॥ तस्मै पाणिनये नम: ॥
Page loading... Please wait.
2|2|29
SK 901
2|2|29
चार्थे द्वंद्वः   🔊
SK 901
सूत्रच्छेद:
चार्थे - सप्तम्येकवचनम् , द्वन्द्वः - प्रथमैकवचनम्
अनुवृत्ति:
-
अधिकार:
आकडारात् एका संज्ञा  [1|4|1] , प्राक्कडारात्समास:  [2|1|3] , सुप्सुपा  [2|1|4] , विभाषा  [2|1|11]
सम्पूर्णसूत्रम्
Unavailable at the moment
सूत्रार्थ:
This sutra is not updated yet.

The sutras are being written one by one, so this sutra will eventually get updated. Meanwhile, you can refer to the commentaries below.
One-line meaning in English
This sutra is not updated yet.
काशिकावृत्तिः
अनेकम् इति वर्तते। अनेकं सुबन्तं चार्थे वर्तमानम् समस्यते, द्वन्द्वसंज्ञश्च समासो भवति। समुच्चयान्वाचयेतरेतरयोगसमाहाराश्च अर्थाः। तत्र समुच्चयान्वाचययोरसामर्थ्यात् न अस्ति समासः। इतरेतरयोगे समाहारे च समासो विधीयते। प्लक्षश्च न्यग्रोधश्च प्लक्षन्यग्रोधौ। धवश्च खदिरश्च पलाशश्च धवखदिरपलाशाः। वाक् च त्वक् च वाक्त्वचम्। वाग्दृषदम्। द्वन्द्वप्रदेशाः द्वन्द्वे च 1|1|31 इत्येवम् आदयः।
कः पुनरयं चार्थो नामेत्याह-- `समुच्चयाऽन्वाचय` इत्यादि। समुच्चितिः = समुच्चयः। साधनमेकं क्रियां वा प्रति क्रियासाधनानामात्मरूपभेदनेन चीयमानताऽनेकत्वमिति यावत्। स पुनस्तुल्यबलानामनियतक्रमयोगपद्यानामेव भवति, यथा-- गामआं पुरुषं पशुञ्चाहरहर्नयमानो वैवस्वतस्तृप्त नोपयातीति। अन्वाचयोऽपि यत्रैकस्य प्राधान्यम्, इतरदप्रधानम्, तदनुरोधेनान्वाचीयमानता, यथा-- भो वटो भिक्षामट गाञ्चानयेति। इतरेतरयोगः समाहारश्च समुच्चयस्यैव प्रभेदः। स एव हि परस्परापेक्षाणामवयवभेदानुगत इतरेतरयोगः, यथा-- देवदत्तयज्ञदत्ताभ्यामिदं कार्यं कत्र्तव्यम्। उभावपि तत्कार्यं प्रति परस्परापेक्षौ। तथा हि तदेकस्याप्यभावे न क्रियते। अवयवप्रधानश्चायमिति द्वित्वाद्द्विचवचनं भवति। परस्परापेक्षाणामेव तिरोहितावयवभेदः संहतिप्रधानः समाहारः; यथा-- छत्रोपानहमतिति। अत्रापि कस्याञ्चित् क्रियायां छत्त्रादेः परस्परापेक्षत्वम्। संहतिप्रधानत्वाच्चैकवचनम्। यदि तर्हि समुच्चयान्वाचयावपि चार्थौ तदा तयोरपि समासः प्राप्नोतीत्तयत आह-- `तत्र` इत्यादि। समुच्चये तावत् परस्परानभिसम्बन्धा एव गवादयो नयनादिभिः सम्बध्यमानाः समुचीयन्त इत्यासामथ्र्यात् सत्यपि चार्थे तस्मिन् न भवति समासः। अन्वाचयेऽप्येकं सापेक्षं नेतरत्, यथा-- पूर्वोक्त उदाहरणे। त्तर हि गवानयनं भिक्षाटनमपेक्षते, न तु भिक्षाटनं गवानयनम्,; विनापि तेन तदनुष्ठानात्। स यदि गां पश्यति तदा तामप्यानयति, न चेत् भिक्षामेवाटतीत्यन्यतरापेक्षारहिते चार्थे न भवति समासः। `इतरेतरयोगे समाहारे च विधीयते` इति। तत्र सर्वेषां सामथ्र्यस्य विद्यामानत्वात्। `वाक्त्वचम्, वाग्दृषदम्` इति। `द्वन्द्वाच्चुदषहान्तात् समाहारे` 5|4|106 इति टच्। समासान्तः। `जातिरप्राणिनाम्` 2|4|6 इत्येकवद्भावः॥
चार्थे द्वन्द्वः॥ समुच्चयेत्यादि। यदा परस्परनिरपेक्षाः पदार्था एकस्मिन्प्रतिसम्बन्धिनि समुच्चीयन्ते तदा समुच्चयः, यथा---अहरहर्नयमानो गामश्वं पुरुषं पुशुं वैवस्वतो न तृप्यति सुराया इव दुर्मदीति। दुर्मदी यथा सुराया न तृप्यति तथा यमो गवादीन्नयमान इत्यर्थः। अत्र नयतिक्रियायामेकस्यां गवादीनां समुच्चयः, गम्यमानत्वाच्च च--शब्दस्याप्रयोगः। एवं राज्ञो गौश्चाश्वश्चेति द्रव्ये द्रव्ययोः, रक्तः शुक्लश्चेति द्रव्ये गुणयोः, रक्तः पटः कुण्डलं चेति गुणे द्रव्ययोः समुच्चय इत्यादि द्रष्टव्यम्। यदानेकस्य प्राधान्यातदनुरोधेन त्वितरदन्वाचीयते तदान्वाचयः, यथा---भिक्षामट गाञ्जानयेति। अत्र ह्यदर्शनादनानयन्नपि गामटत्येव भिक्षाम्, अनट्Äअस्तु भिक्षां न गामानयति,अटन्नपि नान्विष्य गामानयति। इतरेतरयोगस्तु परस्परापेक्षाणामवयवभेदानुपगमेन समुदायरूपतामापन्नानामेकस्मिन्नर्थेऽन्वये सति भवति, यथा----देवदतयज्ञदताभ्यामिदं कार्यमिति। तथैकापायेऽपि तद्भवति, उद्भूतावयवभेदत्वाच्च द्विवचनबहुवचने भवतः, ताद्दशानामेवावयवतिरोधानसंहतिरूपेणान्वये तत्समाहारः, यथा---च्छत्त्रोपानहमिति, संहतिप्रधानत्वात्वेकवचनम्। तत्रेत्यादि। स्यअदेतत्----समुच्चये परस्परानपेक्षत्वेऽपि गवादीनामेकक्रियाद्वारकं सामर्थ्यं दध्योदनादिवदस्त्येवेति, तन्न युक्तम्; दध्योदनादावेकत्वात् क्रियायाः। इह तु कर्मभेदात्क्रिया भिद्यते, तथा च ठ् समुच्चयेऽन्यतरस्याम्ऽ इत्यत्र भ्राष्ट्रमट मठमटेत्यादिकं कर्मभेदनिबन्धनं क्रियाभेदमाश्रित्योदाहरिष्यते। अन्वाचये त्वप्रधानमेव चार्थे वर्तते, न प्रधानमित्यनेकस्य पदस्य चार्थे वृत्यभावादपि समासाभावः। इह पटुअश्चासौ खञ्जश्चेत्येकस्मिन्धर्मिण्यनेकधर्मसमुच्चयाच्चार्थसद्भावात्समानाधिकरणयोरपि द्वन्द्वसंज्ञाप्रसङ्गः, ततश्च ठ्द्वन्द्वे घिऽ इति नियमः स्यात्, विशेषणमित्यादिना तु तत्पुरुषकरणे खञ्जपटुअरित्यपि सिद्ध्यति? नैष दोषः; एकसंज्ञाधिकाराद्विशेषविहितत्वातेत्पुरुषसंज्ञैव भविष्यति, अन्यथा नीलं च तदुत्पलं चेत्यादावपि द्वन्द्वः स्यात्। यद्वा---ठ्शेषऽ इति वर्तते, अतो विशेषणमित्यत्रोपयुक्तत्वान्न भविष्यति। सामानाधिकरण्याभावे तु द्वन्द्व एव---पटुअखञ्जावागताविति। प्लक्षन्यग्रोधाविति। चशब्दस्याव्ययत्वेऽपि तदर्थे विधीयमानस्य द्वन्द्वस्य स्वभावादेव लिङ्गसंख्यायोगः। कथं पुन रत्र द्विवचनम्, यावता शब्दपौर्वापर्यादर्थाभिधानेऽपि पौर्वापर्यम्, ततश्च प्लक्षशब्दः सहार्थेन निवृतः न्यग्रोधशब्द उपस्थितः, एक एवार्थस्तस्यैकत्वादेकवचनमेव प्राप्नोति, तथा च ठाद्यन्तौ टकितौऽ इति क्रमेण प्रतीतिमङ्गीकृत्य यथासंख्यमित्यस्य प्रवृत्तिः, न च क्रमेण द्वयोरर्थयोः प्रतीतौ द्विवचनं भवति;यथा वा वाक्ये प्लक्षश्च न्यग्रोधश्चेति, अत्र न्यग्रोधार्थप्रतीतिदशायां प्लक्षार्थस्याप्रतीतितरेव कारणम्? अस्तु तर्हि युगपदधिकरणवचने द्वन्द्वः। किमिदं युगपदधिकरणवचन इति? अधिकरणं वर्तिपदार्थः, अधिकरणे युगपद्वचनं युगपदधिकरणवचनम्, तत्र द्वन्द्वो भवति। केन पुनर्युगपद् द्वयोर्वचनम्? एकैकेन पदेन। एतदुक्तं भवति---यावतां पदानां द्वन्द्वो यदि तावतामन्योऽन्यार्थाभिधानं युगपद्भवत्येवं द्वन्द्वो भवतीति। अत्र हि द्विवचनबहुवचनान्यथानुपपतिरेव प्रमाणम्; विग्रहे चापि दर्शनात्। विग्रहे खल्वपि युगपद्वचनता द्दश्यते---प्रमित्रयोर्वरुणयोः, द्यावाचिदस्मै पृथिवी नमेते इति; किं पुनः समासे, यत्र चान्याचान्या च शक्तिः प्रादुर्भवति! कथं पुनः प्लक्षशब्देन न्यग्रोधाभिधानम्, तेन वा तस्य? साहचर्यादिति। यद्वा तद्वा निमितं भवतु, यद्यपि य लोकव्यवहारे केवलस्य प्लक्षशब्दस्य न्यग्रोधाभिधायित्वं न द्दष्ट्ंअ न्यग्रोधशब्दस्य वा प्लक्षाभिधायित्वम्, द्वन्द्वावयवानां त्वनेकार्थाभिधायित्वं न केवलानामित्यदोषः। नियतविषयाश्चापि शब्दार्था भवन्ति, यथा---भ्रातृशब्दस्यैकशेष एव स्वसरि वृत्ति, पुत्रशब्दस्य दुहितरि। एतेनैतदपि निरस्तम्----एकेनोक्तत्वातस्यार्थस्य परस्य प्रयोगो नोपपद्यत इति। कथं द्वन्द्वावयवानामेव परस्परसन्निधानादेषा शक्तिर्वह्निसन्निधाविव घृते द्रवता, नो खलु वह्निविगतौ भवति, यदि तर्हि प्लक्षोऽपि द्व्यर्थो न्यग्रोधोऽपि द्व्यर्थः, बहुत्वाद्वहुचनं प्राप्नोति? नात्र चत्वारोऽर्थाः, किं तर्हि? याभ्यामेवात्रैको द्व्यर्थस्ताभ्यामेवापरोऽपि। स्यादेतत्---उभयोरत्र पर्यायत्वे यथा प्लक्षन्यग्रोधौ प्लक्षन्यग्रोधाविति द्विर्वचने प्रतीतिः, एवं प्लक्षन्यग्रोधावित्यत्रापि प्राप्नोति, तन्न; युगपदुत्पादात्। तद्यथा द्वयोरक्ष्णोर्युगपद्विस्फारितयोः पुरोवर्तिन्यर्थद्वये युगपदेका प्रतीतिर्जन्यत तथेहापि द्रष्टव्यम्। ननु यदा प्लक्षशब्दो न तदा न्यग्रोधशब्दः, यदा न्यग्रोधशब्दो न तदा प्लक्षशब्द इति कथमत्र युगपद्व्यापारः? स्मृतिस्थयोर्युगपद्व्यापाराददोषः। पदानि हि श्रुतमात्राणि स्वं स्वमर्थं स्मारयन्ति, पश्चादाकाङ्क्षासन्निधियोग्यत्वेषु परामृष्टेषु स्मृतिस्थान्यभिदधति, तस्यामेव स्मृतौ युगपदारोहात्सम्भवत्येव युगपद्व्यापारः। या च सा पदार्थानां स्मृतिः सा क्रमभाविनीति तत्क्रमेणैव यथासंख्यादिव्यवस्था युगपदभिधानेऽप्युपपद्यते। तदेवं युगपदधिकरणवचने द्वन्द्व इति स्थितम्। इहैकविंशतिर्द्वाविशतिरिति, यद्ययं द्वन्द्व स्याद् एकं च विंशतिश्चेतीतरेतरयोगे द्विवचनबहुवचनप्रसङ्गः, समाहारे च ठ्स नपुंसकम्ऽ इति नपंसकप्रसङ्गः, अत एव एकाधिका विंशतिरेकविशतिरिति शाकपार्थिवादित्वात्समासः क्रियते? नैवं शक्यम्, ठ्राजन्यबहुवचनद्वन्द्वेऽन्धकवृष्णिषु संख्याऽ इति पूर्वपदप्रकृतिस्वरो न स्यात्। तस्माद् द्वन्द्व एवायम्। स समाहारे नेतरेतरयोगे, अनभिधानात्। नपुंसकत्वन्तु ठ्लिङ्गमशिष्यं लोकाश्रयत्वाल्लिङ्गस्यऽ इति न भवति॥
सिद्धान्तकौमुदी
॥ अथ द्वन्द्वसमासप्रकरणम्‌ ॥

अनेकं सुबन्तं चार्थे वर्तमानं वा समस्यते स द्वन्द्वः । समुच्चयान्वाचयेतरेतरयोगसमाहाराश्चार्थाः । परस्परनिरपेक्षस्यानेकस्यैकस्मिन्नन्वयः । अन्यतरस्यानुषङ्गिकत्वेऽन्वाचयः । मिलितानामन्वय इतरेतरयोगः । समूहः समाहारः । तत्रेश्वरं गुरुं च भजस्वेति समुच्चये, भिक्षामट गां चानयेत्यन्वाचये च न समासोऽसामर्थ्यात् । धवखदिरौ । संज्ञापरिभाषम् । अनेकोक्तेर्होतृपोतृनेष्टोद्गातारः । द्वयोर्द्वयोर्द्वन्द्वं कृत्वा पुनर्द्वन्द्वे तु होतापोतानेष्टोद्गातारः ॥
चार्थे द्वन्द्वः - अथ द्वन्द्वसमासनिरूपणम् । चार्थे द्वन्द्वः । "सुबामन्त्रिते" इत्यतःसुबिति, "अनेकमन्यपदार्थे" इत्यतोऽनेकमिति चानुवर्तते । समास इति विभाषेति चाधिकृतं । तदाह — अनेकमित्यादिना । कश्चार्थ इत्यत आह — समुच्चयेति ।चाऽन्वाचयसमाहारेतरेतरसमुच्चये॑इत्यमरः । तत्र समुच्चयं निर्वक्ति — परस्परेति । एकस्मिन्निति । अकस्मिन् क्रियापदे आवृत्ते एकस्य असमस्यमानपदस्य प्रथममन्वयः, तदनन्तरमन्यस्यान्वयो यत्र, तत्र समुच्चयश्चार्थं इत्यर्थः । यथा — -॒ईस्वरं गुरुं च भजस्वे॑ति । तत्र हि चशब्दयोगाद्गुरोरीआरसापेक्षत्वम्, न त्वीआरस्य गुरुसापेक्षत्वं, तस्य चकारयोगाऽभावात् । अत एवात्र एक एव चशब्दः प्रयुज्यते । एवंच "ईआरं च भजस्व" गुरुं च भजस्वे॑ति वाक्यद्वयं पर्यवस्यति । अथाऽन्वाचयं लक्षयति — अन्यतरस्येति । यत्राऽन्यतरस्य पदस्यैकस्मिन् क्रियापदे आनुषङ्गिकत्वेन परार्थप्रवृत्तिविशषयत्वेनान्वयः, इतरस्य यतु पदस्यान्यस्मिन् क्रियापदे उद्देश्यत्वेनान्वयश्च तत्रान्वाचयश्चार्थ इत्यर्थः । यथा — ॒भिक्षामट गां चानये॑ति ।अट गतौ॑ । भिक्षामटनेन प्राप्नुहीत्यर्थः । भिक्षामट, तदा गौः सङ्गता चेत्तामप्यानय, नतु गवानयने ऐदंपर्येण प्रयतितव्यमिति तात्पर्यार्थः । इतरेतरयोगं लक्षयति — मिलितानामिति । परस्परापेक्षितानां समुदितानामेकस्मिन् क्रियापदेऽन्वयो यत्र, तत्रेतरेतरयोगः परस्परसाहर्यं चार्थः प्रत्येतव्य इत्यर्थः । यथा धवश्च खदिरश्च धवखदिराविति । अत्र परस्परसाहित्यसूचनाय चकारद्वयप्रयोगः । अथ समाहारं लक्षयति — समूहः समाहार इति । परस्परसाहित्यमित्यर्थः । यथा संज्ञापरिभाषयोः समूहः संज्ञापरिभाषमिति । तत्रेतरेतरयोगद्वन्द्वे साहित्यं द्रव्यविशेषणम् । यता धवखदिरौ छिन्द्धीति । समिदिताविति गम्यते । समाहारद्वलन्द्वे तु समूहो विशेष्यम् । यतासंज्ञापरिभाष॑मिति । तयोः समूह इति गम्यते ।संज्ञापरिभाषमधीयते॑ इत्यादौ समूहस्य क्रियान्वयस्तु समूहिद्वारा बोध्य इत्यल्म् । तत्रेति । तेषु चार्थेषु समुच्चयेऽन्वाचये च न द्वन्द्वसमास इत्यन्वयः । ईआरं गुरुं च भजस्वेति । समुच्चयोदाहरणमिदम् ।भिक्षामट गां चानये॑त्युदाहरणं चानुपदमेव व्याख्यातम् । असामथ्र्यादिति ।ईआरं गुरुं चे॑त्यत्रोक्तरीत्या ईआरगुरुशब्दयोः परस्परनिरपेक्षयोरावृत्तेभजस्वे॑ति पदे क्रमेणान्वयात्परस्परमन्वयाऽभावादसामथ्र्यम् ।भिक्षामट गां चानये॑त्यत्र तु भिक्षागवोरटने आनयने च क्रमेण परस्परवार्तानभिज्ञयोरेवान्वयात्परस्परान्वयाभावादसामथ्र्यं स्पष्टमेव । ततश्च इतरेतरयोगसमाहायोरेव चार्थयोः परस्परसाहित्यसत्त्वात्समर्थत्वेन द्वन्द्वसमासः । विस्तरस्तु मञ्जूषायाः द्रष्टव्यः । इतरेतरयोगमुदाहरति-धवखदिराविति । धवश्च खदिरश्चेति द्वन्द्वः । धवो-वृक्षविशेषः, खदिरः-प्रसिद्धः, तौ समुदिताविति बोधः । समाहारे तूदाहरति — संज्ञेति । संज्ञा च परिभाषा च तयोः समाहार इति विग्रहः । समाहारस्यैकत्वादेकवचनम् ।स नपुंसक॑मिति नपुंसकत्वम् । ननु "चार्थे द्वन्द्वः" इत्यत्रसुप्सुपे॑त्यनुवृत्त्यैव धवखदिरावित्यादिसिद्धेरनेकग्रहणानुवृत्तिर्वयर्थेत्यत आह — अनेकोक्तेरिति । होतृपोत्रिति । होता च पोता च नेष्टा च उद्गता चे॑ति विग्रहे वहूनामपि द्वन्द्वार्थमनेकग्रहणमिति भावः । "आनङृतो द्वन्द्वे" इति नेष्टृशब्दस्यैव उत्तरपदपरकत्वादानङ्, नतु होतृपोतृशब्दयोरपि, उत्तरपदस्य मध्यमपदव्यवहितत्वेन होतृपोतृशब्दयोरुत्तरपदपरकत्वाऽभावात् । ननु तर्हिहोतापोतानेष्टोद्गातार॑ इति कथमित्यत आह — द्वयोरिति । होता च पोता चेति द्वयोद्र्वन्द्वः । होतृशब्दस्य आनङ् । ततश्च नेष्टा च उद्गाता चेति द्वयोद्र्वन्द्वः । नेष्टृशब्दस्यानङ् । ततो होतापोतारौ च नेष्टोद्गातारो चेति द्वन्द्वद्वयगर्भो द्वन्द्वः । तत्र नेष्टोद्गातृशब्द उत्तरपदे होतापोतृशब्दस्य आनङित्यर्थः । आनङि ङकार इत् । ङित्त्वादन्तादेशः । अकार उच्चारणार्थः । अन्तर्वर्तिनीं विभक्तिमाश्रित्य पदत्वान्नस्य लोपः ।
चार्थे द्वन्द्वः - चार्थे द्वन्द्वः ।अनेकमन्यपदार्थे॑इत्यतोऽनेकमित्यनुवर्तते,सुबामन्त्रिते — -॑इत्यस्मात्सुबपि.॒समासः॑इति ,विभाषा॑इति चाऽधिकियत एव । तदाह — -अनेकं सुबन्तमित्यादि । चार्था इति । चशब्दद्योत्या इत्यर्थः । एकस्मिन्निति । भजनादावित्यर्थः । ईआरं गुरुंत भजस्वेति । क्रियायां द्रव्ययोः समुच्चयोऽयम् । तथा राज्ञो गजश्चाआश्चेति द्रव्ये द्रव्ययोः समुच्चयः । पटः शुक्लो रक्तश्चेति द्रव्ये गुणयोः । रक्तः पटः कुण्डलं चेति गुणे द्रव्ययोरित्यूह्रम् । भिक्षामट गां चानयेति । अत्र ह्रदर्शनाद्गामनानयन्नपि भिक्षामटत्येव । अनटंस्तु भिक्षां न गामानयति । तथा अटन्नपि नाऽन्विष्य गामानयति । अतो भिक्षाऽटनस्यैब प्राधान्यं, ग्वानयनस्य त्वानुषङ्गिकता । असामथ्र्यादिति । एकार्थीभावाऽभावादित्यर्थः । तथाहि बहुव्रीहिघटकपदानां कर्माद्यन्तर्भावेणेव द्वन्द्वघटकपादानां चार्थान्तर्भावेण एकार्थीभाव आवश्यकः,समर्थः पदविधिः॑इति परिभाषितत्वात्,चार्थे द्वन्द्वः॑ इत्युक्तेश्च । न चेतरेतरान्वये परस्परनिरपेक्षाणामेकार्थीभावः संभवति येन समुच्चयान्वाचयावेकार्थीभावान्तर्भूतौ स्याताम् । ततश्चेतरयोगे समाहारे च परस्परसाहित्यसत्त्वात्समासो भवति, न तु समुच्चयान्वाचययोः । परं त्वितरेतरयोगे साहित्यं विशेषणं, द्रव्यं तु विशेष्यं, समाहारे तु साहित्यं प्रधानं, द्रव्यं विशेषणमिति विवेक्तव्यम् । ननुनीलोत्पल॑मित्यादौ चशब्दान्तर्भावेण विग्रहदर्शनादेकार्थीभावसत्त्वाच्च द्वन्द्वो दुर्वारः स्यात् । मैवम् ।विशेषणं विशेष्येणे॑ति सामानाधिकरण्ये विहिरतया तत्पुरुषसंज्ञया द्वन्द्वसंज्ञाया बाधात् । तस्यास्त्वसामानाधिकरण्ये सावकाशत्वात् । सामानाधिकरण्याऽभावविवक्षायां तुप्रमाणप्रमेये॑त्यदाविव नीलोत्पलादावपि द्वन्द्वे इष्टापत्तिरेव । होतृपोत्रिति । उत्तरपदपरत्वाऽभावादनयोरानङ् न ।
लघुसिद्धान्तकौमुदी
अनेकं सुबन्तं चार्थे वर्तमानं वा समस्यते स द्वन्द्वः। समुच्चयान्वाचयेत रेतरयोगसमाहाराश्चार्थाः। तत्र "ईश्वरं गुरुं च भजस्व" इति परस्परनिरपेक्षस्यानेक स्यैकस्मिन्नन्वयः समुच्चयः। "भिक्षामट गां चानय" इत्यन्यतरस्यानुषङ्गिकत्वेन अन्वयोऽन्वाचयः। अनयोरसामर्थ्यात्समासो न। ”धवखदिरौ छिन्धि" इति मिलितानामन्वय इतरेतरयोगः। "संज्ञापरिभाषम्" इति समूहः समाहारः॥
महाभाष्यम्
चार्थे द्वन्द्वः (449) (अथ द्वन्द्वसमासः) (287 अथ द्वन्द्वसंज्ञासूत्रम् ।। 2।2।2 आ 6 सू.) (आक्षेपभाष्यम्) चार्थ इत्युच्यते। चश्चाव्ययम्। तेन समासस्याप्यव्ययसंज्ञा प्राप्नोति।। (समाधानभाष्यम्) नैष दोषः। पाठेनाव्ययसंज्ञा क्रियते। न च (द्वन्द्वः) समासस्तत्र पठ्यते।। (आक्षेपभाष्यम्) पाठेनाप्यव्ययसंज्ञायां सत्यामभिधेयवल्लिङ्गवचनानि भविष्यन्ति। यश्चेहार्थोभिधीयते न तस्य लिङ्गसंख्याभ्यां योगोस्ति।। (समाधानभाष्यम्) नेदं वाचनिकम् ‐ अलिङ्गता असंख्यता च। किं तर्हि? स्वाभाविकमेतत्। तद्यथा ‐ समानमीहमानानां चाधीयानानां च केचिदर्थैर्युज्यन्ते अपरे न। न चेदानीं कश्चिदर्थवानिति कृत्वा सर्वैरर्थवदि्भः शक्यं भवितुम्, कश्चिद्वानर्थक इति सर्वैरनर्थकैः। तत्र किमस्माभिः शक्यं कर्तुम् ‐ यत्प्राक् समासाच्चार्थस्य लिङ्गसंख्याभ्यां योगो नास्ति, समासे च भवति। स्वाभाविकमेतत्।। (समाधानान्तरभाष्यम्) अथ वा आश्रयतो लिङ्गवचनानि भविष्यन्ति यथा गुणवचनेषु। गुणवचनानां हि शब्दानामाश्रयतो लिङ्गवचनानि भवन्ति। तद्यथा ‐ शुक्लं वस्त्रं शुक्ला शाटी, शुक्लः कम्बलः, शुक्लौ कम्बलौ, शुक्लाः कम्बला इति यदसौ द्रव्यं श्रितो भवति गुणस्तस्य यल्लिङ्गं वचनं च तद् गुणस्यापि भवति। एवमिहापि यदसौ द्रव्यं श्रितो भवति समासस्तस्य यल्लिङ्गं वचनं च तत्समासस्यापि भविष्यति।। (आक्षेपभाष्यम्) अथेह कस्मान्न भवति ‐ याज्ञिकश्चायं वैयाकरणश्च, कठश्चायं बह्वृचश्च, औक्थिकश्चायं मीमांसकश्चेति।। (समाधानभाष्यम्) शेष इति वर्तते। अशेषत्वान्न भविष्यति।। (आक्षेपभाष्यम्) यदि शेष इति वर्तते, उपास्नातं स्थूलसिक्तं तूष्णींगङ्गं महाह्रदम्।। द्रोणं चेदशको गन्तुं मा त्वा ताप्तां कृताकृते।। इत्येतन्न सिध्यति।। (समाधानभाष्यम्) नैष दोषः। अन्यद्धि कृतम्, अन्यदकृतम्।। (युगपदधिकरणवचनताधिकरणम्) (1411 आक्षेपवार्तिकम् ।। 1 ।।) ।। चार्थे द्वन्द्ववचनेऽसमासेपि चार्थसंप्रत्ययादनिष्टप्रसङ्गः ।। (व्याख्याभाष्यम्) चार्थे द्वन्द्ववचने समासेपि चार्थसंप्रत्ययादनिष्टं प्राप्नोति ‐ अहरहर्नयमानो गामश्वं पुरुषं पशुम् ।। वैवस्वतो न तृप्यति सुराया इव दुर्मदी।। इति।। इन्द्रस्त्वष्टा वरुणो वायुरादित्य इति।। (1412 युगपदधिकरणवचनतयासमाधानवार्तिकम् ।। 2 ।।) ।। सिद्धं तु युगपदधिकरणवचने द्वन्द्ववचनात् ।। (व्याख्याभाष्यम्) सिद्धमेतत्।। कथम्?। युगपदधिकरणवचने द्वन्द्वो भवतीति वक्तव्यम् ।। (1413) युगपदधिकरणतायां दूषणवार्तिकम् ।। 3 ।। ।। तत्र पुंवद्भावप्रतिषेधः ।। (भाष्यम्) तत्रैतस्मिन् लक्षणे पुंवद्भावस्य प्रतिषेधो वक्तव्यः। पट्वीमृद्व्यौ। समानाधिकरणलक्षणः पुंवद्भावः प्राप्नोति।। (1414 दूषणान्तरवार्तिकम् ।। 4 ) ।। विप्रतिषिद्धेषु चानुपपत्तिः ।। (भाष्यम्) विप्रतिषिद्धेषु युगपदधिकरणवचनताया अनुपपत्तिः। शीतोष्णे सुखदुःखे जननमरणे। किं कारणम्?। सुखप्रतिघातेन हि दुःखम्, दुःखप्रतिघातेन च सुखम्।। (प्रथमदूषणबाधकभाष्यम्) यत्तावदुच्यते ।तत्र पुंवद्भावप्रतिषेधः। इति। इदं तावदयं प्रष्टव्यः अथेह पुंवद्भावः कस्मान्न भवति ‐ दर्शनीयाया माता दर्शनीयामातेति?। अथ मतमेतत् ‐ प्राक् समासाद्यत्र सामानाधिकरण्यं तत्र पुंवद्भावो भवतीति। इहापि न दोषो भवति।। (द्वितीयदूषणबाधकभाष्यम्) यदप्युच्यते ।विप्रतिषिद्धेषु चानुपपत्तिः। इति। सर्व एव शब्दाः विप्रतिषिद्धाः। इहापि प्लक्षन्यग्रोधाविति प्लक्षशब्दः प्रयुज्यमानः प्लक्षार्थं संप्रत्याययति, न्यग्रोधार्थं संप्रत्याययति, प्लक्षार्थं निवर्तयति। अथात्र चेद्युक्ता युगपदधिकरणवचनता दृश्यते, इहापि युक्ता दृश्यताम्।। (युगपदधिकरणवचनतानुपपत्तिभाष्यम्) एवमपि ‐ - (1415 युगपदधिकरणवचनताया असंभववार्तिकम् ।। 5 ।।) ।। शब्दपौर्वापर्यप्रयोगादर्थपौर्वापर्याभिधानम् ।। (भाष्यम्) शब्दपौर्वापर्यप्रयोगादर्थपौर्वापर्याभिधानं प्राप्नोति।। अतः किम्?। युगपदधिकरणवचनताया अनुपपत्तिः। प्लक्षन्यग्रोधौ प्लक्षन्यग्रोधा इति। यथैव हि शब्दानां पौर्वापर्यं तद्वदर्थानामपि भवितव्यम्।। (1416 पौर्वापर्याभिधाने दूषणवार्तिकम् ।। 6 ।।) ।। शब्दपौर्वापर्यप्रयोगादर्थपौर्वापर्याभिधानमिति चेदि्द्ववचनबहुवचनानुपपत्तिः ।। (भाष्यम्) शब्दपौर्वापर्यप्रयोगादर्थपौर्वापर्याभिधानमिति चेद् द्विवचनबहुवचनयोरनुपपत्तिः ‐ प्लक्षन्यग्रोधौ प्लक्षन्यग्रोधा इति। प्लक्षशब्दः सार्थको निवृत्तो न्यग्रोधशब्द उपस्थितः। एक एकार्थः तस्यैकार्थत्वादेकवचनं प्राप्नोति।। (1417 दूषणोद्धारवार्तिकम् ।। 7 ।।) ।। विग्रहे च युगपद्वचनं ज्ञापकं युगपद्वचनस्य ।। (भाष्यम्) विग्रहे खल्वपि युगपद्वचनता दृश्यते ‐ द्यावा ह क्षामा द्यावा चिदस्मै पृथिवी संनमेते इति।। किमेतत्?। युगपदधिकरणवचनताया उपोद्वलकम्।। विग्रहे किल नाम युगपदधिकरणवचनता स्यात्, किं पुनः समासे।। (1418 द्वितीयदूषणोद्धारवार्तिकम् ।। 8 ।।) ।। समुदायात्सिद्धम् ।। (भाष्यम्) समुदायात्सिद्धमेतत्।। किमेतत्समुदायात्सिद्धमिति?। द्विवचनबहुवचनताप्रसिद्धिरिति चोदितम्, तस्यायं परिहारः।। (1419 दूषणसाधकवार्तिकम् ।। 9 ।।) ।। समुदायात्सिद्धमिति चेन्नैकार्थत्वात्समुदायस्य ।। (भाष्यम्) समुदायात्सिद्धमिति चेत्। तन्न। किं कारणम्?। एकार्थत्वात्समुदायस्य। एकार्था हि समुदाया भवन्ति। तद्यथा ‐ शतं यूथं वनमिति।। (1420 दूषणबाधकवार्तिकम् ।। 10 ।।) ।। नैकार्थ्यम् ।। (भाष्यम्) नायमेकार्थः। किं तर्हि?। द्व्यर्थो बह्वर्थश्च। प्लक्षोपि द्व्यर्थः न्यग्रोधोपि द्व्यर्थः।। (आक्षेपभाष्यम्) यदि तर्हि प्लक्षोपि द्व्यर्थो न्यग्रोधोपि द्व्यर्थः, ‐ (1421 दूषणवार्तिकम् ।। 11 ।।) ।। तयोरनेकार्थत्वाद्बहुवचनप्रसङ्गः ।। (भाष्यम्) तयोरनेकार्थत्वाद् बहुषु बहुवचनम् इति बहुवचनं प्राप्नोति।। (1422 दूषणोद्धारसमाधानवार्तिकम् ।। 12 ।।) ।। तयोरनेकार्थत्वाद्बहुवचनप्रसङ्ग इति चेन्न बहुत्वाभावात् ।। (भाष्यम्) तयोरनेकार्थत्वाद्बहुवचनप्रसङ्ग इति चेत्।। तन्न। किं कारणम्?। बहुत्वाभावात्। नात्र बहुत्वमस्ति।। किमुच्यते ‐ बहुत्वाभावादिति, यदा इदानीमेवोक्तम् ‐ प्लक्षोपि द्व्यर्थो न्यग्रोधोपि द्व्यर्थ इति?। याभ्यामेवात्रैको द्व्यर्थस्ताभ्यामेवापरोपि। (द्विवचनबहुवचनानुपपत्तिभाष्यम्) यद्येवम् ‐ (1423 अनुपपत्तिवार्तिकम् ।। 13 ।।) ।। अन्यवाचकेनान्यस्य वचनानुपपत्तिः ।। (भाष्यम्) अन्यवाचकेन शब्देनान्यस्य वचनं नोपपद्यते।। (1424 अनुपपत्तिबाधकवार्तिकम् ।। 14 ।।) ।। अन्यवाचकेनान्यस्य वचनानुपपत्तिरिति चेत् प्लक्षस्य न्यग्रोधत्वाद् न्यग्रोधस्य प्लक्षत्वात् स्वशब्देनाभिधानम् ।। (भाष्यम्) अन्यवाचकेनान्यस्य वचनानुपपत्तिरिति चेद्।। एवमुच्यते ‐ तन्न। किं कारणम्?। प्लक्षस्य न्यग्रोधत्वाद् न्यग्रोधस्य च प्लक्षत्वाच्च स्वशब्देनाभिधानं भविष्यति। प्लक्षोपि न्यग्रोधः न्यग्रोधोपि प्लक्षः।। (आक्षेपभाष्यम्) कथं पुनः प्लक्षोपि न्यग्रोधः न्यग्रोधोपि प्लक्षः स्यात्, यावता कारणाद् द्रव्ये शब्दनिवेशः?।। (1425 वार्तिकम् ।। 15 ।।) ।। कारणाद् द्रव्ये शब्दनिवेश इति चेत्तुल्यकारणत्वात्सिद्धम् ।। (भाष्यम्) कारणाद् द्रव्ये शब्दनिवेश इति चेद्।। एवमुच्यते ‐ तन्न। तुल्यकारणत्वात् सिद्धम्। तुल्यं हि कारणम्। यदि तावत्प्रक्षरतीति व्युत्पत्त्या प्लक्षः स्याद्, न्यग्रोधेप्येतद्भावति। तथा यदि न्यग्रोहतीति न्यग्रोधः, प्लक्षेप्येतद्भवति।। (1426 वार्तिकम् ।। 16 ।।) ।। दर्शनं वै हेतुः ।। (भाष्यम्) न च न्यग्रोधे प्लक्षशब्दो दृश्यते।। (1427 वार्तिकम् ।। 27 ।।) ।। दर्शनं हेतुरिति चेत्तुल्यम् ।। (भाष्यम्) दर्शनं हेतुरिति चेत्तुल्यमेतद्भवति प्लक्षेपि न्यग्रोधशब्दो दृश्यते न्यग्रोधेपि प्लक्षशब्दः। तुल्यं हि कारणम्।। (आक्षेपभाष्यम्) न वै लोके एष संप्रत्ययो भवति। न हि प्लक्ष आनीयतामित्युक्ते न्यग्रोध आनीयते।। (1428 समाधानवार्तिकम् ।। 28।।) ।। तद्विषयं च ।। (भाष्यम्) तद्विषयं चैतद् द्रष्टव्यं प्लक्षस्य न्यग्रोधत्वम् ।। किं विषयम्? द्वन्द्वविषयम् ।। (आक्षेपभाष्यम्) युक्तं पुनर्यन्नियतविषया नाम शब्दाः स्युः?।। (समाधानभाष्यम्) बाढं युक्तम्।। (1429 समाधानसाधकवार्तिकम् ।। 19 ।। प्र्प्र् । प्र्प्र्अन्यत्रापि तद्विषयदर्शनात् प्र्प्र् । प्र्प्र् (भाष्यम्) अन्यत्रापि हि नियतविषयाः शब्दा दृश्यन्ते। तद्यथा ‐ समाने रक्ते वर्णे गौर्लोहित इति भवति, अश्वः शोण इति। समाने च कालेवर्णे गौः कृष्ण इति भवति, अश्वो हेम इति। समाने च शुक्ले वर्णे गौः श्वेत इति भवति, अश्वः कर्क इति।। (आक्षेपभाष्यम्) यदि तर्हि प्लक्षोपि न्यग्रोधः न्यग्रोधोपि प्लक्षः ‐ (1430 आक्षेपवार्तिकम् ।। 20 ।।) ।। एकेनोक्तत्वादपरस्य प्रयोगोऽनुपपन्नः ।। (भाष्यम्) एकेनोक्तत्वात्तस्यार्थस्यापरस्य प्रयोगो नोपपद्यते ‐ प्लक्षेण न्यग्रोधस्य न्यग्रोधप्रयोगः ।। (1431 वार्तिकम् ।। 21 ।।) ।। एकेनोक्तत्वादपरस्य प्रयोगोनुपपन्न इति चेदनुक्तत्वात्प्लक्षेण न्यग्रोधस्य न्यग्रोधप्रयोगः ।। (भाष्यम्) एकेनोक्तत्वादपरस्य प्रयोगोनुपपन्न इति चेत्। तन्न। किं कारणम्?। अनुक्तत्वात्प्लक्षेण न्यग्रोधस्य न्यग्रोधप्रयोगः। अनुक्तः प्लक्षेण न्यग्रोधार्थ इति कृत्वा न्यग्रोधशब्दः प्रयुज्यते।। कथमनुक्तः, यावता इदानीमेवोक्तं प्लक्षोपि न्यग्रोधः न्यग्रोधोपि प्लक्ष इति?। सहभूतावेतावन्योन्यस्यार्थमाहतुः। न पृथग्भूतौ।। (आक्षेपभाष्यम्) किं पुनः कारणं सहभूतावेतावन्योन्यस्यार्थमाहतुर्न पृथग्भूतौ?।। (1432 समाधानवार्तिकम् ।। 22 ।।) ।। अभिधानं पुनः स्वाभाविक् ।। (भाष्यम्) स्वाभाविकमभिधानम् ।। (समाधानभाष्यम्) अथ वेह कौ चित्प्राथमकल्पिकौ प्लक्षन्यग्रोधौ, कौ चित्क्रियया वा गुणेन वा, प्लक्ष इवायं प्लक्षः ‐ न्यग्रोध इवायं न्यग्रोध इति। तत्र प्लक्षावित्युक्ते संदेहः स्यात् ‐ किमिमौ प्लक्षावेव आहोस्वित्प्लक्षन्यग्रोधाविति। तत्रासंदेहार्थं न्यग्रोधशब्दः प्रयुज्यते।। (पूर्वपक्षिण आक्षेपोपसंहारभाष्यम्) सेयं युगपदधिकरणवचनता नाम दुःखा च दुरुपपादा च। यच्चाप्यस्या निबन्धनमुक्तम् ‐ द्यावा ह क्षामेति, तदपि च्छान्दसम्। तत्र सुपां सुपो भवन्तीत्येव सिद्धम्। सूत्रं च भिद्यते।। (सिद्धान्तिसमाधानभाष्यम्) यथान्यासमेवास्तु।। (आक्षेपस्मारणभाष्यम्) ननु चोक्तम् ‐ । चार्थे द्वन्द्ववचनेऽसमासेऽपि चार्थसंप्रत्ययादनिष्टप्रसङ्गः । इति।। (समाधानभाष्यम्) नैष दोषः। इह चे द्वन्द्वः इतीयता सिद्धम्।। कथं पुनश्चे नाम वृत्तिः स्यात्। शब्दो ह्येषः?।। शब्दे कार्यासंभवादर्थे कार्यं विज्ञास्यते। सोयमेवं सिद्धे सति यदर्थग्रहणं करोति तस्यैतत्प्रयोजनम् ‐ एवं यथा विज्ञायेत ‐ चेन कृतोर्थश्चार्थ इति।। कः पुनश्चेन कृतोर्थः?।। समुच्चयः अन्वाचय इतरेतरयोगः समाहार इति।। समुच्चये ‐ प्लक्षश्चेत्युक्ते गम्यते एतत् ‐ प्लक्षश्चेति।। अन्वाचये ‐ प्लक्षश्चेत्युक्ते गम्यते एतत् ‐ सापेक्षोयं प्रयुज्यते इति।। इतरेतरयोगे ‐ प्लक्षश्च न्यग्रोधश्चेत्युक्ते गम्यते एतत् ‐ प्लक्षोपि न्यग्रोधसहायो न्यग्रोधोपि प्लक्षसहायः इति।। (प्लक्षश्च न्यग्रोधश्चेत्युक्ते) समाहारेऽपि क्रियते ‐ प्लक्षन्यग्रोधमिति।। तत्रायमप्यर्थः ‐ -द्वन्द्वैकवद्भावो न पठितव्यो भवति। समाहारैकत्वादेव सिद्धम्।। (एकादशादिशब्दार्थनिर्णयाधिकरणम्) (आक्षेपभाष्यम्) एकादश द्वादशेति कोयं समासः?।। (1433 समाधानवार्तिकम् ।। 23 ।।) ।। एकादीनां दशादिभिर्द्वन्द्वः ।। (भाष्यम्) एकादीनां सह दशादिभिर्द्वन्द्वः समासः।। (1434 आक्षेपवार्तिकम् ।। 24 ।।) ।। एकादीनां दशादिभिर्द्वन्द्व इति चेद्विंशत्यादिषु वचनप्रसङ्गः ।। (भाष्यम्) एकादीनां दशादिभिर्द्वन्द्व इति चेद्विंशत्यादिषु वचनं प्राप्नोति। एकविंशातिः। द्वाविंशतिः।। (1435 समाधानवार्तिकम् ।। 25 ।।) ।। सिद्धं त्वधिकान्ता संख्या संख्यया समानाधिकरणाधिकारेऽधिकलोपश्च ।। (भाष्यम्) सिद्धमेतत्।। कथम्?। समानाधिकरणाधिकारे वक्तव्यम् ‐ अधिकान्ता संख्या संख्यया सह समस्यतेऽधिकशब्दस्य च लोपो भवति इति। एकाधिका विंशतिः एकविंशतिः, द्व्यधिका विंशतिः द्वाविंशतिः।। (दूषणभाष्यम्) यदि समानाधिकरण:, स्वरो न सिध्यति।। यद्धि तत् ‐ संख्या पूर्वपदं प्रकृतिस्वरं भवति इति, द्वन्द्वे इत्येवं तत्।। (प्रत्याक्षेपभाष्यम्) किं पुनः कारणं द्वन्द्व इत्येवं तत्?।। (समाधानभाष्यम्) इह मा भूत् ‐ - शतसहस्रमिति।। (द्वन्द्वाभ्युपगमभाष्यम्) अस्तु तर्हि द्वन्द्वः।। (आक्षेपस्मारणभाष्यम्) ननु चोक्तम् ‐ । एकादीनां दशादिभिर्द्वन्द्व इति चेद्विंशत्यादिषु वचनप्रसङ्ग। इति।। (समाधानभाष्यम्) नैष दोषः। सर्वो हि द्वन्द्वो विभाषैकवद्भवति।। (आक्षेपभाष्यम्) यदा तर्ह्येकवचनं तदा नपुंसकलिङ्गं प्राप्नोति।। (समाधानभाष्यम्) लिङ्गमशिष्यं लोकाश्रयत्वाल्लिङ्गस्य ।। चार्थे ।। 29 ।।