Page loading... Please wait.
2|4|45 - इणो गा लुङि
॥ तस्मै पाणिनये नमः ॥
2|4|45
SK 2458
इणो गा लुङि   🔊
सूत्रच्छेदः
इणः (षष्ठ्येकवचनम्) , गा लुप्तप्रथमान्तनिर्देशः लुङि (सप्तम्येकवचनम्)
अनुवृत्तिः
-
अधिकारः
आर्धधातुके  2|4|35
सम्पूर्णसूत्रम्
Will be updated soon
सूत्रार्थः
Will be updated soon.
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
इणः गा इत्ययम् आवेशो भवति लुङि परतः। अगात्, अगाताम्, अगुः। लुङि इति वर्तमाने पुनर् लुङ्ग्रहणम् आत्मनेपदेष्वन्यतरस्याम् 2|4|44 इत्येतन् मा भूत्। इह त्वविशेषेण नित्यं च भवति। अगात्। अगायि भवता। इण्वदिक इत वक्तव्यम्। अध्यगात्, अध्यगाताम्, अध्यगुः।
`अगात्` इति। `गतिस्था` 2|4|77 इत्यादिना सिचो लुक्। `अगुः` इति। `आतः` 3|4|110 इति झेर्जुस, `उस्यपदान्तात्` 6|1|93 इति पररूपत्वम्। `लुङीति वत्र्तमाने` इत्यादि। `लुङि च` 2|4|43 इत्योत लुङगर्हणेऽनुवत्र्तमाने यत्पुनः लुङग्रहणं कृतं तस्यैततप्रयोजनम्-- परस्मैपदेष्वपि यथा स्यात्। नित्यञ्चात्मनेपदेषु। एतेनैतद्दर्शयति-- पूर्वकं हि लुङग्रहणमात्मनेपदग्रहणेनान्यतरस्याग्रहणेन च सम्बद्धम्, अतस्तदनुवृत्तौ तयोरप्यनुवृत्तिः स्यात्। तथा चात्मनेपदष्वेव विकल्पेनादेशः स्यात्। तस्मादविशेषेण, नित्यञ्च यथा स्यादित्येवमर्थं पुनर्लुङग्रहणं क्रियते। `अगायि` इति। `चिण् भावकर्मणोः` 3|1|66 इति चिण्। `आतो युक् चिण्कृतोः` 7|3|33 इति युक्। `चिणो लुक्` 6|4|104 इति तकारस्य लुक्।`इण्वदिक इति वक्तव्यम्` इति। यथेणो गादेशो लुङि भवति, तथा `इक् स्मरणे` (धातुपाठः-1047) इत्यस्यापि भवतीत्येतदर्थरूपं व्याख्येयमित्यर्थः। तत्रेदं व्याख्यानम्-- `बहुलं छन्दसि` 2|4|39 इत्यतो बहुलग्रहणमनुवत्र्तते मण्डूकप्लुतिन्यायेन। तेनेकोऽपि लुङि गादेशो भविष्यतीति॥
इणो गा लुङ्॥ इगुरिति। ठ्गातिस्थाऽ इति सिचो लुक्, ठातःऽ इति झेर्जुस्, ठुस्यपदान्तात्ऽ। इण्वदिक इति वक्तव्यमिति। यद्यस्यैवायं प्रकरणस्य शेषः स्यात् ठिणिकोर्गा लुङ्---ईति सूत्रन्यासः कर्तव्यःऽ इत्यवक्ष्यत; यतस्तु खलु पृथगिण्वदिक इत्याह, तेन मन्यामहे---सर्वस्य शास्त्रस्य शेषोऽयमिति। तेन ठिणो यण्ऽ ठेतिस्तु शासुऽ इत्याद्यपि भवति----अधियन्ति, अधीत्येति॥
सिद्धान्तकौमुदी
गातिस्था (कौमुदी-2223) इति सिचो लुक् । अगात् । अगाताम् । अगुः । 1046 इङ् अध्ययने । नित्यमधिपूर्वः । अधीते । अधीयाते । अधीयते ॥
इणो गा लुङि - इणो गा । इण्धातोर्गा इत्यादेश स्याल्लुङीति सूत्रार्थः स्पष्टः । अगा स् त् इति स्थिते आह — गातिस्थेतीति । लृङि ऐष्यते । इङ् अध्ययने इति । अधिरुपरिभावे ।उपरिभावश्च पठने नियमपूर्वकत्व॑मिति भूवादिसूत्रे भाष्ये स्पष्टम् । नित्यमधिपूर्व इति । धातुपाठे वचनमिदम् । अधीते इत्यत्र धातुरुपसर्ग न व्यभिचरतीति भूवादिसूत्रे भाष्ये । अधीते इति ।सार्वधातुकमपि॑दिति ङित्त्वाद्गुणनिषेध सवर्णदीर्घः । अजादौ तु इयङ् ।तदाह — अधीयाते अधीयते इति । अधीषे अधीयाथे अधीध्वे । अधीये अधीवहे अधीमहे ।
Text Unavailable. Please use feedback link below to provide the text if you have.
लघुसिद्धान्तकौमुदी
गातिस्थेति सिचो लुक्। अगात्। ऐष्यत्॥ शीङ् स्वप्ने॥ 19॥
महाभाष्यम्
इणो गा लुङि (576) (359 आदेशसूत्रम् ।। 2।4।1 आ. 24) (1604 अतिदेशवार्तिकम् ।। 1 ।।) - इण्वदिकः - (भाष्यम्) इण्वदिक इति वक्तव्यम्। इहापि यथा स्यात् ‐ अध्यगात्। अध्यगाताम्। अध्यगुः।। इणो गा ।। 45 ।।