॥ तस्मै पाणिनये नम: ॥
Page loading... Please wait.
2|3|47
SK 533
2|3|47
सम्बोधने च   🔊
SK 533
सूत्रच्छेद:
सम्बोधने - सप्तम्येकवचनम् , च - अव्ययम्
अनुवृत्ति:
-
अधिकार:
अनभिहिते  [2|3|1]
सम्पूर्णसूत्रम्
Unavailable at the moment
सूत्रार्थ:
This sutra is not updated yet.

The sutras are being written one by one, so this sutra will eventually get updated. Meanwhile, you can refer to the commentaries below.
One-line meaning in English
This sutra is not updated yet.
काशिकावृत्तिः
आभिमुख्यकरणं, तदधिके प्रातिपदिकार्थे प्रथमा न प्राप्नोति इति वचनम् आरभ्यते। सम्बोधने च प्रथमा विभक्तिर् भवति। हे देवदत्त। हे देवदत्तौ। हे देवदत्ताः।
सम्बोधनम् = अभिमुखीकरणम्, `तदधिके प्रातिपदिक्रथा` इति। अभिमुखीकरणस्य क्रियापरत्वात् प्रातिपदिकार्थे तस्यान्तर्भावो नास्ति, त्सयातदात्मकत्वात्, तस्मात तेनाधिकः प्रातिपदिकार्थो भवति। अथ कथमिह प्रथमा-हे-पचनम्, हे पचमानेति? कथञ्च न स्यात्? शतृशानज्भ्यामुक्तत्वात् सम्बोधनस्य। एतावपि `सम्बोधने च` इति सम्बोधन एव वक्ष्यते। मा भूदनेन, पूर्वसूत्रेण भविष्यति? सम्बोधनार्थस्येह `कृत्तद्धितसमासाश्च` 1|2|46 इत्यनेन प्रातिपदिकार्थत्वात्। योगविभाग उत्तरार्थः॥
सम्बोधने च॥ आभिमुख्यकरणमिति। यद्वस्तु येनाकारेण सिद्धं तस्य तेनाकारेणाभिमुखीकरणं सम्बोधनम्, न त्वेकश्रुतिविधाविव कस्यचिदर्थस्यानुष्ठेयता प्रत्यायनम्; वाक्यार्थो हि सः। अभिमुखीकरणं तु न वाक्यार्थः, येन वीरः पुरुष इत्यादिवद्यदत्राधिक्यं स वाक्यार्थ इति प्रथमा सिद्ध्येत्। यस्य पदान्तरसंप्रयोगे सत्येव प्रतीतिः स वाक्यार्थः। इह तु देवदतेत्येतावत्युक्ते आभिमुख्यकरणं गम्यते, अतः पदार्थ पदार्थ एवात्राधिक्यमिति षष्ठ।लं प्राप्तायामिदं वचनं तदाह---तदधिके प्रातिपदिकार्थ इति। असिद्धेन चाकारेणाभिमुखीकरणं न संभवति---राजा भव युध्यस्व स्वाहेन्द्रशत्रुर्वर्द्धस्वेति। हे पचन् हे पचमानेत्यादौ शतृशानचोः संबोधने विधानेऽपि विभक्तिरहितयोस्तयोः कर्त्राद्यभिधान एव सामर्थ्यम्; यथा लोटो द्विर्वचननिरपेक्षस्येत्यनेन प्रथमा भवति। यद्वा---अभिहितः सोऽर्थोऽन्तभूतः प्रातिपदिकार्थः संपन्न इति पूर्वेण भविष्यति, योगविभाग उतरार्थः॥
सिद्धान्तकौमुदी
इह प्रथमा स्यात् । हे राम ॥ इति प्रथमा ॥
सम्बोधने च - संबोधने च । इहेति । संबोधनेऽधिके गम्येऽपि प्रथमा स्यादित्यर्थः । संबोधमभिमुखीकृत्य ज्ञापनम् । हे रामेति ।मां पाही॑ति शेषः । इह रामं प्रति मद्रक्षणं ज्ञाप्यम् । नचहे राजन्सार्वभौमो भव॑ इत्यत्र सार्वभौमशब्दादपि संबोधने प्रथमा स्यादिति वाच्यं, सम्यग्बोधनमेव हि संबोधनं, समित्युपसर्गबलात् । श्रोतरि विसिष्य राजत्वादिना ज्ञाते सत्येव तं प्रति कश्चिदर्थौ ज्ञापयितुं शक्यः, नान्यथा । ततश्च संबोधनविभक्तिरियमनुवाद्यविषयैवेति लभ्यते । न तु विधेयविषया । तथाच सार्वभौमत्वस्य विधेयस्य इदानीमसिद्धत्वेन अनुवाद्यत्वाऽभावान्न सार्वभौमशब्दात्संबोधनविभक्तिरिति मञ्जूषायां विस्तरः । [इति प्रथमा] ।
सम्बोधने च - सम्बोधने च । मात्रग्रहणात्तत्प्रत्याख्यानपक्षेऽपि प्रातिपदिकार्थे एव प्रथमेति नियमाद्वा सम्बोधनाधिक्येऽप्राप्तावस्यारम्भः । इह सम्बोधनं प्रकृत्यर्थं प्रति विशेष्यं, क्रिया प्रति विशेषणम् । तथा चव्रजानि देवदत्त॑इत्यादौएकत्ङ् वाक्य॑मिति वाक्यत्वे सिद्धेआमन्त्रतस्य चे॑ति निघातो भवति, क्रियां प्रत्यविशेषणत्वे तु भिन्नवाक्यत्वान्नैतत्सिद्धेत्,समानवाक्ये निघातयुष्मदस्मदादेशा वक्तव्याः॑इति वार्तिकात् । तथा चोक्तं — -॒संबोधनपद॑यच्च तत् क्रियाया विशेषणम् । व्रजानि देवदत्तेति निघातोऽत्र तथा सति॑ इति । एवं चराम मां पाही॑ति वाक्यस्य रामसम्बन्धिसम्वोधनविषयो मत्कर्तृकं रक्षणमर्थः ।व्रजानि देवदत्ते त्यत्र तु देवदत्तसम्बन्धिसंबोधनविषयो मत्कर्तृकं गमनमर्थः । इति प्रथमा ।
लघुसिद्धान्तकौमुदी
प्रथमा स्यात्। हे राम। इति प्रथमा।
महाभाष्यम्
Text Unavailable. If you can help in fixing this issue by providing this text, please let us know using the feedback link at the bottom of this page. Thank you!