Page loading... Please wait.
2|4|25 - विभाषा सेनासुराच्छायाशालानिशानाम्
॥ तस्मै पाणिनये नमः ॥
2|4|25
SK 828
विभाषा सेनासुराच्छायाशालानिशानाम्   🔊
सूत्रच्छेदः
विभाषा (प्रथमैकवचनम्) , सेना-सुरा-छाया-शाला-निशानाम् (षष्ठीबहुवचनम्)
अनुवृत्तिः
-
अधिकारः
तत्पुरुषोऽनञ्कर्मधारयः  2|4|19
सम्पूर्णसूत्रम्
Will be updated soon
सूत्रार्थः
Will be updated soon.
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
सेना सुरा छाया शाला निशा इत्येवम् अन्तस् तत्पुरुषो नपुंसकलिङ्गो भवति विभाषा। ब्राह्मणसेनम्, ब्राहमणसेना। यवसुरम्, यवसुरा। कुङ्यच्छायम्, कुड्यच्छाया। गोशालम्, गोशाला। श्वनिशम्। श्वनिशा।
`आनिशम्` इति। यस्यां निशायां आआनो मत्ता विहरन्ति सा आनिशम्; आनिशेति चोच्यत इति॥
विभाषा सेनासुराच्छायाशालानिशानाम्॥ तत्पुरुष इति प्रकृतं षष्ठीबहुवचनान्तं विपरिणम्यते, नपुंसकमिति च भावप्रधानं संपद्यते। सेनाद्यन्तानां तत्पुरुषाणां नपुंसकत्वमित्यक्षरार्थः। वृतौ तु वस्तुमात्रं दशितम्। यद्वा---प्रथमास्थाने षष्ठी। कुड।ल्च्छायमिति। बाहुल्याभावेऽनेन विकल्पः, बाहुल्ये नित्यार्थम् ठ्छाया बाहुल्येऽ इत्युक्तम्। श्वनिशमिति। यस्यां निशायां श्वान उपवसन्ति सा श्वनिशमित्युच्यते। सा पुनः कृष्णचतुर्दशी तस्यां हि श्वान उपवसन्तीति प्रसिद्धिः॥
सिद्धान्तकौमुदी
एतदन्तस्तत्पुरुषः क्लीबं वा स्यात् । ब्राह्मणसेनम् । ब्राह्मणसेना । यवसुरम् । यवसुरा । कुड्यच्छाम् । कुड्यच्छाया । गोशालम् । गोशाला । श्वनिशम् । श्वनिशा । तत्पुरुषोऽनञ्कर्मधारय - (कौमुदी-822) इत्यनुवृत्तेर्नेह । दृढसेनो राजा । असेना । परमसेना ॥ । इति तत्पुरुषसमासप्रकरणम्‌ ।
विभाषा सेनासुराछायाशालानिशानाम् - विभाषा सेना । प्रथमार्ते षष्ठी । "तत्पुरुष" इत्यनुवृत्तं सेनादिभिर्विशेष्यते । तदन्तविधिः । तदाह — एतदन्त इति । प्रत्येकाभिप्रायमेकवचनम् । आनिशमिति । शुनो निशेति विग्रहः । कृष्णचतुर्दशीत्याहुः ।शुनश्चतुर्दश्यामुपवसतः पश्यामः॑ इति तिर्यगधिकरणे शाबरभाष्ये स्थितम् । दृढसेन इति । दृढा सेना यस्येति बहुव्रीहिः । तत्पुरुषत्वाऽभावान्न क्लीबत्वविकल्पः । असेनेति । तत्पुरुषत्वेऽपि नञ्समासत्वान्न क्लीबत्वविकल्पः । परमसेनेति । कर्मधारयत्वान्न कील्बत्वम् ।तत्पुरुषोऽनञ्कर्मधारयः॑ इत्यदिकारस्याऽत्रैव प्रयोजनमिति कैयटे प्रपञ्चितम् । *****इति तत्पुरुषसमासः*****टित्ले । वैयाकरण-सिद्धान्त-कौमुदी,श्रीमज्ज्ञानेन्द्रभिक्षुविरचितया तत्त्वबोधिनीटीकया, श्रीवासुदेवभट्टदीक्षितविरचितया बालोपकारिण्या बालमनोरमाख्यया व्याख्यया, (तत्पुरुषादारभ्य) महामहोपाध्याय-श्रीनागेशभट्टविरचितया लघुशब्देन्दुशेखरटीकया च समन्विता ।टीकत्रयोपेता आउथोर्ः महामहोपाध्यायश्रीभट्टोजिदीक्षितफुब्लिचतिओन्ः भ्हरथिय भोओक् चर्पोरतिओन्,१,ऊ ।भ् ।झवहेर् णगर्, भन्ग्लो ऋओअद्,डेल्हि-११०००७ । आच्चेस्सिओन् णो । ५१४७१येअर् ओf Eदितिओन् । १९९७ (Fइर्स्त्)फगेस् । ७६८प् ।शिऽए । २४च्म् ।ईश्भ्ण् । ८१-८५१२२-२२-७ळन्गुअगे । शन्स्क्रित्श्च्रिप्त् । डेवनगरिशुब्जेच्त् ःएअदिन्ग्स् । शन्स्क्रित्घ्रम्मर्Cलस्सिfइचतिओन् णो । फ्१५, Cक्ष्१,१,६,५भोओक् णो । ण् ९७फ्रिचे । ५००.०० ऋस्/-अथ ठगधिकार प्रकरणम् । — — — — — — — — — -
विभाषा सेनासुराछायाशालानिशानाम् - विभाषा सेना । प्राथमार्थे षष्ठीति सेनादिभिस्तत्पुरुषो विशेष्यते । विशेषणेन तदन्तविधिस्तदाह — एतदन्त इति । आनिशमिति । कृष्णचतुर्दशी । तस्यां किल केचिच्छ्वान उपवसन्ति । एतच्च शावरभाष्ये तिर्यगधिकरणे स्पष्टम् ।तत्पुरुष॑इत्याद्यधिकारसूत्रस्यात्रैव प्रयोजनं, न तुसंज्ञायां कन्थोशीनरेषु॑इत्यादिपञ्चसूत्र्याम् । अतत्पुरुषस्यच नञ्समासस्या कर्मधारयस्य च तत्राऽसम्भवादित्याकरे स्थितम् । तथैव प्रत्युदाहरति — — दृढसेन इत्यादि । ननु बहुव्रीहौ विशेष्यनिन्घता न्याय्यैवेति किमनेन तत्पुरुषग्रहणेन । मैवम् । न्यायापेक्षया वचनस्य बलीयस्त्वात् । किं चाऽसति तद्ग्रहणे द्वन्द्वे नपुंसकता स्यात्परवल्लिङ्गापवादत्वादस्य प्रकरणवादत्वादस्य प्रकरणस्येति दिक् । इति तत्पुरुषः॥
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
Text Unavailable. Please use feedback link below to provide the text if you have.