॥ तस्मै पाणिनये नम: ॥
Page loading... Please wait.
2|2|20
SK 783
2|2|20
अमैवाव्ययेन   🔊
SK 783
सूत्रच्छेद:
अमा - तृतीयैकवचनम् , एव - अव्ययम् , अव्ययेन - तृतीयैकवचनम्
अनुवृत्ति:
-
अधिकार:
आकडारात् एका संज्ञा  [1|4|1] , प्राक्कडारात्समास:  [2|1|3] , सुप्सुपा  [2|1|4] , विभाषा  [2|1|11] , तत्पुरुष:  [2|1|22]
सम्पूर्णसूत्रम्
Unavailable at the moment
सूत्रार्थ:
This sutra is not updated yet.

The sutras are being written one by one, so this sutra will eventually get updated. Meanwhile, you can refer to the commentaries below.
One-line meaning in English
This sutra is not updated yet.
काशिकावृत्तिः
पूर्वन समासे सिद्धे नियमार्थं वचनम्। अव्ययेनौपपदस्य यः समासः सो ऽमा एव भवति, न अन्येन। स्वादुङ्कारं भुङ्क्ते। सम्पन्नङ्कारम् भुग्क्ते। लवनङ्कारं भुङ्क्ते। अमा एव इति किम्? कालसमयवेलासु तुमुन् 3|3|167 काले भोक्तुम्। एवकारकरणम् उपपदविशेषनार्थम्। अमा एव यत् तुल्यविधानम् उपपदं तस्य समासो यथा स्यात्, अमा च अन्येन च यत् तुल्यविह्धानं तस्य मा भूत्। अग्रे भुक्त्वा, अग्रे भोजम्।
`स्वादुङ्कारं भुङ्क्ते` इति। `स्वादुभि` 3|4|26 इति णमुल्। स्वादुमीत्यतस्मादेव मान्तनिर्देशादुपपदस्य मकारान्तत्वं निपात्यते। यदि पूर्वेणैव समासे सिद्धे नियमार्थम् वचनम्; एवञ्च सति सद्धे विधिरारभ्यमाणोऽन्तेरणाप्येवकारकरणं नियमार्थो भविष्यति, तत्किमर्थमेवकारकरणमित्याह-- `एवकारककरणम्` इत्यादि किमर्थं पुनस्तदुपपदविशेषणार्थं क्रियत इत्यत आह-- `अमैव तुल्यविधानम्` इत्यादि। येन वाक्येनायमेव प्रत्ययो विधीयते न तु प्रत्ययान्तरम्; तेन यदुपपदं निर्दिश्यते तदमैव तुल्यविधानम्, तस्यैव समासो यथा स्यादित्येवमर्थमेवकारकरणमुपपदविशेषणार्थं क्रियते। स च समासः प्रत्यासत्तेरमैव भवति, न प्रत्ययान्तरेणेति विज्ञायते। `अग्रे भुक्त्वा, अग्रे भोजम्` इति। अत्राग्रेशब्द उपपदम् `विभाषाग्रेप्रथमपूर्वेषु` 2|4|24 इत्यमा क्त्वाप्रत्ययेन च तुल्यविधानमिति न समस्यते। अव्ययग्रहणं स्पष्टार्थम्। न ह्रनव्यवममन्तमस्ति यन्निवृत्त्यर्थमव्ययग्रहणमर्थवद्भवति॥
अमैवाव्ययेन॥ स्वादुङ्कारमिति। स्वादुमि णमुल्, स्वादुमीत्यत एव निपातनात्पूर्वपदस्य मान्तत्वम्। स्वादुमीत्यर्थग्रहणम्, तेन संपन्नकारमित्यत्रापि भवति। ननु सिद्धे विधिरारभ्यमाणो नियमाय भवति, एवकारः किमर्थः? इष्टतोऽवधारणार्थः, एवं यथा विज्ञायेत---अमैवाव्ययेनेति, मैवं विज्ञायि---अमाव्ययेनैवेति। अनव्ययस्यासम्भवादेवायं नियमो न भविष्यति। ननु चायमस्ति स्वशयं ब्राह्मणकुलमिति---ठधिकरणे शेतेःऽ इत्यच्, ठतोऽम्ऽ इति सोरम्भावः, अनेनानव्यवेन समासो मा भूदित्येवमर्थो नियमः स्यात्, न; अत्र ह्यन्तरङ्गत्वादनुत्पन्न एव सावुपपदसमासेन भाव्यम्, पश्चात्सुपेति विधानवेलायामनव्ययस्यामोऽसम्भवान्नियमान्तरेण वचनस्य चरितार्थत्वाद्विपरीतनियमो न भविष्यतीत्यत आह----एवकारकरणमिति। अमैव यदुपपदं तत्समस्यते, तदेव समस्यत इत्यक्षरार्थः, न पुनरमैव समस्यत इति। तत्रामैव यदुपपदमित्यत्र तुल्यविधानमिति वाक्यशेषः। किं चामैव तुल्यविधानं येन वाक्येनामेव केवलो विधीयते, न प्रत्ययान्तरसहितस्तेन वाक्येन यदुपपदं विधीयते तत्र सप्तमीनिर्देशातदमैव तुल्यविधानम्। नियमाङ्गभूतस्त्वेवकारो नियमस्वभावादेव लभ्यते---अमैव यतुल्यविधानं न तु प्रत्ययान्तरोत्पतौ निमितमिति तदपेक्षयाऽनुपपदत्वाद् अव्ययान्तरेण समासो नाशङ्कनीयः। अग्रे भोजमिति। ठ्विभाषाग्रेप्रथमपूर्वेषुऽ इति क्त्वाणमुलौ। अव्ययग्रहणं किम्? असत्यव्ययग्रहणे ठमैव तुल्यविधानं तदेवोपपदं समस्यतेऽ इत्युच्यमाने कुम्भकारादाविपि न स्यात्। अथ पूर्वसूत्रस्यानवकाशत्वादमैव तुल्यविधानस्योपपदस्याव्ययविषयत्वातद्विषय एव नियमो विज्ञास्यत इत्युच्यते? एवं त्वमैव नियमः स्याद्---अमन्तेनोपपदस्य यः समासः सोऽमैव तुल्यविधानस्येति, तत्र को दोषः? अग्रेभोजमित्यत्रैव न स्यात्, अग्रे भुक्त्वा, कालो भोक्तुमित्यत्र तु स्यादेव; अव्ययग्रहणे तु सति अव्ययेनोपपदस्य यः सोऽमैव तुल्यविधानस्येति विज्ञानान्न कश्चिदोषः॥
सिद्धान्तकौमुदी
अमैव तुल्यविधानं यदुपपदं तदेवाव्ययेन सह समस्यते । स्वादुंकारम् । नेह ॥ कालसमयवेलासु तुमुन् (कौमुदी-3179) ॥ कालः समयो वेला वा भोक्तुम् । अमैवेति किम् । अग्रे भोजम् । अग्रे भुक्त्वा । विभाषाऽग्रेप्रथमपूर्वेष्विति क्त्वाणमुलौ । अमा चान्येन च तुल्यविधानमेतत् ॥
अमैवाव्ययेन - अमैवाऽव्ययेन ।अमैवे॑त्यनन्तरं तुल्यविधानमित्यध्याहार्यम् । तुल्यार्थैरतुलोपमाभ्या॑मिति तृतीया । अमैव तुल्येति । अम्प्रत्ययमात्रविधायकशास्त्रेण अमैव सह यस्य उपपदसंज्ञा विधीयते तदुपपदमव्ययेन समस्यत इति यावत् । पूर्वसूत्रेणैव सिद्धे नियामार्थमिदमित्याह — तदेवेति । विवरणवाक्ये द्वितीय एवकारो नियमलभ्यः, न तु सूत्रस्थः, तस्य अप्राप्ते अमा तुल्यविदानत्वेऽवधारणार्थत्वात् । स्वादुङ्कारमिति । स्वादुंकृत्वेत्यर्थः । "ओदनं भुङ्क्ते" इति शेषः ।स्वादुमि णमु॑लिति णमुल् । स्वादुशब्दस्य मान्तत्वं निपातनात् । "कृन्मेजन्तः" इत्यव्ययत्वम् ।तदेवे॑ति नियमस्य प्रयोजनमाह — नेहेति । "उपपदसमास" इति शेषः । भोक्तुमिति । यद्यपि॒कालसमयवेलासु॑ इति सप्तमीनिर्देशात्कालसमयवेलानामुपपदत्वन्तथापि कालादीनामुपपदसंज्ञा तुमुना तुल्यविधानैव, न त्वमा । अतः कालदीनामुपपदत्वेऽपि न समास इत्यर्थः । अमैवेति किमिति । अमैवेत्येकारः किमर्थ इति प्रश्नः । अमा चान्येन चेति । अम्प्रत्ययेन क्त्वाप्रत्ययेन च सह उपपदसंज्ञा अग्रेप्रथमपूर्वशब्दानां विहिता, ततश्च उपपदत्वस्य अमैव तुल्यबिधानत्वाऽभावान्नोपपदसमास इति भावः ।
अमैवाव्ययेन - अमैवाव्ययेन । पूर्वेण सिद्धे नियमार्थमिदम् । तुल्यविधनमिति । एतच्चाध्याहारे लभ्यम् । तदेवेति । यस्मिन्नुपपदेयेन वाक्येन अमेव विहितस्तदेवोपपदमव्ययेन समस्यते नान्यदित्यर्थः । नियमबललभ्योऽयमेवकारो न तु सूत्रस्थः । स्वादुङ्कारमिति ।स्वादुमि णमुल् । अव्ययेनेति किम् । कुम्भकारः । असति ह्रव्ययग्रहणे अमैव यत्तुल्यविधानं तदेव केनचित्समर्थेन समस्येत । तथा सतिस्वादुङ्कारः॑इत्यत्रैव समासः स्यान्न तुकुम्भकार॑इत्यत्र अथ पूर्वसूत्रवैयथ्र्यभीत्याऽब्ययविषयकनियम एव इति चेतर्हि अम्न्तविषयक एव किं न स्यात्अमन्तेन यः समासः सोऽमैव तुल्यविधानस्ये॑ति । तथा चाग्रेभोजमित्यत्र समासो मा भूत्, अग्रे भुक्त्वा कालो भोक्तुमित्यत्र तु स्यादेवेति भावः । तदेवेति किम् । कालो भोक्तुम् समयोभोक्तुम् ।अमैवे॑त्येवकारेणाऽमा चान्येन च तुल्यविधानस्योपपदस्य समासनिवारणेऽपि तुमुना तुल्यविधानस्य स्यादेवातस्तन्निवरणाय तदेवेत्युक्तम् ।
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
अमैवाव्ययेन (440) (280 तत्पुरुषसंज्ञानियमसूत्रम् ।। 2।2।1 आ.14) (अनिष्टपरिहाराधिकरणम्) (आक्षेपभाष्यम्) एवकारः किमर्थः?।। (समाधानभाष्यम्) नियमार्थः।। (समाधानबाधकभाष्यम्) नैतदस्ति प्रयोजनम्। सिद्धे विधिरारभ्यमाणोन्तरेणैवकारं नियमार्थो भविष्यति।। (समाधानसाधकभाष्यम्) इष्टतोवधारणार्थस्तर्हि भविष्यति। यथैवं विज्ञायेत ‐ अमैवाव्ययेनेति।। मैवं विज्ञायि ‐ अमाव्ययेनैवेति।। (आक्षेपभाष्यम्) अस्ति चेदानीं कश्चिदनव्ययमम्शब्दो यदर्थो विधिः स्यात्।। (समाधानभाष्यम्) अस्तीत्याह ‐ खश्यं ब्राह्मणकुलमिति।। (समाधानबाधकभाष्यम्) नैतदस्ति प्रयोजनम्। अन्तरङ्गत्वादत्र समासो भविष्यति।। (समाधानसाधकभाष्यम्) इदं तर्हि प्रयोजनम्। अमैव यत्तुल्यविधानमुपपदं तत्र यथा स्याद् अमा चान्येन च यत्तुल्यविधानं तत्र माभूदिति। अग्रे भोजम्। अग्रे भुक्त्वा।। (नियमफलभाष्यम्) अग्रादिष्वप्राप्तविधेः समासप्रतिषेधं चोदयिष्यति। स न वक्तव्यो भवति।। अमैवा ।। 20 ।।