॥ तस्मै पाणिनये नम: ॥
Page loading... Please wait.
2|4|34
SK 351
2|4|34
द्वितीयाटौस्स्वेनः   🔊
SK 351
सूत्रच्छेद:
द्वितीया-टा-ओस्सु - सप्तमीबहुवचनम् , एनः - प्रथमैकवचनम्
अनुवृत्ति:
-
अधिकार:
-
सम्पूर्णसूत्रम्
Unavailable at the moment
सूत्रार्थ:
This sutra is not updated yet.

The sutras are being written one by one, so this sutra will eventually get updated. Meanwhile, you can refer to the commentaries below.
One-line meaning in English
This sutra is not updated yet.
काशिकावृत्तिः
अन्वादेशे ऽनुदात्तः इति वर्तते। द्वितीया टा ओसित्येतेषु परत इदम् एतदोरन्वादेशविषययोः एनशब्द आदेशो आदेशो भवति अनुदात्तः। इदमो मण्डूकप्लुतिन्यायेन अनुवृत्तिः। इमं छात्रं छन्दो ऽध्यापय, अथो एनं व्याकरणमध्यापय। अनेन छात्रेण रात्रिरधीता, अथो एनेनाहरप्यधीतम्। अनयोश्छात्रयोः शोभनं शीलम्, अथो एनयोः प्रभूतं स्वम्। एतदः खल्वपि एतं छात्रं छन्तो ऽध्यापय, अथो एनं व्याकरणमप्यध्यापय। एतेन छात्रेन रात्रिरधीता, अथो एनेनाहरप्यधीतम्। एतयोश् छात्रयोः शोभनं शीलम्, अथो एनयोः प्रभूतं स्वम्। एनदिति नपुंसकैकवचने वक्तव्यम्। प्रक्षालयैनत्। परिवर्तयैनत्। इह कस्मान् न भवति, अयं दण्डो हरानेन, एतमातं ङितं विद्यातिति? यत्र किञ्चिद् विधाय वाक्यान्तरेण पुनरन्यदुपदिश्यते सो ऽन्वादेशः। इह तु वस्तुनिर्देशमात्रं कृत्वा एकम् एव विधानम्।
द्वितीयाटौस्स्वेनः। द्वितीया च टाश्च ओश्च द्वितीयाटौसः, तेष्विति द्वन्द्वः। `इदमोऽन्वादेशे` इत्यत `इदम` इति, `अन्वादेशे` इति चानुवर्तते। `एतदस्त्रतसोः` इत्यत `एतद` इति च। तदाह--द्वितीयायामित्यादिना। `अनावादेश` शब्दं व्याचष्टे-किञ्चिदिति। विधातुमिति। अपूर्वं बोधयितुमित्यर्थः। अन्वादेशमुदाह्मत्य दर्शयति -यथेति। उदाहरणप्रदर्शने यथाशब्द। `ईषदर्थे क्रियायोगे मर्यादाभिविधौ च यः। एतमातं ङितं विद्याद्वाक्यस्मरणयोरङित्` इत्यत्र तु एनादेशो न, पूर्वार्धस्य यच्छब्दयोगेनानुवादत्वात्। किञ्चित् कार्यं विधातुमुपात्तस्य इत्यत्र च पूर्ववाक्ये यथाकथंचित्तदुपादानं विवक्षितं, न त्विदमैवेत्याग्रह इति भाष्ये स्पष्टम्। इति मान्ताः। अथ णकारान्ताः। गणयतेर्विजिति। `गण सङ्ख्याने` इति चुरादिरदन्तः। ततः सुपूर्वात्स्वार्थे णिच्। अल्लोपस्य स्थानिवत्त्वान्नोपधावृद्धिः। तस्माद्विच्, `अन्येभ्योऽपि दृश्यते` इति वचनाण्णिलोपः, अपृक्तलोपः, ततः सुबुत्पत्तिः, हल्ङ्यादिना सुलोपः। सुगण् इति रूपम्। सुगणौ, सुगण इत्याद्यविकृतमेव। सुपि `ङ्णोः कुक्टुक्शरी`ति टुग्विकल्पः। `चयो द्वितीयाः` इति टस्य ठ इत्यभिप्रेत्याह--सुगण्ठ्सु इति। द्वितीया।ञभावे रूपमाह--सुगण्ट्सु इति। टुगभावे रूपमाह--सुगण्सु इति। सुगाणिति। गणधातोरदन्ताण्णिच्, अल्लोपः। तस्य स्थानिवत्त्वान्नोपधावृद्धिः। तस्मात्क्विप्, णिलोपः अपृक्तलोपः। `अनुनासिकस्य क्विझलो`रिति दीर्घः। सुगाणिति रूपम्। सुगाणौ सुगाण इत्यादि। नच दीर्घे कर्तव्ये णिलोपाऽल्लोपयोः स्थानिवत्त्वं शङ्क्यं, दीर्घविधौ तन्निषेधात् , क्वौ विधिं प्रति तन्निषेधाच्च। इति आन्ताः। अथ नान्ताः। राजन्शब्दे विशेषमाह--परत्वादिति। हल्ङ्यादिलोपापेक्षया परत्वात्पूर्वमेव `सर्वनामस्थाने चाऽसंबुद्धौ` इति दीर्घः। ततो हल्ङ्यादिलोप इत्यर्थः। नच `विप्रतिषेधे यद्बाधितं तद्वाधितमेवे`ति न्यायात्कथमिह हल्ङ्यादिलोप इति वाच्यं, `पुनः प्रसङ्गविज्ञानात्सिद्ध`मिति। विप्रतिषेधे यद्वाधितं`मित्यस्याऽसार्वत्रिकत्वादिति भावः। नलोप इति। `न लोपः प्रातिपदिकान्तास्ये`ति नकारस्य लोप इत्यर्थः।
द्वितीयाटौस्स्वेनः॥ अनन्तरत्वादेतद एवैनादेशः प्राप्नोति, इदमोऽपीष्यते, तदिदमो ग्रहणं कर्तव्यम्? न कर्तव्यम्, ठिदमोऽन्वादोशेऽ इत्यत इदम इत्यनुवर्तिष्यते, एतदस्त्रतसोरित्यत्रापि संबन्धातस्यापि त्रतसोरादेशप्रसङ्गस्तत्राह---इदमो मण्डूअकप्लूतिन्यायेनानुवृत्तिरिति। इदमप्यत्र वक्तव्यम्----इदमो हप्रत्ययेन बाधितत्वात्रलोऽसम्भावात्रतसोहित्यत्रासम्बन्ध इति। यदि परमनुवृत्तिसामर्थ्यातस्याप्यादेशेन भाव्यम्, न चासति त्रलि तद्विधानमुपपद्यत इति त्रलः सता परिकल्प्यते? कल्प्यते? तदपि न; उतरार्थमप्यनुवृत्तिसम्बवादिति। एनदिति नपुंसकैकवचने वक्तव्यमिति। एनादेशे कृते ठतोऽम्ऽ इत्यम्भावे सत्येनमिति प्राप्नोत्यत एनदादेशो वक्तव्यः। यद्येवम्, अयमेव सर्वत्रास्तु, नार्थ एनादेशेन, कथम्---एनम् एनौ एनान्, ऐनेन, एनयोरिति? त्यदाद्यत्वे कृते भविष्यति, नपुंसकैकवचने तु नित्यत्वात् ठ्स्वमोर्नपुंसकात्ऽ इति लुकि कृते एनदिति स्यादिति सिद्धम्, इह त्वेनं श्रित इति द्वितीयासमासे यद्यप्येनादेशोऽथाप्येनदादेशः, उभायभ्यामपि न भाव्यम्, कथम्? ठन्तरङ्गानपि विधीन् बहिरङ्गो लुग्बाधतेऽ,तस्मादेतच्छ्रित इति भवति। एकमएव विधानमिति। ठयं दण्डःऽ इत्यनेन दण्डस्य सतामात्रमुपलक्ष्यते, न तु किञ्चिद्विधीयते। एवमीषदर्थ इत्यादिना आकारस्य स्वरूपमात्रं निर्दिश्यते, न तु किञ्चिद्विधीयते॥
सिद्धान्तकौमुदी
द्वितीयायां टौसोश्च परत इदमेतदोरेनादेशः स्यादन्वादेशे । किञ्चित्कार्यं विधातुमुपात्तस्य कार्यान्तरं विधातु पुनरुपादानमन्वादेशः । यथाऽनेन व्याकरणमधीतमेनं छन्दोऽध्यापयेति । अनयोः पवित्रं कुलमेनयोः प्रभूतं स्वमिति । एनम् । एनौ । एनान् । एनेन । एनयोः । गणयतेर्विच् । सुगण् । सुगणौ । सुगणः । सुगण्ठ्सु । सुगण्ट्सु । सुगण्सु । क्विप् । अनुनासिकस्य क्विझलोः (कौमुदी-2666)इति दीर्घः । सुगाण् । सुगाणौ । सुगाणः । सुगाण्ठ्सु । सुगाण्ट्सु । सुगाण्सु । परत्वादुपधादीर्घः । हल्ङ्यादिलोपः । ततो नलोपः । राजा ॥
द्वितीयाटौस्स्वेनः - द्वितीयाटौस्स्वेनः । द्वितीया च टाश्च ओश्च द्वितीयाटौसः, तेष्विति द्वन्द्वः । "इदमोऽन्वादेशे" इत्यत "इदम" इति, "अन्वादेशे" इति चानुवर्तते । "एतदस्त्रतसोः" इत्यत "एतद" इति च । तदाह — द्वितीयायामित्यादिना । "अनावादेश" शब्दं व्याचष्टे-किञ्चिदिति । विधातुमिति । अपूर्वं बोधयितुमित्यर्थः । अन्वादेशमुदाह्मत्य दर्शयति -यथेति । उदाहरणप्रदर्शने यथाशब्द ।ईषदर्थे क्रियायोगे मर्यादाभिविधौ च यः । एतमातं ङितं विद्याद्वाक्यस्मरणयोरङित् इत्यत्र तु एनादेशो न, पूर्वार्धस्य यच्छब्दयोगेनानुवादत्वात् । किञ्चित् कार्यं विधातुमुपात्तस्य इत्यत्र च पूर्ववाक्ये यथाकथंचित्तदुपादानं विवक्षितं, न त्विदमैवेत्याग्रह इति भाष्ये स्पष्टम् । इति मान्ताः । अथ णकारान्ताः । गणयतेर्विजिति । "गण सङ्ख्याने" इति चुरादिरदन्तः । ततः सुपूर्वात्स्वार्थे णिच् । अल्लोपस्य स्थानिवत्त्वान्नोपधावृद्धिः । तस्माद्विच्,अन्येभ्योऽपि दृश्यते॑ इति वचनाण्णिलोपः, अपृक्तलोपः, ततः सुबुत्पत्तिः, हल्ङ्यादिना सुलोपः । सुगण् इति रूपम् । सुगणौ, सुगण इत्याद्यविकृतमेव । सुपिङ्णोः कुक्टुक्शरी॑ति टुग्विकल्पः । "चयो द्वितीयाः" इति टस्य ठ इत्यभिप्रेत्याह — सुगण्ठ्सु इति । द्वितीया.ञभावे रूपमाह — सुगण्ट्सु इति । टुगभावे रूपमाह — सुगण्सु इति । सुगाणिति । गणधातोरदन्ताण्णिच्, अल्लोपः । तस्य स्थानिवत्त्वान्नोपधावृद्धिः । तस्मात्क्विप्, णिलोपः अपृक्तलोपः ।अनुनासिकस्य क्विझलो॑रिति दीर्घः । सुगाणिति रूपम् । सुगाणौ सुगाण इत्यादि । नच दीर्घे कर्तव्ये णिलोपाऽल्लोपयोः स्थानिवत्त्वं शङ्क्यं, दीर्घविधौ तन्निषेधात् , क्वौ विधिं प्रति तन्निषेधाच्च । इति आन्ताः । अथ नान्ताः । राजन्शब्दे विशेषमाह — परत्वादिति । हल्ङ्यादिलोपापेक्षया परत्वात्पूर्वमेवसर्वनामस्थाने चाऽसंबुद्धौ॑ इति दीर्घः । ततो हल्ङ्यादिलोप इत्यर्थः । नचविप्रतिषेधे यद्बाधितं तद्वाधितमेवे॑ति न्यायात्कथमिह हल्ङ्यादिलोप इति वाच्यं,पुनः प्रसङ्गविज्ञानात्सिद्ध॑मिति । विप्रतिषेधे यद्वाधितं॑मित्यस्याऽसार्वत्रिकत्वादिति भावः । नलोप इति ।न लोपः प्रातिपदिकान्तास्ये॑ति नकारस्य लोप इत्यर्थः ।
द्वितीयाटौस्स्वेनः - द्वितीयाटौस्सु ।इदमोऽन्वादेशे॑इत्यतःइदम॑इत्यनुवर्तते,अन्वादेश॑इति च ।एतदस्त्रतसो॑रित्यतएतद॑इत्यपि, तदाह — इदमेतदोरेनादेश इत्यादि ।अनुदात्त॑इत्यनुवर्तनादेनादेशोऽनुदात्त इति ज्ञेयः । कार्य विधातुमिति । अपूर्वं बोधयितुमित्यर्थः । ईषदर्थेक्रियायोगे मर्यादाङिविधौ च यः । एतमातंङितं विद्या॑दित्यत्र तु ईषदर्थादयो न विधीयन्ते किंत्वनूद्यते इति न तत्रैनादेशः । एतेननक्तं भीरुरयं त्वमेव तदिमं राधे गृहं प्रापये॑त्यपि व्याख्यातम् । भीरुत्वस्याऽनुवाद्यकत्वेन विवक्षितत्वात् ।इति मान्ताः । सुदाणिति । क्विप् । न चअनुनासिकस्य क्वी॑ति दीर्घे कर्तव्ये अल्लोपणिलोपयोः — स्थानिवद्भावः शङ्क्यः, दीर्घविधौ तन्निषेधात् । क्वौ विधिं प्रति निषेधाच्च । इति णान्ताः ।
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
द्वितीयाटौस्स्वेनः 565 (353 आदेशसूत्रम् ।। 2।4।1 आ.18) (इदमोपि स्थानित्वाधिकरणम्) (आक्षेपभाष्यम्) कस्यायमेनो विधीयते। एतदः प्राप्नोति। इदमोपि त्विष्यते। तदिदमो ग्रहणं कर्तव्यम्।। (समाधानभाष्यम्) न कर्तव्यम्। प्रकृतमनुवर्तते। क्व प्रकृतम्?। इदमोऽन्वादेशेशनुदात्तस्तृतीयादौ इति।। (आक्षेपभाष्यम्) यदि तदनुवर्तते, एतदस्त्रतसोस्त्रतसौ चानुदात्ताविदमश्च इतीदमोपि प्राप्नोति।। (आक्षेपबाधकभाष्यम्) नैष दोषः। संबन्धमनुवर्तिष्यते। इदमोऽन्वादेशेशनुदात्तस्तृतीयादौ। एतदस्त्रतसोस्त्रतसौ चानुदात्तौ इदमोऽन्वादेशेऽशनुदात्तस्तृतीयादावशू भवति। ततः द्वितीयाटौस्रत्वेनः। इदमः एतदश्च। तृतीयादौ इति निवृत्तम्।। अथ वा मण्डूकगतयोऽधिकाराः। तद्तथा ‐ मण्डूका उत्प्लुत्योत्प्लुत्य गच्छन्ति तद्वदधिकाराः।। (आक्षेपबाधकशेषभाष्यम्) अथ वा एकयोगः करिष्यते ‐ इदमोऽन्वादेशेशनुदात्तस्तृतीयादावेतदस्त्रतसोस्त्रतसौ चानुदात्तौ। ततः द्वितीयाटौस्स्वेनः इदम एतदश्च। तृतीयादाविति निवृत्तम् ।। (आक्षेपबाधकशेषभाष्यम्) अथवोभयं निवृत्तं तदपेक्षिष्यामहे।। (1596 वार्तिकम् ।। 1 ।।) - एनदिति नपुंसकैकवचने - (भाष्यम्) एनदिति नपुंसकैकवचने वक्तव्यम्। इदं कुण्डमानय प्रक्षालयैनत् परिवर्तयैनत् ।। (आक्षेपभाष्यम्) यद्येनत्क्रियते एनो न वक्तव्यः।। (प्रत्याक्षेपभाष्यम्) का रूपसिद्धिः ‐ अथो एनम्, अथो एने, अथो एनानीति?।। (प्रत्याक्षेपसमाधानभाष्यम्) त्यदाद्यत्वेन सिद्धम् ।। (समाधानबाधकभाष्यम्) यद्येवमेनश्रितको न सिध्यति। एनच्छ्रितक इति प्राप्नोति।। (समाधानसाधकभाष्यम्) यथालक्षणमप्रयुक्ते।। द्वितीयाटौ ।। 34 ।।