Page loading... Please wait.
2|3|6 - अपवर्गे तृतीया
॥ तस्मै पाणिनये नमः ॥
2|3|6
SK 563
अपवर्गे तृतीया   🔊
सूत्रच्छेदः
अपवर्गे (सप्तम्येकवचनम्) , तृतीया (प्रथमैकवचनम्)
अनुवृत्तिः
-
अधिकारः
अनभिहिते  2|3|1
सम्पूर्णसूत्रम्
Will be updated soon
सूत्रार्थः
Will be updated soon.
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
कालाध्वनोरत्यन्तसंयोगे इति वर्तते। अपवर्गः फलप्राप्तौ सत्यां क्रियापरिसमाप्तिः। अपवर्गे गम्यमाने कालाध्वनोरत्यन्तसंयोगे तृतीया विभक्तिर् भवति। मसेन अनुवाको ऽधीतः। संवत्सरेण अनुवाको ऽधीतः। अध्वनः क्रोशेन अनुवाको ऽधीतः। योजनेन अनुवाको ऽधीतः। अपवर्गे इति किम्? क्रोशम् अधीतो ऽनुवाकः। मासम् अधीतः। कर्तव्यादृत्तौ फलसिद्धेरभावात् तृतीया न भवति। मासम् अधीतो ऽनुवाकः, न च अनेन गृहीतः।
`अपवर्गः`इति। अत्यन्तसंयोगस्य फलरूपमेतद्विशेषणमुपात्तम्। तच्च क्रियात्यन्तसंयोगस्यैव सम्भवति, नान्यस्यति सामथ्र्यादत्र क्रियात्यन्तसंयोग एव गृह्रते। सर्वस्याश्च क्रियायाः परिसमाप्तिरस्ति; तस्माद्विशेषणोपादानसामथ्र्यात् फलप्राप्तौ सत्यां क्रियायाः परिसमाप्तिरिहापवर्गो विज्ञायत इत्यत आह-- `फलप्राप्तौ` इत्यादि। `कर्त्तृव्यावृतौ` इति। न हि मासमधीतोऽनुवाको न चानेन गृहीत इत्युक्तेऽपवर्गो गम्यते, किं तर्हि? कर्त्तुरशक्तिमात्रम्। न च तत्रापवर्गव्यपदेशः॥
अपवर्गे तृतीया॥ अपवर्गः फलप्राप्तौ सत्यां क्रियापरिसमाप्तिरिति। तत्रैवापवर्गशब्दो लोके प्रसिद्ध इति भावः। कर्तृव्यावृताविति। अशक्त्यादिना कर्तुरुपरमादित्यर्थः, तत्र मध्ये क्रिया विच्छिन्नेति प्रवृत्यपायः, न त्वपवृक्तेति॥
सिद्धान्तकौमुदी
अपवर्गः फलप्राप्तिस्तस्यां द्योत्यायां कालाध्वनोरत्यन्तसंयोगे तृतीया स्यात् । अह्ना क्रोशेन वाऽनुवाकोऽधीतः । अपवर्गे किम् ? मासमधीतो नायातः ॥
अपवर्गे तृतीया - अपवर्गे तृतीया । अपवर्द समाप्तिः,कर्मापवर्गे लौकिका अग्नयः॑ इत्यादौ दर्शनात् । इह तु फलप्राप्तिपर्यन्तत्वात् प्रायेण क्रियायाः । तदाह-अपवर्गः फलप्राप्तिरिति । कालाध्वनोरिति । अनेन "कालाध्वनोः" इति द्वितीयाय अयमपवाद इति सूचितम् । अह्नेति । अह्नि कोशे वा निरन्तरमनुवाकोऽध्ययनेन गृहीत इत्यर्थः । नायात #इति । न गृहीत इत्यर्थः ।
Text Unavailable. Please use feedback link below to provide the text if you have.
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
अपवर्गे तृतीया 464 (298 द्वितीयाबाधकतृतीयासूत्रम् ।। 2।3।1 आ.6) (अनिष्टापत्तिवारणाधिकरणम्) (1474 नियमवार्तिकम् 1) (- क्रियापवर्गे -) (भाष्यम्) क्रियाऽपवर्ग इति वक्तव्यम्। साधनापवर्गे मा भूद् ‐ मासमधीतोनुवाको न चानेन गृहीत इति।। अपवर्गे ।। 6 ।।