॥ तस्मै पाणिनये नम: ॥
Page loading... Please wait.
2|3|37
SK 634
2|3|37
यस्य च भावेन भावलक्षणम्‌   🔊
SK 634
सूत्रच्छेद:
यस्य - षष्ठ्येकवचनम् , च - अव्ययम् , भावेन - तृतीयैकवचनम् , भावलक्षणम् - प्रथमैकवचनम्
अनुवृत्ति:
-
अधिकार:
अनभिहिते  [2|3|1]
सम्पूर्णसूत्रम्
Unavailable at the moment
सूत्रार्थ:
This sutra is not updated yet.

The sutras are being written one by one, so this sutra will eventually get updated. Meanwhile, you can refer to the commentaries below.
One-line meaning in English
This sutra is not updated yet.
काशिकावृत्तिः
सप्तमी इति वर्तते। भावः क्रिया। यस्य च भावेन यस्य च क्रियया क्रियान्तरं लक्ष्यते, ततो भाववतः सप्तमी विभक्तिर् भवति। प्रसिद्धा च किया क्रियान्तरं लक्षयति। गोषु दुह्रमानासु गतः, दुग्धास्वागतः। अग्निषु हूयमानेषु गतः, हुतेष्वागतः। भावेन इति किम्? यो जटाभिः स भुङ्क्ते। पुनर् भावग्रहणं किम्? यो भुङ्क्ते स देवदत्तः।
कीदृशी पुनः क्रिया क्रियान्तरं लक्षयतीत्य त आह-- `प्रसिद्धा च` इत्यादि। चकारोऽवधारणार्थः, प्रसिद्धैवेत्यर्थः। न हि स्वयमप्रसिद्धं परस्य लक्षणमुपपद्यते। अथ कथं फलायामानेष्वाम्रेषु गतः, पक्तेवष्वागत इत्यत्र सप्तमी, न हीह भावः श्रूयते? यद्यपि न श्रूयते? तथाऽपि गम्यते। फलायमानेषु जातेष्वित्यर्थः॥
यस्य च भावेन भावलक्षणम्॥ इह भूयो दर्शनाश्रयो लक्ष्यलक्षणभावः, यथा---अग्निधूमयोः, ततश्चोदित आदित्ये तमो नष्टम्, उदिते चन्द्रमसि समुद्रः प्रवृद्ध इत्यादावेव स्याद्; त्वग्निषु हूयमानेषु गत इत्यग्निहवनं यदा गमनेन सह पुनः पुनर्न द्दष्टचनं तदा न ततस्य लक्षणमितीह न स्यादित्याशङ्क्याह---प्रसिद्धा च क्रियेति। प्रसिद्धिरेव क्रियायाः क्रियां प्रति लक्षणत्वे उपयुज्यते, न पुनर्दर्शनम्, एतदुक्तं भवति---निर्ज्ञातकाला क्रिया अनिर्ज्ञाताया क्रियायाः सकृदपि कालपरिच्छेदहेतुत्वेनोपाता भवत्येव लक्षणमिति॥
सिद्धान्तकौमुदी
यस्य क्रियया क्रियान्तरं लक्ष्यते ततः सप्तमी स्यात् । गोषु दुह्यमानासु गतः ॥ ।अर्हाणां कर्तृत्वेऽनर्हाणामकर्तृत्वे तद्वैपरीत्ये च (वार्तिकम्) ॥ सत्सु तरत्सु असन्त आसते । असत्सु तिष्ठत्सु सन्तस्तरन्ति । सत्सु तिष्ठत्सु असन्तस्तरन्ति । असत्सु तरत्सु सन्तस्तिष्ठन्ति ॥
यस्य च भावेन भावलक्षणम् - यस्य च । भावशब्दौ क्रियापर्यायावित्यभिप्रेत्य व्याचष्टे — यस्य क्रिययेति । क्रिया च कत्र्राश्रया कर्माश्रया च । तत्र कर्माश्रयामुदाहरति — गोष्विति । देवदत्तः कदा गत इति प्रश्ने उत्तरमिदम् । अत्र लक्षकत्व संबन्धे सप्तमी । शेषषष्ठपवादः । वर्तमानदोहनविशिष्टाभिर्गोभिज्र्ञाप्यगमनवानित्यर्थः । अत्र दोहनक्रियायाः साक्षाल्लक्षकता । गवां तु तदाश्रयतया । ततश्च गोदोहनदशायां गत इत्युत्तरं पर्यवस्यति । "दुग्धासु गत" इत्यत्र तु अतीतदोहनविशिष्टाभिर्गोभिज्र्ञाप्यमानगमनवानित्यर्थः । गोदोहोत्तरकाले गत इति फलितम् । कर्तृगतक्रियायास्तु ब्राआहृणेष्वधीयानेषु हगत इत्युदाहार्यम् । अत्र यदवश्यं पुनः पुनर्लक्ष्यज्ञापकं तदेव न लक्षणम् । किंतु सकृज्ज्ञापकमपि । यथा-यं कमण्लुपाणिं भवानद्रीक्षीत्स छात्र इति । यद्यपि सकृदसौ कमण्डलुपाणिर्दृष्टस्तथापि तस्य कमण्डलुर्लक्षणं भवत्येवेति प्रकृतसूत्रे भाष्ये स्पष्टम् ।उदिते आदित्ये जुहोती॑त्यत्र तु सामीपिकमधिकरणत्वं सप्तम्यर्थः । उदितादित्यसमीपकाल इत्यर्थः । आदित्योदयोत्तरसमीपकाल इति पर्यवसन्नोऽर्थः । "उपरागे रुआआयात्" इत्यत्र तु उपरागपदेन उपरागाश्रयकालो लक्ष्यत इत्यधिकरणसप्तम्येवेत्यन्यत्र विस्तरः ।
यस्य च भावेन भावलक्षणम् - यस्य च । निज्र्ञातकाला हि क्रिया अनिज्र्ञातकालायाः क्रियायाः कालपरिच्छेदकत्वाल्लक्षणं, तत्र प्रसिद्धक्रियाश्रययोः कर्तृकर्मणोर्वाचकाद्ब्राआहृणादिशब्दाल्लक्ष्यलक्षणभावसम्बन्धे षष्ठआं प्राप्तांयामियं सप्तमी । लक्षणकत्वमिह क्रियायाः साक्षात्, आश्रयस्य तु ब्राआहृणादेः क्रियाद्वारेणेति बोध्यम् ।ब्राआहृणेष्वधीयानेषु गत॑ इति कर्तृर्युदाहरणम् । कर्मण्याह — गोष्विति ।अर्हाणां कर्तृत्वेऽनर्हाणामकर्तृत्वे तद्वैवरीत्ये च । अर्हाणामित्यादि । यस्यां क्रियायां ये उचितास्ते अर्हाः । तेषां कर्तृत्वे विवक्षिते सति तत्र सप्तमी वाच्या । तथा यस्यां क्रियायां येषां कर्तृत्वमनुचितं तेषामकर्तृत्वे विवक्षिते च सप्तमी वाच्या । तथा तद्वैपरीत्ये=येषां कर्तृत्वमुचितं तेषामकर्तृत्वे, येषां तु नोचितं तेषां कर्तृत्वे च सप्तमी वाच्येत्यर्थः । आद्यमुदाहरति — -सत्सु तरत्स्विति । सन्तो हि तरणक्रियाऽर्हाः कर्तराश्चष द्वितीयमुदाहरति — -असुत्सु तिष्ठत्स्विति । अत्र तरणक्रियायामसतामनर्हत्वमकर्तृत्वं च तिष्ठत्स्वित्यनेन द्योत्यते । तद्वैपरीत्ये प्रथममुदाहरति-सत्सु तिष्ठत्स्विति । सतां हि तरणमुचितं, तेषां चाऽर्तृत्वं तिष्ठत्स्वित्यनेन गम्यते । द्वितीयमुदाहरति — असत्सु तरत्स्वति । असतां हि तरणमनुचितं, तेषां च कर्तृत्वं तरत्सु इत्यनेन गम्यते । यद्यपीदं॒यस्य च भावेन — -॑इत्येव सिद्धं, तथापि लक्ष्य लक्षणभावाऽविवक्षायां सप्तम्यर्थमिदमिति कैयटादयः । तत्त्वतस्तु व्यर्थमेवेदमित्यन्ये ।
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
यस्य च भावेन भावलक्षणम् 495 (318 उपपदसप्तमीसूत्रम् ।। 2।3।2 आ.13) (भूयोदर्शनाभावेसप्तमीसाधनाधिकरणम्) (1518 वार्तिकम् ।। 1 ।।) - भावलक्षणे सप्तमीविधाने अभावलक्षणे उपसंख्यानम् - (भाष्यम्) भावलक्षणे सप्तमीविधाने अभावलक्षण उपसंख्यानं कर्तव्यम्। अग्निषु हूयमानेषु गतः, हुतेष्वागतः। गोषु दुह्यमानासु गतः, दुग्धास्वागतः।। किं पुनः कारणं न सिध्यति?। लक्षणं नाम तद्भवति येन पुनः पुनर्लक्ष्यते। सकृच्चासौ कथं चिदग्निषु हूयमानेषु प्रस्थितः, हुतेष्वागतः। गोषु दुह्यमानासु प्रस्थितः, दुग्धास्वागतः।। (1512 न्यासान्तरेण समाधानवार्तिकम् 9 ) - सिद्धं तु भावप्रवृत्तौ यस्य भावारम्भवचनात् - (भाष्यम्) सिद्धमेतत्।। कथम्?। यस्य भावप्रवृत्तौ द्वितीयो भाव आरभ्यते तत्र सप्तमी वक्तव्या।। (आक्षेपभाष्यम्) सिध्यति। सूत्रं तर्हि भिद्यते।। (समाधानभाष्यम्) यथान्यासमेवास्तु।। (आक्षेपस्मारणभाष्यम्) ननु चोक्तम् ‐ ()भावलक्षणे सप्तमीविधानेऽभावलक्षण उपसंख्यानम्() इति।। (समाधानभाष्यम्) नैष दोषः। न खल्ववश्यं तदेव लक्षणं भवति येन पुनःपुनर्लक्ष्यते। सकृदपि यन्निमित्तत्वाय कल्पते तदपि लक्षणं भवति। तद्यथा ‐ अपि भवान्कमण्डलुपाणिं छात्रमद्राक्षीदिति। सकृदसौ कमण्डलुपाणिर्दृष्टश्छात्रस्तस्य तदेव लक्षणं भवति।। यस्य च ।। 37 ।।