॥ तस्मै पाणिनये नम: ॥
Page loading... Please wait.
2|3|49
SK 192
2|3|49
एकवचनं संबुद्धिः   🔊
SK 192
सूत्रच्छेद:
एकवचनम् - प्रथमैकवचनम् , सम्बुद्धिः - प्रथमैकवचनम्
अनुवृत्ति:
प्रथमा /  [2|3|46] - प्रथमैकवचनम् , सम्बोधने  [2|3|47] - सप्तम्येकवचनम्
अधिकार:
अनभिहिते  [2|3|1]
सम्पूर्णसूत्रम्
सम्बोधने प्रथमा-एकवचनम् सम्बुद्धि:
सूत्रार्थ:
सम्बोधने प्रथमायाः एकवचनम् सम्बुद्धि-संज्ञकं भवति ।
सम्बोधने च 2|3|47 इत्यनेन प्रथमा-विभक्तेः प्रयोगः सम्बोधनस्य विषये अपि भवति । अस्मिन्नेव सन्दर्भे प्रथमा-एकवचनस्य सुँ-प्रत्ययः यदा सम्बोधनार्थम् प्रयुज्यते, तदा तस्य "सम्बुद्धिः" इति संज्ञा भवति ।

यथा - "बाल" शब्दस्य सम्बोधनैकवचनस्य रूपम् एवम् सिद्ध्यति -
बाल + सुँ [सम्बोधने च 2|3|47 इत्यनेन सम्बोधनस्य विवक्षायाम् प्रथमा । स्वौजस्... 4|1|2 इत्यनेन प्रथमैकवचनस्य विवक्षायाम् सुँ-प्रत्ययः]
→ बाल [एङ्ह्रस्वात्सम्बुद्धेः 6|1|69 इत्यनेन सम्बुद्धिवाचकस्य सुँ-प्रत्ययस्य लोपः]

सम्बुद्धि-संज्ञायाः प्रयोगः एङ्ह्रस्वात्सम्बुद्धेः 6|1|69, सर्वनामस्थाने चासम्बुद्धौ 6|4|8 एतादृशेषु सूत्रेषु कृतः दृश्यते ।
One-line meaning in English
The प्रथमा-एकवचन when used in the context of सम्बोधन gets the term "सम्बुद्धि".
काशिकावृत्तिः
आमन्त्रितप्रथमाया यदेकवानं, तत् सम्बुद्धिसंज्ञं भवति। हे पटो। हे देवदत्त। सम्बुद्धिप्रदेशाः एङ्ह्रस्वात् सम्बुद्धेः 6|1|69 इत्येवम् आदयः।
`हे पटो, हे देवदत्त` इति। अत्र सम्बुद्धिसंज्ञायां सत्याम्, `सम्बुद्धौ च` 7|3|106 इत्यधिकृत्य `ह्यस्वस्य गुणः` 7|3|108 इति गुणे `एङ ह्यस्वात् सम्बुद्धेः` 6|1|67 इति सोर्लोपो यथायोगं भवति। अथ सुग्रहणमेव कस्मान्न कृतम्, न च सप्तमीबहुवचनस्य प्रसङ्गः, सम्बोधनप्रथमाधिकारात्? सत्यम्; किन्तु नैतदस्ति; प्रत्ययमात्रस्य संज्ञाविधानार्थमेकवचनग्रहणं कृतम्-- हे पचनम्, हेपचमानेति; अन्यथा हि पूर्वेण यथा तदन्तस्य संज्ञा विहिता तथेहापि स्यात्। न चेहासंज्ञिनः कश्चिद्विशेषोऽङ्गीक्रियत इति सुशब्देन तदन्तमेव लक्ष्यते, ततश्च तदन्तकस्यैव संज्ञा स्यात्। तथा `एङ ह्यस्वात् सम्बुद्धेः` 6|1|67 इति सोर्लोपो विधीयमानः `आदेः परस्य` 1|1|53 इत्यादेरेव स्यात्; प्रत्ययमात्रस्य न स्यात्। तस्मात् प्रत्ययमात्रस्य संज्ञा यथा स्यादित्येवमर्थमेकवचनग्रहणम्॥
एकवचनं संबुद्धिः॥ हे पटो इति। संबुद्धौ च ठ्ह्रस्वस्य गुणःऽ इति गुणः, ठ्सुः संबुद्धिःऽ इति वक्तव्ये एकवचनग्रहणमेकोऽर्थ उच्यते येन तावन्मात्रस्य प्रत्ययस्य संज्ञार्थम्; अग्न्यथा प्रक्रमाभेदाय तदन्तस्य स्यात्॥
सिद्धान्तकौमुदी
संबोधने प्रथमाया एकवचनं संबुद्धिसंज्ञं स्यात् ॥
एकवचनं संबुद्धिः - हे रामसिति स्थिते,एङ्ह्यस्वात्संबुद्धेः॑ इति लोपं विधास्यन् संबुद्धिसंज्ञामाह — एकवचनम् ।प्रातिपदिकार्थलिङ्गे॑त्यतःप्रथमे॑त्यनुवृत्तं षष्ठआ विपरिणम्यते ।संबोधने चे॑त्यतः संबोधने इत्यनुवर्तते । तदाह-संबोधने इति ।सुः संबुद्धि॑रित्येव सुवचम् । प्रथमाग्रहणानुवृत्तेः सप्तमीबहुवचनस्य सुपो न ग्रहणम् । नचात्र प्रत्ययग्रहणपरिभाषया तदन्तग्रहणं शङ्क्यम् । "ह्यस्वस्य गुणः" इति संबुद्धौ परतोऽङ्गस्य गुणविधिबलात्, संज्ञाविधौ प्रत्ययग्रहणे तदन्तविधिनिषेधाच्च । एतेन तदन्तसंज्ञानिवृत्त्यर्थमेकवचनग्रहणमित्यपास्तम् ।
एकवचनं संबुद्धिः - एकवचनम् ।सुः संबुद्धि॑रित्येव सुवचम् । न च सप्तमीबहुवचनेऽतिप्रसङ्गः ।संबोधने प्रथमे॑त्यधिकारादेव तदभावादिति नव्याः । अत्र व्याचख्युः — ॒सुः संबुद्धि॑रिति वाच्ये एकवचनग्रहणमेकोऽर्थ उच्यते येन तावन्मात्रस्य प्रत्ययस्य संज्ञार्थम् । अन्यथासामत्रित॑मिति पूर्वसूत्रे तदन्तस्यामत्रितसंज्ञा कृतेति प्रक्रमाऽभेदाय इयमपि संज्ञा तदन्तस्यैव स्यादिति । एङ्ह्यस्वात्संबुद्धेः । यद्यत्रहल्ङ्याब्भ्य॑ इत्यतो हलमननुवर्त्त्यएङन्ताद्ध्रस्वान्ताच्चाङ्गात्परस्याः संबुद्धेरलोप॑ इति व्याख्यायेत, हलनुवृत्तावप्यङ्गात्परा या संबुद्धिः तस्या यद्धलिति वा, उभयथापिहे ज्ञाने॑ति न सिध्येत् । लोपात्परत्वात्सोरतोऽभि कृते परत्वान्नित्यत्वाच्च अमि पूर्वत्वे च कृते एकादेशस्य परादिवद्भावे ह्यस्वान्तात्परत्वाभावात्, पूर्वान्तवद्भावे अम एवाभावादुभयत आश्रयणे नान्तादिवदिति निषेधादतो व्याचष्टे-एङन्तादित्वादिना चेदित्यन्तेन ।
लघुसिद्धान्तकौमुदी
सम्बोधने प्रथमाया एकवचनं सम्बुद्धिसंज्ञं स्यात्॥
महाभाष्यम्
Text Unavailable. If you can help in fixing this issue by providing this text, please let us know using the feedback link at the bottom of this page. Thank you!