Page loading... Please wait.
2|3|35 - दूरान्तिकार्थेभ्यो द्वितीया च
॥ तस्मै पाणिनये नमः ॥
2|3|35
SK 605
दूरान्तिकार्थेभ्यो द्वितीया च   🔊
सूत्रच्छेदः
दूर-अन्तिक-अर्थेभ्यः (पञ्चमीबहुवचनम्) , द्वितीया (प्रथमैकवचनम्) , च (अव्ययम्)
अनुवृत्तिः
-
अधिकारः
अनभिहिते  2|3|1
सम्पूर्णसूत्रम्
Will be updated soon
सूत्रार्थः
Will be updated soon.
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
पञ्चमी अनुवर्तते। दूरान्तिकार्थेभ्यः शब्देभ्यो द्वितीया विभक्तिर् भवति, चकारात् पञ्चमी तृतीया ऽपि समुच्छीयते। दूरं ग्रामस्य, दूराद् ग्रामस्य, दूरेण् ग्रामस्य। अन्तिकं ग्रामस्य, अन्तिकाद् ग्रामस्य, अन्तिकेन ग्रामस्य। प्रातिपदिकार्थे विधानम्। असत्त्ववचनग्रहणं च अनुवर्तते। सत्त्वशब्देभ्यो यथायथं विभक्तयो भवन्ति। दूरः पन्थाः, दूराय पथे देहि, दूरस्य पथः स्वम्।
`{एवम्प्रकारकं वाक्यं वृत्तौ नास्ति}पञ्चमी च` इति। तदनुवृत्तिसामथ्र्यात्। `तृतीयाऽपि समुच्चीयते` इति। चकारेण। `यथायथम्` इति। यथास्वं यो यस्यात्मीयो विषयस्तत्रासौ भवति, न विभक्त्यन्तरमित्यर्थः॥
दूरान्तिकार्थेभ्यो द्वितीया च॥ प्रातिपदिकार्थे विधानमिति। अर्थान्तरस्यानिर्द्देशादिति भावः। नन्वनिर्देशेऽप्यर्थान्तरस्य शेषविषये पूर्वविभक्तिविषये च विधानमेतद्यःक्तम्, प्रथमाविषये तु परत्वात्सैव प्राप्तोति? नेष दोषः; उतरत्राप्येतदनुवर्तते, तेनोतरविभक्तिविषयेऽपि सर्वत्र यथाभिधानं भवति। तथा च दूरादावसथान्मूत्रमित्यधिकरणेऽपि भवति----आवसथस्य दूर इत्यर्थः। प्रातिपदिकार्थे विधानमित्येततदाहृतविषयं द्रष्टव्यम्। तथा च---ठ्सत्ववचनेभ्यो यथायथं विभक्तयो भवन्तिऽ इति वक्ष्यति, प्रतिपदिकार्थ एव तु विधाने यथायथमित्यनुपपन्नम्, प्रथमैव भवतीति वाच्यं स्यात्॥
सिद्धान्तकौमुदी
एभ्यो द्वितीया स्याच्चात्पञ्चमीतृतीये । प्रातिपदिकार्थमात्रे विधिरयम् । ग्रामस्य दूरं दूरात् दूरेण वा । अन्तिकम् अन्तिकात् अन्तिकेन वा । असत्त्ववचनस्येत्यनुवृत्तेर्नेह । दूरः पन्थाः ॥ इति पञ्चमी ॥
दूरान्तिकार्थेभ्यो द्वितीया च - दूरान्तिक । एभ्य इति । दूरार्थकेभ्योऽन्तिकार्थकेभ्यश्चेत्यर्थः । चकारो व्यवहितयोरपि पञ्चमीतृतीययोः समुच्चयार्थः, नतुदूरान्तिकार्थैः षष्ठन्तरस्या॑मिति संनिहितषष्ठआ अपि, व्याख्यानात् । तदाह — चात्पञ्चमीतृतीये चेति । प्रातिपदिकार्थमात्रे विधिरयमिति । व्याख्यानादिति भावः । तथाच प्रथमापवाद इति फलितम् ।दूरादावसथान्मूत्रं दूरात्पादावनेजनम् इति भाष्यप्रयोगात्सप्तम्यर्थेऽधिकरणेऽप्ययं विधिः । ननु दूरः पन्था इत्यत्र कथं न पञ्चमीत्यत आह — असत्त्ववचनस्येति । "दूरः" "पन्था" इत्यत्र पन्था द्रव्यम् । तद्विशेषणं दूरशब्दः सत्त्ववचन इति भावः॥ इति पञ्चमी ।
दूरान्तिकार्थेभ्यो द्वितीया च - दूरं दूराद् दूरेण वेति । इह सप्तम्यपि वक्ष्यते । किंचदूरान्तिकार्थेभ्यः॑ इति सूत्रस्यसप्तम्यधिकरणे च॑ इत्युत्तरसूत्रेऽप्यनुवर्तनादधिकरणेऽप्येभ्यो विभक्तिचतुष्टयं बोध्यम । तथा च प्रयुज्यतेदूरादावसथान्मूत्रं दूरात्पादावसेचनम् इति । आवसथस्य दूरे इत्यर्थः । असत्त्ववचनस्येति । सत्त्ववचनत्वमिह सत्त्वविशेषकत्वम् । एवं च सामानाधिकरण्येन प्रातिपदिकार्थविशेषकं व्युदस्यते । तदाह — दूरः पन्था इति । एतेनकरणे च स्तोके॑ति सूत्रे — -॒करणे किम् क्रियाविशेषणे कर्मणि मा भूत् । स्तोकं पचति । क्रिया न द्रव्यम॑ इति प्राचां ग्रन्थोऽपि व्याख्यातः । न च क्रियाया विशेष्यत्वेन द्रव्यत्वाऽवश्यंभावान्नैतत्प्रत्युदाहरणं युक्तमिति वाच्यम्, धातुवाच्यायाः क्रियाया असत्त्वरूपत्वस्याकरे प्रसिद्धत्वात् । न च विशेष्यत्वे तदनुपपत्तिः । कर्तृकर्मेतरकारकलिङ्गानन्वयित्वमात्रेणाऽसत्त्लरूपत्वोपपत्तेः । उक्तं च — -॒क्रिया न युज्यते लिङ्गक्रियानाधारकारकैः । असत्त्वरूपता तस्या इयमेवावधर्यताम् । इति । फलं व्यापारश्च क्रिया, फलाधारकारकं कर्म, व्यापाराधारकारकं कर्तेति विवेकओः । पञ्चमी ।
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
दूरान्तिकार्थेभ्यो द्वितीया च 493 (316 उपपदसूत्रम् ।। 2।3।2 आ.11) (1510 आक्षेपवार्तिकम् ।। 1।। ) - दूरान्तिकार्थेभ्यः पञ्ञ्चमीविधाने तद्यक्तात्पञ्ञ्चमीप्रतिषेधः - (भाष्यम्) दूरान्तिकार्थेभ्यः पञ्ञ्चमीविधाने तद्युक्तात्पञ्ञ्चम्याः प्रतिषेधो वक्तव्यः। दूराद्ग्रामस्य।। (1511 आक्षेपबाधकवार्तिकम् ।। 2 ।।) - न वा तत्रापि दर्शनादप्रतिषेधः - (भाष्यम्) अनर्थकः प्रतिषेधोऽप्रतिषेधः। न वा तत्रापि दर्शनात्पञ्ञ्चम्याः प्रतिषेधोनर्थकः। तत्रापि हि पञ्ञ्चमी दृश्यते ‐ दूरादावसथान्मूत्रं दूरात्पादावसेचनम्।। दूराच्च भाव्यं दस्युभ्यो दूराच्च कुपिताद् गुरोः।। दूरान्ति ।। 35 ।।