॥ तस्मै पाणिनये नम: ॥
Page loading... Please wait.
2|2|12
SK 706
2|2|12
क्तेन च पूजायाम्‌   🔊
SK 706
सूत्रच्छेद:
क्तेन - तृतीयैकवचनम् , च - अव्ययम् , पूजायाम् - सप्तम्येकवचनम्
अनुवृत्ति:
-
अधिकार:
आकडारात् एका संज्ञा  [1|4|1] , प्राक्कडारात्समास:  [2|1|3] , सुप्सुपा  [2|1|4] , विभाषा  [2|1|11] , तत्पुरुष:  [2|1|22]
सम्पूर्णसूत्रम्
Unavailable at the moment
सूत्रार्थ:
This sutra is not updated yet.

The sutras are being written one by one, so this sutra will eventually get updated. Meanwhile, you can refer to the commentaries below.
One-line meaning in English
This sutra is not updated yet.
काशिकावृत्तिः
मतिबुद्धिपूजाऽर्थेभ्यश्च 3|2|188 इति वक्ष्यति, तस्य इदं ग्रहणम्। पूजाग्रहणम् उपलक्षणार्थम्। क्तो यः पूजायां विहितस्तेन षष्ठी न समस्यते। राज्ञां मतः। राज्ञां बुद्धः। राज्ञां पूजितः। पूजायाम् इति किम्? छात्रस्य हसितम् छात्रहसितम्।
``मतिबुद्धिपूजार्थेभ्यश्च` इति वक्ष्यति`इति। क्तमिति वाक्यशेषः। `तस्येदं ग्रहणम्` इति। `मतिबुद्धि` 3|2|188 इत्यादिना सूत्रेण यो विहितः क्तः, तस्य पूजायामन्यत्र च सर्वस्य विहितस्येदं ग्रहणम्। न केवलं पूजायां यो विहितस्त्सयैवेष्यत इत्यभिप्रायः। अत एवाह-- `पूजाग्रहणमुपलक्षणार्थम्` इति। कस्योपलक्षणार्थम्? `मतिबुद्धि` 3|2|188 इत्यादौ सूत्रे निर्दिष्टार्थस्य यः क्तो विधीयते तस्य मत्यादेः। तेन न केवलं पूजायां यः क्तो विहितस्तेन षष्ठीसमासप्रतिषेधो भवति, अपि तु मतिबुद्धयोरपि यो विहितस्तेनापि। `राज्ञां मतः` इति। `क्तस्य च वत्र्तमाने` 2|3|67 इति षष्ठी। पूजायां किम्? छात्रस्य हसितं छात्रहसितम्। `नपुंसके भावे क्तः` 3|3|114 शेषलक्षणा षष्ठी॥
क्तेन च पूजायाम्॥ तस्येति। मत्यादिसूत्रविहितस्य सर्वस्यैव क्तस्य ग्रहणं न तु पूजायामेव विहितस्येत्यर्थः। कथं तर्हि पूजाग्रहणमित्याह----पूजाग्रहणमिति। विवक्षितस्य क्तस्य तटस्थमुपलक्षणं पूजाग्रहणम्, गृहस्येव काकः, न तु समासनिषेधार्थमित्यर्थः। तेन मतिबुद्ध्योरपि विहितस्य ग्रहणं भवतीति भावः। पूजायां विहित इति। वर्तमानादिति शेषः। राज्ञामिति। ठ्क्तस्य च वर्तमानेऽ इति षष्ठी। कथं राजाभिमत इति, अस्ति हि भट्टिकाव्ये प्रयोगः----ठ्कानहं स राममहितः कृतवान्ऽ इति, ठ्मह पूजायाम्ऽ रामस्य महित इत्यर्थः? कश्चिदाह----"यदा वर्तमाने क्तस्तदा षष्ठीसमासनिषेधश्च, यदा भूते क्तस्तदा कर्तरि तृतीयैव भवति, यथा----ठ्पूजितो यः सुरैरपिऽ इति, तस्याः ठ्कर्तृ करणे कृता बहुलम्ऽ इति समासः" इति। स्यादेवं यदि भूते क्तो लभ्यः, न; नाप्राप्ते तस्मिन्नारभ्यमाणः ठ्भतिबुद्धिपूजार्थेभ्यश्चऽ इति वर्तमाने क्तस्तस्य बाधको भवति, यथा च वडवाया वृषे वाच्य इति अपत्ये प्राप्तो ठक् ततोऽपकृष्य विधीयते, अपत्ये त्वणेव भवतीति वक्ष्यति। एवं च ठ्पूजितो यः सुरैरपिऽ इत्यचिकत्स्योऽपशब्दः। त्वया ज्ञातो मया ज्ञात तु भवत्येव; तेनेत्यधिकारे उपज्ञात इति निर्देशात्। अपर आह---ठ्क्तेन च पूजायाम्ऽ इत्यादिषु कारकषष्ठ।ल एव निषेधः। तदेव तु कर्तादिकारकं यदा शेषरूपेण विवक्ष्यते तदा भवत्येव समास इति। तत्र स्वरे विशेषः, कारकषष्ठयाः समासे कृत्स्वरो भवति, शेषषष्ठयाः समासे समासान्तोदातत्वमिति। एवं तु यत् ठ्जनिकर्तुः प्रकृतिःऽ, ठ्तत्प्रयोजको हेतुश्चऽ इत्यादावुच्यते---ठ्निपातनात्समासःऽ इति, तदनुपपन्नम्; शेषषष्ठ।ल एव समासस्य सिद्धत्वात्। अथ येऽमी नवीना वैयाकरणा आरभन्ते तदपार्थकमापद्येत। तस्मादाप्तप्रयोगस्य यथाकथंचिन्निर्वाहः, न तु यथारुचि पद्ययोग इति धीरा मन्यन्ते॥ ठ्क्तेनऽ इति निवृतम्। कर्मग्रहणं षष्ठीविशेषणम्। कर्मणि च या षष्ठी सा न समस्यते। ठुभयप्राप्तौ कर्मणिऽ इति षष्ठ।ल इदं ग्रहरगम्। आश्चर्यो गवां दोहोऽगोपालकेन। रोचते ओदनस्य भोजनं देवदतेन। साधु खलु पयसः पानं देवदतेन। विचित्रा सूत्रस्य कृतिः पाणिनिना॥
सिद्धान्तकौमुदी
मतिबुद्धि - (कौमुदी-3089) इति सूत्रेण विहितो यः क्तस्तदन्तेन षष्ठी न समस्यते । राज्ञां मतो बुद्धः पूजितो वा । राजपूजित इत्यादौ तु भूते क्तान्तेन सह तृतीयासमासः ॥
क्तेन च पूजायाम् - क्तेन च । अत्र पूजाग्रहणंमतिबुद्धिपूजार्थेभ्यश्चे॑ति सूत्रोपलक्षणं । तदाह — मतिबुद्धीति सूत्रेणेति । राज्ञा मतो बुद्धः पूजितो वेति । राज्ञा इष्यमाणो ज्ञायमानः पूज्यमान इति क्रमेणार्थः ।मतिबुद्धिपूजार्थेभ्यश्चे॑ति वर्तमाने क्तः । "क्तस्य च वर्तमाने" इति षष्ठी । नन्वेवं सति "राजपूजितः" "राजमतः" "राजबुद्ध" इति कथं समास इत्यत आह-राजपूजित इत्यादाविति ।
क्तेन च पूजायाम् - क्तेन पूजायाम् । सूत्रे उपलक्षणं पूजाग्रहणं, व्याख्यानादित्याह — मतिबुद्धीति । राज्ञामिति ।क्तस्य च वर्तमाने॑इति कर्तरि षष्ठी । भूत इति । न च तक्रकौण्डिन्यायेन मत्यादिब्यः क्तस्य वर्तमानकालो भूतकालतां बाधत इति वाच्यं,तेनैकदि॑दित्यतःतेन॑ इत्याधिकारेउपज्ञाते॑इति निर्देशेन भूतकालस्याऽबाधज्ञापनात् ।उपज्ञाते॑इत्यत्र हि भूते क्तो, न तु वर्तमाने । अन्यथाक्तस्य च वर्तमाने॑इति षष्ठीविधानादुपज्ञतशब्दस्य तेनेति । तृतीयायोगो न स्यात् । न चैवमपि ज्ञानार्थेष्वेव ज्ञापकत्वमस्त्विति वाच्यं,पूजितोः यः सुरासुरैः॑इति प्रयोगानुरोधेन सामान्यविषयज्ञापकत्वस्यैव न्याय्यत्वात् । अन्ये तु कारकषष्ठआ एव समासनिषेधोऽयम्, शेषषष्ठआ तु समासः स्यादेवेत्याहुः । एतेनकलहं स राममहितः कृतवा॑निति सभट्टिप्रयोगो व्याख्यातः ।राममहितः स, कलहं कृतवा॑नित्यन्वयः ।
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
Text Unavailable. If you can help in fixing this issue by providing this text, please let us know using the feedback link at the bottom of this page. Thank you!