK 2615
2|4|47
सनि च   🔊
SK 2615
सूत्रच्छेद:
सनि - सप्तम्येकवचनम् , च - अव्ययम्
अनुवृत्ति:
-
अधिकार:
आर्धधातुके  [2|4|35]
सम्पूर्णसूत्रम्
Unavailable at the moment
सूत्रार्थ:
This sutra is not updated yet.

The sutras are being written one by one, so this sutra will eventually get updated. Meanwhile, you can refer to the commentaries below.
One-line meaning in English
This sutra is not updated yet.
काशिकावृत्तिः
सनि परतः इणो ऽबोधनार्थस्य गमिरादेशो भवति। जिगमिषति, जिगमिषतः, जिगमिषन्ति। अबोधने इत्येव, अर्थान् प्रतीषिषति। इण्वदिक इत्येव, अधिजिगमिषति। योगविभाग उत्तरार्थः। इङश्च 2|4|48 इति सन्येव यथा स्यात्।
`जिगमिषति` इति। `गमेरिट् परस्मैपदेषु` 7|2|58 इतीट्। `प्रतीषिषति` इति। `अजादेर्द्वितीयस्य` 6|1|2 इति `सन्यङोः` 6|1|9 इत्यनेन स इत्यस्य द्वर्वचनम्। `सन्यतः` 7|4|79 इतीत्त्वम्। उपसर्गेकारस्य धातोरिकारेण सह `अकः सवर्णे दीर्घः` 6|1|97 । `इङश्च` 2|4|48 इत्यादिना योगविभागस्योत्तरार्थतां दर्शयति। एकयोगे हि णेरप्युत्तरत्रानुवृत्तिः स्यात्, ततश्च तत्राप्ययमादेशः प्रसज्येत॥
Text Unavailable. If you can help in fixing this issue by providing this text, please let us know using the feedback link at the bottom of this page. Thank you!
सिद्धान्तकौमुदी
इणो गमिः स्यात्सनि ने तु बोधने । जिगमिषति । बोधने प्रतीषिषति ॥इण्वदिकः (वार्तिकम्) ॥ अधिजिगमिषति । कर्मणि तङ् । परस्मैपदेषु इत्युक्तेर्नेट् । झलादौ सनि इति दीर्घः । जिगांस्यते । अधिजिगांस्यते अजादेशस्येत्युक्तेर्गच्छतेर्न दीर्घः । जिगंस्यते । संजिगंसते ॥
सनि च - सनि च ।इणो गा लुङी॑त्यत इण इति, "णौ गमिरबोधने" इत्यतो "गमिरबोधने" इति चानुवर्तते । तदाह — इणो गमिरित्यादि । जिगमिषतीति ।गमे॑रिति इट् । अत्रअज्झनगमा॑मिति दीर्घो स्थितेअजादेर्द्वितीयस्ये॑ति सनो द्वित्वे अभ्यासेत्त्वम् । प्रतिना सवर्णदीर्घे सकारद्वयस्यापि षत्वमिति भावः । "इक स्मरणे" इत्यस्याह — इण्वदिक इति । अनेन वार्तिकेन इक्धातुरिण्वद्भवतीत्यर्थः । ततस्चसनि चे॑ति गमिरादेश इति भावः । कर्मणि तङिति । इण्धातोरिग्धातोश्च सन्नन्तात्कर्मणि लटस्तङित्र्थः ।भावकर्मणो॑रित्यनेनेति भावः । परस्मैपदेष्विति ।गमेरिट्परस्मैपदेषु॑ इत्युक्तेस्तङि नेडित्यर्थः । झलादाविति ।अज्झने॑ति झलादौ सनि वहितो दीर्घ इत्यर्थः । जिगांस्यते इति । गन्तुमिष्यते इत्यर्थः । इणो रूपम् । अधिजिगांस्यते इति । स्मर्तुमिष्यत इत्यर्थः । इको रूपम् । जिगंस्यते इति । गम्लृधातोः सन्नन्तात्कर्मणि तङि रूपम् । गमेरजादेशत्वाऽभावान्न दीर्घः ।
सनि च - सनि च ।णौ गमिरबोधने॑इत्यतोऽबोधन इत्यनुवर्तते । प्रतीषिषतीति । तक्रकौण्डिन्यन्यायस्याऽनित्यत्वात्सन्रूपस्याभ्यासस्येत्वम् । अनित्यत्वे लिङ्गं तुनित्यं कौटिल्ये गतौ॑इत्यत्र नित्यग्रहणमिति वक्ष्यते । संजिगंसते इति ।समो गम्यृच्छिभ्या॑मिति तङ्पूर्ववत्सनः॑ इति सन्नन्तादपि भवति ।
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
सनि च इण्वदिक इत्येव। अधिजिगमिषति। अधिजिगमिषतः। अधिजिगमिषन्ति।। सनि च ।। 47 ।।