Page loading... Please wait.
2|3|27 - सर्वनाम्नस्तृतीया च
॥ तस्मै पाणिनये नमः ॥
2|3|27
SK 608
सर्वनाम्नस्तृतीया च   🔊
सूत्रच्छेदः
सर्वनाम्नः (षष्ठ्येकवचनम्) , तृतीया (प्रथमैकवचनम्) , च (अव्ययम्)
अनुवृत्तिः
-
अधिकारः
अनभिहिते  2|3|1
सम्पूर्णसूत्रम्
Will be updated soon
सूत्रार्थः
Will be updated soon.
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
सर्वनाम्नो हेतुशब्दप्रयोगे हेतौ द्योत्ये तृतीया विभक्तिर् भवति, षष्ठी च। पूर्वेण षष्ठ्याम् एव प्राप्तायाम् इदम् उच्यते। केन हेतुना वसति, कस्य हेतोर् वसति। येन हेतुना वसति, यस्य हेतोर् वसति। निमित्तकारणहेतुषु सर्वासां प्रायदर्शनम्। किंनिमित्तं वसति, केन निमित्तेन वसति, कस्मै निमित्ताय वसति, कस्मान् निमित्ताद् वसति, कस्य निमित्तस्य वसति, कस्मिन् निमित्ते वसति। एवं कारणहेत्वोरप्युदहार्यम्। अर्थग्रहनं च एतत्। पर्यायोपादानं तु स्वरूपविधिर्मा विज्ञायि इति। तेन इह अपि भवति किं प्र्पयोजनं वसति, केन प्रयोजनेन वसति, कस्मै प्रयोजनाय वसति, कस्मात् प्रयोजनाद् वसति, कस्य प्रयोजनस्य वसति, कस्मिन् प्रयोजने वसति।
`निमित्तकारणहेतुषु सर्वासां विभक्तीनां प्रायदर्शनम्` इति। एतच्चकारस्यानुक्कतसमुच्चयार्थत्वल्लभ्यत इति वेदितव्यम्।यदर्थग्रहणमेतत कस्मात् पर्यायोपादानं कृतमित्माह-- `पर्यायोपादानम्` इत्यादि। असति पर्यायग्रहण एतत् स्वरूपग्रहणमिति कस्यचिद्भ्रान्ति स्यात्। अतस्तन्निराकर्त्तु पर्यायग्रहणम्॥
सर्वनाम्नस्तृतीया च॥ ठ्सर्वनाम्नःऽ इति प्रयोगापेक्षा षष्ठी। सर्वनाम्नी हेतुशब्दस्य च प्रयोग इति। पञ्चम्यां तु हेतुशब्दादयं विधिर्न स्यात्। कथं तर्हि सर्वनाम्नस्तृतीया भवतीति? अत्रापि सर्वनाम्नः प्रयोग इत्यर्थो द्रष्ट्व्यः। निमितकारणहेतुष्विति। यद्यप्यस्मिन् सूत्र इदं वृत्तिकारेण पठितम्, भाष्यकारेण तु ठ्हेतौऽ इत्यत्र पठितत्वादसर्वनाम्नोऽप्येतद्विभक्तिविधानं गम्यते, तत्र च प्रायग्रहणादेवासर्वनाम्नः प्रथमाद्वितीये न भवतः, अन्यास्तु यथादर्शनं भवन्ति---अन्नेन कारणेन वसति, अन्नाय कारणाय वसति, अन्नात्कारणाद्, अन्नस्य कारणस्य, अन्ने कारणे इति। पर्यायोपादानं त्विति। ननु विपरीतमिदं स्वरूपविधौ पर्यायोपादानं कर्तव्यम्, अर्थग्रहणे तु न कर्तव्यमिति; किं चार्थग्रहणे सत्येकशेषप्रसङ्गः, विरूपाणामपि समानार्थानामेकशेषवचनात्? एवं मन्यते---यथा आकृतिगमेषु केचिदुपलक्षणार्थं पठ।ल्न्ते, एवमिहापि स्वरूपपरा एव निमितादिशब्दा उपलक्षणार्थाः----एवमर्थानां शब्दानामिति॥
सिद्धान्तकौमुदी
सर्वनाम्नो हेतुशब्दस्य च प्रयोगे हेतौ द्योत्ये तृतीया स्यात् षष्ठी च । केन हेतुना वसति । कस्य हेतोः ॥ ।निमित्तपर्यायप्रयोगे सर्वासां प्रायदर्शनम् (वार्तिकम्) ॥ किं निमित्तं वसति । केन निमित्तेन । कस्मै निमित्तायेत्यादि । एवं किं कारणं को हेतुः किं प्रयोजनम् इत्यादि । प्रायग्रहणादसर्वनाम्नः प्रथमाद्वितीये न स्तः । ज्ञानेन निमित्तेन हरिः सेव्यः । ज्ञानाय निमित्तायेत्यादि ॥
सर्वनाम्नस्तृतीया च - सर्वनाम्नस्तृतीया च । सर्वनाम्न इति षष्ठी । तदाह — सर्वनाम्नो हेतुशब्दस्य चेति । कस्माद्भवतीत्यपेक्षायां सन्निहितत्वात्सर्वनामहेतुभ्यामिति गम्यते इत्यभिप्रेत्योदाहति — केन हेतुनेति । सर्वनाम्न इति यदि पञ्चमी स्यात्तदा हेतुशब्दात् षष्ठी न स्यादिति बोध्यम् ।
सर्वनाम्नस्तृतीया च - सर्वनाम्नस्तृतीया च । इह सर्वनाम्न इति प्रयोगापेक्षया षष्ठी, पञ्चाम्यां तु हेतुशब्दात्षष्ठीतृतीये न स्यातामित्याशयेनाह — -सर्वनाम्नो हेतुशब्दस्य चेति । कस्माद्भवतीत्यपेक्षायामर्थात् सर्वनामहेतुभ्यामिति सम्बध्यते ।अत्र व्याचख्युः — यद्यपि सर्वनाम्न इति पदस्य पञ्चम्यन्तत्वेऽपि हेतुशब्दस्य विशेषणत्वे सामानाधिकरण्यादप्युपपद्यत इति न क्षतिः, तथापि विशेष्यत्वे त्वयं विधिर्न स्यादिति बोध्यमिति । निमित्तपर्यायप्रयोगे सर्वासां प्रायगर्शनम् । निमित्तपर्यायेति । पर्यायग्रहणस्य फलमाह — -एवमित्यादिना । एतद्वार्तिकेनषष्ठी हेतुप्रयोगे॑,सर्वनाम्नस्तृतीया च॑ इति सूत्रद्वयं गतार्थमिति बोध्यम् ।
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
Text Unavailable. Please use feedback link below to provide the text if you have.