॥ तस्मै पाणिनये नम: ॥
Page loading... Please wait.
2|3|8
SK 548
2|3|8
कर्मप्रवचनीययुक्ते द्वितीया   🔊
SK 548
सूत्रच्छेद:
कर्मप्रवचनीययुक्ते - सप्तम्येकवचनम् , द्वितीया - प्रथमैकवचनम्
अनुवृत्ति:
-
अधिकार:
अनभिहिते  [2|3|1]
सम्पूर्णसूत्रम्
Unavailable at the moment
सूत्रार्थ:
This sutra is not updated yet.

The sutras are being written one by one, so this sutra will eventually get updated. Meanwhile, you can refer to the commentaries below.
One-line meaning in English
This sutra is not updated yet.
काशिकावृत्तिः
कर्मप्रवचनीयैर् युक्ते द्वितीया विभ्क्तिर् भवति। अनुर् लक्षणे 1|4|84 शाकल्यसय संहिताम् अनुप्रावर्षत्। आगस्त्यम् अन्वसिञ्चत् प्रजाः।
`शाकल्यस्य संहितामनु प्रावर्षत्` इति। `अनुर्लक्षणे` 1|4|83 इति कर्मप्रवचनयीसंज्ञा।
Text Unavailable. If you can help in fixing this issue by providing this text, please let us know using the feedback link at the bottom of this page. Thank you!
सिद्धान्तकौमुदी
एतेन योगे द्वितीया स्यात् । जपमनु प्रावर्षत् । हेतुभूतजपोपलक्षितं वर्षणमित्यर्थः । परापि हेताविति तृतीयाऽनेन बाध्यते । लक्षणेत्थंभूत (कौमुदी-552) इत्यादिना सिद्धे पुनः संज्ञाविधानसामर्थ्यात् ॥
कर्मप्रवचनीययुक्ते द्वितीया - कर्मप्रवचनीय । युक्ते इति भावे क्तः । तदाह — एतेन योगे इति जपमन्विति । कदा पर्जन्योऽवर्षदिति प्रश्ने उत्तरमिदम् । अत्र वृष्टिकाल उपदेश्यः, स च दुज्र्ञानत्वात्शाखाग्रं प्रति द्विकलश्चन्द्र॑ इतिवत्प्रज्ञानं किंचिदवलम्ब्यैव ज्ञाप्यः । जपोऽत्र प्रज्ञानम्, तत्र जपकाले पर्जन्यः प्रावर्षदिति संभवति । हेतुभूतजपो ह्रत्र लक्षणम् । हेतुत्वं च पूर्वकालवृत्तित्वघटितम् । एवंच वर्षहेतुभूतवरुणजपोत्तरकाले पर्जन्यः प्रावर्षदित्युत्तरं पर्यवस्यति । तत्र लक्षणत्वं हेतुत्त्वं चेति द्वयं द्वितीयार्थः । तदुभयमनुना द्योत्यते । लक्षणत्वं च ज्ञानजनकज्ञानविषयत्वम् । जपज्ञानेन तदुत्तरकालविशिष्टा वृष्टिज्र्ञाप्यते । ततस्च जपात्मकहेतुज्ञानजन्यज्ञानविषयो वर्षणमिति बोधः । तदाह — हेतुभूतेति । अनभिहिताधिकारान्न पर्जन्यात्तृतीया, तस्य तिङा अभिहितत्वात् । ननु हेतुत्वाऽविवक्षायांवृक्षमनु विद्योतते विद्यु॑दित्यत्रअनुर्लक्षणे॑इत्यत्र तदनुपादानात् । एवंच हेतुत्वाऽविवक्षायांवक्षमनु विद्योतते विद्यु॑दित्यत्र "अनुर्लक्षणे" इति सावकाशम् । "हेतौ" इति तृतीया तुधनेन कुल॑मित्यादौ सावकाशा ।पर्जन्यो जपमनु प्रावर्ष॑दित्यत्र तु तदुभयमपि प्रसक्तम् । तत्र परत्वाद्धेतुतृतीयैव स्यादित्यत आह — परापीति । "अनुर्लक्षणे" #इति कर्मप्रवचनीयत्वप्रयुक्तद्वितीयाविधिनेत्यर्थः । पुनः संज्ञेति ।वृक्षमनु विद्योतते विद्यु॑ दित्यत्र हि "अनुर्लक्षणे" इत्यस्य न प्रयोजनम्,लक्षणेत्थ॑मित्येव सिद्धेः । ततश्च "अनुर्लक्षणे" इत्यारम्भसामथ्र्याद्धेतुभूते लक्षणेऽनोः कर्मप्रवचनीयत्वलब्धया द्वितीयया हेतौतृतीया बाध्यत इति विज्ञायते इत्यर्थः । ततश्च हेतुत्वमपि शाब्दबोधे विषय इति फलति ।
Text Unavailable. If you can help fixing this issue by providing this text, please let us know using the feedback link at the bottom of this page. Thank you!
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
कर्मप्रवचनीययुक्ते द्वितीया 466 (कर्मप्रवचनीययोगे विभक्तिनियमप्रकरणम्) (300 द्वितीयासूत्रम् ।। 2। 3। 1 आ. 8 ।। (अर्थनियमाधिकरणम्) (1476 अर्थनियमवार्तिकम् 1) - कर्मप्रवचनीययुक्ते प्रत्यादिभिश्च लक्षणादिषूपसंख्यानं सप्तमीपञ्ञ्चम्योः प्रतिषेधार्थम् - (भाष्यम्) कर्मप्रवचनीययुक्ते प्रत्यादिभिश्च लक्षणादिषूपसंख्यानं कर्तव्यम्। वृक्षं प्रति विद्योतते विद्युत्, वृक्षं परि विद्योतते विद्युत्, वृक्षमनु विद्योतते विद्युत्। साधुर्देवदत्तो मातरं प्रति। साधुर्देवदत्तो मातरं परि। साधुर्देवदत्तो मातरमनु।। किं प्रयोजनम्?। सप्तमीपञ्ञ्चम्योः प्रतिषेधार्थम्। सप्तमीपञ्ञ्चम्यौ मा भूतामिति। साधुनिपुणाभ्यामर्चायां सप्तमी इति सप्तमी, पञ्ञ्चम्यपाङ्परिभिः इति पञ्ञ्चमी। तत्रायमप्यर्थः ‐ अप्रतेरिति न वक्तव्यं भवति।। (आक्षेपभाष्यम्) तत्तर्हि वक्तव्यम्?।। (समाधानभाष्यम्) न वक्तव्यम्।। उक्तं वा। किमुक्तम्?। एकत्र तावदुक्तम् ‐ अप्रतेरिति।। इतरत्रापि ‐ यद्यपि तावदयं परिर्दृष्टापचारो वर्जने चावर्जने च। अयं खल्वपशब्दोऽदृष्टापचारो वर्जनार्थ एव। तस्य कोन्यो द्वितीयः सहायो भवितुमर्हति ‐ अन्यदतो वर्जनार्थात्। तद्यथा ‐ अस्य गोर्द्वितीयेनार्थ इति गौरेवानीयते नाश्वो न गर्दभः।। कर्मप्रवचनीययु ।। 8 ।।