Page loading... Please wait.
2|2|13 - अधिकरणवाचिना च
॥ तस्मै पाणिनये नमः ॥
2|2|13
SK 707
अधिकरणवाचिना च   🔊
सूत्रच्छेदः
अधिकरणवाचिना (तृतीयैकवचनम्) , च (अव्ययम्)
अनुवृत्तिः
-
अधिकारः
आकडारात् एका संज्ञा  1|4|1 प्राक्कडारात्समासः  2|1|3 सुप्सुपा  2|1|4 विभाषा  2|1|11 तत्पुरुषः  2|1|22
सम्पूर्णसूत्रम्
Will be updated soon
सूत्रार्थः
Will be updated soon.
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
क्तो ऽधिकरणे च ध्रौव्यगतिप्रत्यवसानार्थेभ्यः 3|4|76 इति वक्ष्यति, तस्य इदं ग्रहणम्। अधिकरणवाचिना क्तेन षष्ठी न समस्यते। इदम् एषां यातम्। इदम् एषाम् भुक्तम्।
`इदमेषामासिम्` इति। अस्यतेऽस्मिन्नित्यधिकरणे क्तः। `अधिकरणवाचनिश्च` 2|3|68 षष्ठी। एवं पीतमित्यादावपि। अधिकरणवाचिनेति किम्? छात्रस्य हसितं छात्रहसितमिति॥
अधिकरणवाचिना च॥ ठधिकरणऽ इत्येव सिद्धे वाचिग्रहणं चिन्त्यप्रयोजनम्, कथम्? ठ्कवृते लिप्सायाम्ऽ,ठ्यद्वृतान्नित्यम्ऽ इति, नायमधिकरणे क्तः, क तर्हि? भावे। किमो वृतं यस्मिन् यदो वृतं यस्मिन्निति व्यधिकरणपदो बहुव्रीहिः॥
सिद्धान्तकौमुदी
क्तेन षष्ठी न समस्यते । इदमेषामासितं गतं भुक्तं वा ॥
अधिकरणवाचिना च - अधिकरण । शेषपूरणेन सूत्रं व्याचष्टे-क्तेनेति । इदमेषामासितं शयितं गतं भुक्तं वेति ।क्तोऽधिकरणे च ध्रौव्यगतिप्रत्यवसानार्थेभ्यः॑ इत्यधिकरणे क्तः ।अधिकरणवाचिनश्चे॑ति षष्ठी ।
अधिकरणवाचिना च - अधिकरणवाचिना च ।॒वाचि॑द्रहणं चन्त्यप्रयोजनमिति हरदत्तादयः । इदमेषामिति ।क्तोऽधिकरणे चे॑त् क्तः ।अधिकरणवाचिनश्चे॑ति कर्तरि षष्ठी ।अधिकरणे चे॑त्येव सिद्धे सूत्रद्वयेऽपिवाचि॑ग्रहणं स्पष्टार्थमित्याहुः । ननुकिवृत्तंयद्वृत्त॑मित्यत्र न कर्मणि क्तः, वृतेरकर्मकत्वात् । तथा चाधिकरणक्तान्तेन कथमिह समास इतिचेत् । मैवम् । नायमधिकरणे क्तः, किं तुगत्यर्थाकर्मके॑ति कर्तरि । किमा वृत्तं निष्पन्नमित्यर्थः ।
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
Text Unavailable. Please use feedback link below to provide the text if you have.